धन्वन्तरिवन्दना
सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.
विशिष्टरोगौषध-बोधभावात्
रोग-व्रजाभाव-विधान-वीरम् ।
न तत्र यान्तश्च कदापि मोहं
धन्वन्तरिं वैद्यवरं नमामि ॥१॥
पीयूषपाणिं कुशलं क्रियासु
धीरं निरीहं शुभदं दयालुम् ।
प्रबुद्धसाङ्गागद-वेद-विद्यं
धन्वन्तरिं वैद्यवरं नमामि ॥२॥
स्वस्थेषु मैत्रीं करुणां रुजार्ते
प्रीति सुसाध्ये विदधानमेव ।
उपेक्षणञ्चासु-मुमुक्षुमर्त्ये
धन्वन्तरिं वैद्यवरं नमामि ॥३॥
इच्छन्तमग्र्यं परमं स्व-धर्मं
दुःखात्प्रयत्नेन सदातुराणाम् ।
निजात्म-जानामिव रक्षितारं
धन्वन्तरिं वैद्यवरं नमामि ॥४॥
भूतानुकम्पेति परो हि धर्मः
निश्चित्य पथ्येन गदघ्नमस्मात् ।
सुसिद्धिमन्तं सुखिनम्प्रशान्तं
धन्वन्तरिं वैद्यवरं नमामि ॥५॥
पुंसां गदानां विविधे निदाने
लिङ्गे सुशान्तौ च भवाप्रवृत्तौ ।
चतुर्विधज्ञान-विशेषभाजं
धन्वन्तरिं वैद्यवरं नमामि ॥६॥
देशस्य कालस्य तनोर्गदानां
द्रव्यस्य दोषस्य रसस्य चापि ।
अशेष-तत्त्वज्ञवरं प्रभावात्
धन्वन्तरिं वैद्यवरं नमामि ॥७॥
स्पर्शावगम्यैर्बहुभिस्तु भावैः
शरीर जातैर्गदपीडितानाम् ।
आयुः प्रमाणान्यवबुध्यमानं
धन्वन्तरिं वैद्यवरं नमामि ॥८॥
असाध्यवर्जं परियाप्य याप्यान्
साध्यामयान् सिद्धसुयोगसङ्घैः ।
निघ्नन्तमव्याहतबुद्धिवेगं
धन्वन्तरिं वैद्यवरं नमामि ॥९॥
इति हरिनारायणशर्मा वैद्य विरचिता धन्वन्तरिवन्दना समाप्ता ।
N/A
References : N/A
Last Updated : January 07, 2026

TOP