मार्गे मार्गे जायते साधुसङगः
सङेग सङेग श्रूयते कृष्णकीर्तिः ।
कीर्तौ कीर्तौ नस्तदाकारवृत्ति-
र्वृत्तौ वृत्तौ सच्चिदानन्दभासः ॥११॥
महत्सेवां द्वारमाहुर्विमुक्त-
स्तमोद्वारं योषितां सङिगसङगम् ।
महान्तस्ते समचित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवोऽपि ॥१२॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्तदभवद् दृष्टवा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुन्स्त्वीदृशी ॥१३॥