श्रीगणेशाय नमः ।

प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां

प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् ।

गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥१॥

त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे

बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।

निधानं यस्यायं कुरुत इति धाम्नामधिपति

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥२॥

मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति

नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् ।

क्रतुर्लोकानां यो लयभरभवेषुप्रभुरयं

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥३॥

दिशः खं कालो भूरुदधिरचलं चाक्षुषमिदं

विभागो येनायं निखिलमहसा दीपयति तान् ।

स्वयं शुद्धं संविन्निरतिशयमानन्दमजरं

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥४॥

वृषात्पञ्चस्वेत्यौढयति दिनमानन्दगमनस् -

तथा वृद्धिं रात्रैः प्रकटयति कीटाज्जवगतिः ।

तुले मेषे यातो रचयति समानं दिननिशं

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥५॥

वहन्ते यं ह्यश्वा अरुणविनि युक्ताः प्रमुदितास् -

त्रयीरूपं साक्षाद्दधति च रथं मुक्तिसदनम् ।

नजीवानां यं वै विषयति मनो वागवसरो

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥६॥

तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश् -

चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितं ।

निबध्नन्ती नागा रथमपि च नागायुतबला

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥७॥

प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे

तथा सायं विष्णुं जगति हितकारी सुखकरम् ।

सदा तेजोराशिं त्रिविवमथ पापौघशमनं

नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥८॥

मतं शास्त्राणां यत्तदनु रघुनाथेन रचितं

शुभं चुंराग्रामे तिमिरहरसूर्याष्टकमिदम् ।

त्रिसन्ध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश् -

चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम् ॥९॥

नन्देन्द्वङ्क्क्षितावब्दे ( १९१९ ) मार्गमासे शुभे दले ।

सूर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥१०॥

इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : August 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP