अथ चर्यापादः - पितृयज्ञविधिपटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
पितृयज्ञविधिपटलः
अथातः संप्रवक्ष्यामि पितृयज्ञविधिक्रमम् ।
दहनान्ते बलिङ्कृत्वा एकोद्दिष्टन्तदन्तिके ॥१॥
आश्रमाणां त्रयाणाञ्च बलिपिण्डोदक क्रिया ।
कर्तव्यं द्वारवामे तु न्यस्त्वा चात्मशरावकम् ॥२॥
कूर्चं प्रादेशमात्रन्तु अश्ममध्ये विनिक्षिपेत् ।
पितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥३॥
तस्य तत् गोत्रनाम्ना तु सर्वद्रव्यं हृदाबुधः ।
प्रथमेह्नि बलिन्दत्वा चान्येष्वेवन्तु दापयेत् ॥४॥
तस्य प्रीतिकरं द्रव्यं दापयित्वा प्रयत्नतः ।
पितृपूजा यदा कुर्यात् तस्य तुष्टिप्रदं सदा ॥५॥
द्वितीयेहनितन्त्रात्मा दाहकेन समन्वितः ।
सपिण्डैः सहगत्वा तु श्मशाने चाग्निके पुनः ॥६॥
घृतक्षुरसमायुक्तं शेषाङ्गं दहनञ्चरेत् ।
सप्ताहे नवभाण्डन्तु अस्थिसंग्रहणं तथा ॥७॥
सक्तुलाजोदना पूपैश्चतुर्दिक्षु च दापयेत् ।
अङ्गैरङ्गादिकन्धार्य तन्मन्त्रेणैव निक्षिपेत् ॥८॥
पुण्यनामा तु मतिमान् शुभार्थाय च देहिनाम् ।
नवाहे वा पराह्णे तु शरावाश्मसुपूर्ववत् ॥९॥
दशरात्रमति क्रम्य सर्वान्तस्थान्विसर्जयेत् ।
स्थापयित्वा जलान् सर्वान् गोमयेन तु लिप्य वै ॥१०॥
पुण्याहं तत्र कुर्वीत ग्रहेऽस्मिं तदशेषतः ।
एकादशाहे कर्तव्यमेकोद्दिष्टं विसर्जयेत् ॥११॥
कृतिकालमथारभ्य सुभक्षापेक्षकं विना ।
ग्रहे वा पुरतो वापि प्रपां वै कारयेत् बुधः ॥१२॥
चतुरश्रे समेशुभ्रे सर्वालङ्कारसंयुते ।
शैवतन्त्रविदः सर्वान् तस्य मध्ये समावहेत् ॥१३॥
पाद्याचमनार्घ्यं दत्वा नम स्मृत्वा तु चाग्रतः ।
ममेदं पितृयागन्तु सर्वशास्त्रार्थमस्तु वै ॥१४॥
अनुग्रह्णं त्विति ब्रूयादावर्तेका वटद्वयम् ।
श्राद्धकर्म समारभ्य दक्षिणे तत्पदार्थिनः ॥१५॥
पदार्थिनो निमित्तञ्च विश्वेदेव पुरस्कृतान् ।
शैवाचारवृतांश्चैव श्रोत्रियान् प्रियदर्शिनः ॥१६॥
संग्राह्यैतान् नमस्कृत्वा पादौ शौचं ततः कुरु ।
कारयेच्चद्वयं पूर्वन्तयोर्दर्भान् परिस्तरेत् ॥१७॥
प्रक्षिप्याथ तिलं मध्ये तैलेनाभ्यञ्जनं ततः ।
सर्वानभ्यञ्जनङ्कृत्वा स्नानं सर्वान् समाचरेत् ॥१८॥
देवाग्नि पितृयज्ञार्थं स्थण्डिलं त्रयमत्र वै ।
उत्तरे देवदेवेशं मध्यमेऽग्नीं प्रकल्पयेत् ॥१९॥
दक्षिणे पितृपिण्डं च शूर्पाकारन्तु देशिकः ।
कारयेद्व्यजनं भक्त्या शिवस्य विधिपूर्वकम् ॥२०॥
मेध्येऽग्निं विधिवद्धुत्वा दक्षिणाग्निं परिसरेत् ।
तद्वत् परिधयस्तत्र समिदाज्योदनैस्तिलैः ॥२१॥
हुतायना ममूलेन प्रत्येकन्तु शताहुतिः ।
सहस्राक्षरमन्त्रेण होमङ्कृत्वा तु शक्तितः ॥२२॥
अघोरेण शतं हुत्वा स्वनाम्ना तु शताहुतिः ।
निमित्तञ्च त्रयंभोज्यं विश्वौ देवौ प्रपूजयेत् ॥२३॥
गन्धाद्यैश्च समभ्यर्च्य वर्धनीञ्च सतण्डुलाम् ।
वस्त्रं कांसं सुवर्णञ्च शयनं पादुकं तथा ॥२४॥
दक्षिणाञ्च यथा शक्त्या दापयेत् भक्तिसंयुतः ।
तांबूलन्तु विशेषेण दत्वा वैकंप्रणम्य च ॥२५॥
दर्भाग्रैसुसमुद्वास्य पश्चात् पिण्डन्तु देशिकः ।
शूर्पे सोदनदद्याच्यैर्मर्दयेत् सा पदंशकैः ॥२६॥
कदली पुष्पवत् पिण्डं दक्षिणाग्रं विशेषतः ।
स्वाहान्तं प्रणवान्तं वा मन्त्रमेतदुदाहृतम् ॥२७॥
चतुर्थ्यन्तं हिते मध्ये तस्य नामसमन्वितम् ।
तत्सूत्र गन्धपुष्पञ्च धूपदीपं विशेषतः ॥२८॥
तिलं दत्वोदकञ्चैव तांबूलमपि पार्श्वकाः ।
ध्यात्वा परमसत्भावं शिवं तत्वैकतां बुधः ॥२९॥
पात्रे पिण्डं समुत्थाप्य ततो हंसन्नियोजयेत् ।
शैवान् संभोज्ययत्नेन पिण्डं रात्रौ जलेक्षिपेत् ॥३०॥
पित्रयज्ञविधिः प्रोक्तः सपिण्डीकरणं शृणु ।
इति पितृयज्ञविधिपटलोदशमः ॥१०॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP