हरिपाठ: - २३
महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥
सप्त पञ्च तथा त्रीणि दश चैकत्र मेलितम् । मेलोऽयं भासते सर्व एकतत्वात्मके हरौ ॥१॥
नैवं नाम, वरिष्ठं तन्मार्गेषु सकलेषु च । न नामस्मरणे कष्टं मनागप्यनुभूयते ॥२॥
सोऽहं हंस इति प्राणे सोऽजपाजपसंज्ञित: । तस्मिन्नपि जपे नामस्मरणं विद्यते ध्रुवम् ॥३॥
वक्ति ज्ञानेश्वरो व्यर्थं जीवितं नामवर्जितम् । रामकृष्णाख्यमार्गोऽयमत आक्रम्यते मया ॥४॥
N/A
References : N/A
Last Updated : October 02, 2025

TOP