मातर्गङगे तरलतरङगे सततं वारिधिवारिणि सङगे ।
मम तव तीरे पिबतो नीरं ’हरि हरि’ जपतः पततु शरीरम् ॥८॥
नमस्तेऽस्तु गङगे त्वदङगप्रसङगाद्भुजङगास्तुरङगाःकुरङगाःप्लवङगाः ।
अनङगारिरङगाःससङगाःशिवाङगा भुजङगाधिपाङगीकृताङगा भवन्ति
कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः
काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति ।
किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे
मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥१०॥
शुभतरकृतयोगाद्विश्वनाथप्रसादाद्
भवहरवरविद्यां प्राप्य काश्यां हि गङगे ।
भगवति तव तीरे नीरसारं निपीय
मुदितहृदयकुञ्जे नन्दसूनुं भजेऽहम् ॥११॥