श्रीनृसिंहसप्तकम्
सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.
अद्वैतवास्तवमतेः प्रणमज्जनानां सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं देवं मुदा कमपि नौमि कृपासमुद्रम् ॥१॥
नतजनवचनऋतत्वप्रकाशकालस्य दैर्घ्यमसहिष्णुः ।
आविर्बभूव तरसा यः स्तम्भान्नौमि तं महाविष्णुम् ॥२॥
वक्षोविदारणं यश्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं नरहरिवपुषं नमामि तं विष्णुम् ॥३॥
रिपुहृदयस्थितराजसगुणमेवासृङ्मिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे प्रह्लादपूर्वभाग्यनिचयमहम् ॥४॥
प्रह्लादं प्रणमज्जनपङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं चित्रं कुरुते नमामि यस्तमहम् ॥५॥
शरदिन्दुकुन्दधवलं करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं तरसैव ऋतं प्रकुर्वदहमीडे ॥६॥
मुखेन रौद्रो वपुषा च सौम्यः सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवेत्याख्याप्रसिद्धिर्यदसंशयाऽभूत् ॥७॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीनृसिंहसप्तकं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : January 07, 2026

TOP