हरिरेव जगज्जगदेव हरि-
र्हरितो जगतो नहि भिन्नतनुः ।
इति यस्य मतिः परमार्थगतिः
स नरो भवसागरमुत्तरति ॥१॥
हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये ।
नारायणाख्यपीयूषं पिब जिह्वे निरन्तरम् ॥२॥
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः ।
योऽसौ विश्वम्भरो देवः स भक्तान् किमुपेक्षते ॥३॥
शरीरं च नवच्छिद्रं व्याधिग्रस्तं कलेवरम् ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥४॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥५॥