श्रीदयानन्दसप्तकम्
सप्तकम्, देवी देवतांची स्तुती करताना म्हणावयाच्या सप्त रचना.
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीदयानन्दसप्तकम् ।
दयानन्दसारप्रसारैकसारं सुवेदप्रमाणं प्रमाणार्थसारम् ।
सदातत्त्वबोधं सवेदार्थबोधं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥१॥
अहङ्कारहीनं अहम्ब्रह्मलीनं अजातादितत्त्वोपदेशप्रवीणम् ।
अनादिप्रगीतानुशिक्षातिदक्षं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥२॥
निवासोपगङ्गं सुसन्न्याससङ्गं गतार्थप्रसङ्गं सदार्थप्रसङ्गम् ।
सदाशङ्कराचार्यबोधप्रसङ्गं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥३॥
सुवेदान्तवेदिं सदाद्वैतदृष्टिं समत्वैकदृष्टिं श्रितावश्यपूर्तिम् ।
सदाजीवनाचारसेवापरं तं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥४॥
उदारस्वभावं स्वभावप्रशान्तं स्वदेशप्रयाणं स्वधर्मप्रचारम् ।
विदेशाटनं तं विदूरप्रबोधं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥५॥
शतायुःप्रसन्नैकसन्न्यासवर्यं सदाचार्यसम्पत्तिसम्प्राप्तिशिक्षम् ।
विमुक्तिप्रदानैकसुज्ञानमार्गं दयानन्दमूर्तिं यतिश्रेष्ठमीडे ॥६॥
गुरुत्यागराजेन्द्रशिष्योपगीतं सुपुष्पोपहारं दयानन्दनन्दम् ।
सुसङ्गीतसत्काव्यसन्नूतिनन्दं दयानन्दसानन्दसद्वाक्प्रसादम् ॥७॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीदयानन्दसप्तकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
N/A
References : N/A
Last Updated : January 07, 2026

TOP