उदयाद्रिमस्तकमहामणिं लसत् -

कमलाकरैकसुहृदं महौजसम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥१॥

तिमिरापहारनिरतं निरामयं

निजरागरञ्जितजगत्त्रयं विभुम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥२॥

दिनरात्रिभेदकरमद्भुतं परं

सुरवृन्दसंस्तुतचरित्रमव्ययम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥३॥

श्रुतिसारपारमजरामयं परं

रमणीयविग्रहमुदग्ररोचिषम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥४॥

शुकपक्षतुण्डसदृशाश्वमण्डलं

अचलावरोहपरिगीतसाहसम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥५॥

श्रुतितत्त्वगम्यमखिलाक्षिगोचरं

जगदेकदीपमुदयास्तरागिणम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥६॥

श्रितभक्तवत्सलमशेषकल्मष -

क्षयहेतुमक्षयफलप्रदायिनम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥७॥

अहमन्वहं सतुरगक्षताटवी

शतकोटिहालकमहामहीधनम् ।

गदपङ्कशोषणमघौघनाशनं

शरणं गतोऽस्मि रविमंशुमालिनम् ॥८॥

इति सौरमष्टकमहर्मुखे रविं

प्रणिपत्य यः पठति भक्तितो नरः ।

स विमुच्यते सकलरोगकल्मषैः

सवितुस्समीपमपि सम्यगाप्नुयात् ९॥

इति आदित्याष्टकं समाप्तम् ॥  

श्रीसूर्याष्टकम् समाप्त ॥

N/A

References : N/A
Last Updated : August 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP