पदकारिकरत्नमाला - त्रयोविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ त्रयोविंशोऽध्यायः
द्वादशीमिमं मे वरुण विसर्गैकं तु शस्यते
त्वन्नो अग्ने सप्तदश्यां चैकं षष्ठे तु चैकता
सत्वन्नो ग्नैकविंशत्या द्वाभ्यां वृद्दशविस्रुताः
पञ्चदशीं महीमुषु पञ्च वृच्च यथा विदुः
सुत्रामाणं पञ्चदशीं वृतश्चतुर्थ एव च
सुनावमारुहे सप्तद्वयो वृतोरथन्तरं
आनो मित्रनवम्यां तु तथैकं वृद्विस्रुग्द्वयोः
प्रबाहुवासि स्रजं च विंशति द्वौ विसर्जनौ
समिद्धोऽग्निर्द्वादशीं तु चत्वारि नवभिर्विस्रुक्
द्वादश्यां तनूनपाच्चतुस्तु षळित्यपि
त्रयोदशीळाभिरग्निर्द्वयोरेकादशस्तथा
सुबर्हिरग्निर्द्वादश्यां चतुरो नवमैकता
दुरोदेवीः पञ्चदश्यां चैकमेकादशापराः
उषेयह्वी चतुर्दश्यां वृतः पञ्च षळत्र तु
दैव्या होतारा त्रयोदश्येकं चतुरेकता
तिस्र इळा पञ्चदश्यां तथैकमष्टभिः पुनः
त्वष्टातुरी त्रयोदश स्त्रयो वृतस्तु षट्सु च
शमितानश्चतुर्दश्यामेकं पञ्चैकमुच्यते
स्वाहा यज्ञं त्रयोदश्यां द्वयं वृतं च सप्तमी
वसन्तेन द्वादशीं च द्वाभ्यां षष्ठे यथा विधि
ग्रीष्मेण च त्रयोदश्यां विदुरेकं तु षष्ठके
त्रयोदशश्च वर्षाभिरेकं च षष्ठमेव च
शारदेन त्रयोदशस्तथा चैकं तु षदककम्
हेमन्तेन त्रयोदश्यां वृच्चैकं च तथाष्टमीम्
त्रयोदशः शैशिरेण वृतमेकमथाष्टमः
होतायक्षन्नवविंशस्तत्र द्वौ दशमः क्रमात्
तनूनपात्सप्तदश चत्वारिषष्ठमैकना
नराशँ समेकविंशस्ततो द्वावष्टमो विस्रुक्
इळेकितो विंशतिस्तु द्वौ वृतौ षड्भिरेकता
बर्हिरूर्णा वषोळश्यां द्वाभ्यां वृच्चतुरो विस्रुक्
दुरोदिशश्चतुर्विंशस्त्रयाणां च दशैव तु
सुपेशसा च विंशत्या त्रिषु वृत्सु द्वयोवथ
दैव्या होताराष्टादशो विस्रुतौ द्वौ तथापिवा
तिस्रोदेवीं विंशत्यैकं च सप्तसु क्रमात्
सुरेतसं चतुर्विंशद्द्वयोर्वृच्चतुषष्ठके
नवस्पतिं सवितारं सप्तदश्येकमेककम्
पञ्चचत्वारिंशदग्निं स्वाहाश्चत्वारि चाष्टमे
चतुर्विंशाश्विनौ छागौ द्वादशस्तु विसर्जनाः
अश्विनौ सचत्वारिंशत्समिं विंशतैककम्
अष्टपञ्चाशदश्विनौ च्छागदशवृद्वास्वविंशतिः
अष्टा चत्वारिंशद्वनस्पतिमभिजित्सप्तवृत्
चतुर्दशविसर्गास्तु नान्तमेकमिहोच्यते
नवदशाग्निं स्विष्टकृत्त्रीणि सप्त विसर्गनाः
देवं बर्हिस्सप्तदश्यां त्रीणि पञ्चमेव च
देवीर्द्वारश्चतुर्दश्या वृच्चैकं चतुरस्तथा
चतुर्दशीं देवी उषासौ चतुर्थन्तु चैककम्
जोष्ट्री सरश्चतुर्दशस्त्रयाणां त्रीणि चैककम्
सप्तदशीन्दोर्जाहती षष्ठे चैव चतस्रकः
षोळशी देवा देवानां त्रिषु वृच्च द्वयोर्विस्रुक्
देवीस्तिस्रः पञ्चदश्यां वेष्टनैकं तु पञ्चभिः
देव इन्द्रो ष्टादशस्तु वृच्च त्रयं तु षष्ठके
देवो देवैरेकविंशश्चत्वारि दशभिः पुनः
नवदशो देवं बहिस्त्रयोवृच्च चतस्रकः
चतुश्चत्वारिंशद्देवो अग्निः स्विष्टकृद्द्वादश
चतुर्दशविसर्गास्तु मान्तमेकन्तु द्वास्यते
त्रयो विंशत्यग्निमद्य चतुरो द्वौ च षष्ठके
सूपस्थाः पञ्चविंशत्या चत्वारि सप्तत्रीन् क्रमात्
चतुश्चत्वारिंशत्वामद्य ऋषे षड्वृद्दशभिः
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
त्रयोविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP