त्रिवेणीसङ्गमे नानातीर्थेष्वटनमेव वा । चित्तं न चेन्नामजपे, सर्वं तद्भ्रमणं वृथा ॥१॥
नामतो यस्तु विमुखो, मूर्तिमत्पापमेव स: । उद्धर्तुं तादृशं पापं नालं कोऽपि विना हरिम् ॥२॥
पुराणेषु प्रसिद्ध: स वाल्मीकिरिदमुक्तवान् । हरिनामस्मरणतो भुवनत्रयमुद्धरेत् ॥३॥
वदतीदं ज्ञानदेव: श्रीहरेर्नाम यो जपेत् । विशुद्धा जायते तस्य सर्वा कुलपरम्परा ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP