पदकारिकरत्नमाला - सप्तविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ सप्तविंशोऽध्यायः
शादं दद्भिर्विंशतिः स्यात् षष्ठे पञ्चसु चैकता
विंशत्यादित्यान् श्मश्रुभिश्चत्वारिषदतथैकता
वातं प्राणे नैकविंशो वृतोनवैकविस्रुतः
कर्णाभ्यां च नवदशः पञ्चभिः पञ्चमैकता
मशकान् स्यात्त्रयोदश्यां त्रयस्त्रिं त्रिभिरिष्यते
जवं जङ्प्वा चतुर्दश्यां त्रिषु वेष्टसु चैककम्
षड्विंशत्यग्नेः पक्षतिद्वाभ्यामष्टच विस्रुताः
द्वात्रिंशदिन्द्रा ग्न्योः पक्ष त्रिचैव दशस्वपि
चतुर्विंशतिर्मरुतां स्कन्धा विचतुरस्त्रयः
द्वाविंशतिः पूष्णोर्वाम्नष्टुना षट्पञ्चपञ्च
इन्द्र स्य क्रोळो द्वादश्या वृदेकं द्वौ तथैककम्
नभ उदर्य्ये द्वाविंशं चत्वारिषट् च पञ्चमः
विधृतिं नाभ्या षड्विंशस्त्रयो वृच्चाष्टविस्रुताः
यस्येमेष्टादशश्चतुर्णां वृच्चतस्रकः
य आप्तदाश्चाष्टादशीं चतुर्थं पञ्चमो विस्रुक्
आनो भद्रा नवदशीं चत्वार्येकादशैकता
देवानां भद्रै कविंशो द्वाभ्यां तु वेळं तु षट्सु च
नवदशस्तान् पूर्वयाद्वितयन् द्वयमेकता
तं नो वातश्चैकविंश स्त्रिषु चाष्टविसर्जनाः
तमीशानं नवदशीं वृतमेकं तु पञ्चमः
स्वस्ति न इन्द्र षोळश्यां त्रीणि वृच्च दशाविस्रुक्
पृषदश्वा षोळशीं तु पञ्च वृद्दशचैकता
भद्रं कर्णेभिः सप्तदश्यां त्रत्रि नवभिस्ततः
शतभिन्नैकविंशत्या चैकं वृच्चाष्टमीपुनः
अदितिर्द्यौर्नवदशश्चैकवृद्द्वादशी विस्रुक्
मानोमित्रोष्टादशस्तु द्वयं दशसु चैकता
यन्निर्णिजासप्तदशस्त्रयो वृत्षड्भिरेव च
अष्टादशैषश्छागस्तु द्वितयं षट्सु चैवहि
यद्धविण्यमष्टादशस्त्रयश्चाष्टभिरेकता
होताध्वर्युः पञ्चदशः षष्ठे च षड्भिरत्र तु
यूपव्रस्काश्चाष्टादशः षण्णां वृ चतुरस्तथा
उपप्रागाविंशतिस्तु तिसृणां तु चतुष्टयम्
यद्वाजिनस्त्रयोविंशो द्वयं वृत्त्रितयं भवेत्
द्वाविंशतिर्यदश्वस्य चैकं वृत्त्रिषु विस्रुताः
यद् वध्यं सप्तदशस्त्रिषु चत्वारि विस्रुताः
यान्ते गात्रादेकविंशस्तिस्रस्तु द्वौ तु विस्रुतौ
ये वाजिनमेकविंशः पञ्चभिः षड्भिरेव च
यन्नीक्षणं षोळशीं तु तिस्रस्तु पञ्चभिः पुनः
मात्वाग्निध्वनैकविंशत्या तिसृभिश्चतुरो विस्रुक्
निक्रमणं विंशतिस्तु तिसृणां चैकमेव च
पञ्चदशीं यदश्वाय वृतस्रीश्चैकविस्रुतः
अष्टाविंशतीमानुकं पञ्चभ्यो नवविस्रुताः
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिका रत्नमालायां
सप्तविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP