संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ चर्यापादः| दहनविधिपटलः अथ चर्यापादः शैवोत्पत्तिविधिपटलः जातिभेदविधिपटलः मण्डलविधिपटलः दीक्षाविधिपटलः षोडशक्रियाविधिपटलः वृताचारविधिपटलः पवित्रारोहण विधिपटलः हिरण्यगर्भतुलाभरविधिपटलः दहनविधिपटलः पितृयज्ञविधिपटलः सपिण्डीकरणविधिपटलः प्रायश्चित्तविधिपटलः अथ चर्यापादः - दहनविधिपटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः दहनविधिपटलः Translation - भाषांतर अतः परं प्रवक्ष्यामि दहनस्यविधिक्रमम् ।यदा चैतन्यरहिते प्रारभेद्दहनक्रियाम् ॥१॥दहनञ्च कृतिं भद्रञ्चावटाग्निकमेव च ।अवटादि क्रियाः सर्वाः संक्षेपाच्छृणु सुवृत ॥२॥गर्भस्रावञ्च पतनमुढगर्भं तथा प्रजाः ।चौलकार्यादयोमर्त्या ये मृताश्चावटाभिकाः ॥३॥दहनं हलिकर्मादि वर्ज्यन्तेषां प्रयत्नतः ।पवनोर्ध्व मृतिर्येषामब्दं प्रतिदिनेदिने ॥४॥बलिदाहाद्यकर्माणि सममेतदुदाहृतम् ।दशवर्षादतिक्रान्ते दशाहं दापयेत् बलिम् ॥५॥अवटाग्निककार्यं तु समासात् प्रोच्यतेऽधुना ।कृत्वा शरीरशुद्धिं तत् रजनीपुष्पशोभितम् ॥६॥दर्भैरावेष्ट्य यत्नेन बन्धुभिः परिवारितः ।कार्पासवाससा वापि ग्राहयेत् तु विचक्षणः ॥७॥शिवभक्तिः शुचिर्भूत्वा भस्मोद्धूलितविग्रहः ।अपसव्योपवीतस्तु कृतदर्भोत्तरीयकः ॥८॥गत्वा श्मशान देशे तु शुद्धदेशेमनोहरे ।खात्वोर्वीं तत्प्रमाणेन विस्तारं तत्प्रमाणतः ॥९॥बाहुमात्रभिदे निम्ने न्यस्त्वादर्भाक्षतादिभिः ।शिरस्तु दक्षिणे देशे शाययेन्मृतकं तथा ॥१०॥तूष्णीं गन्धादिनाभ्यर्च्य दर्भैराच्छाद्यतच्छवम् ।मृदं संपूर्य तत्रैव सुस्निग्धन्तु सुवर्णकैः ॥११॥तदा स्नानञ्च कर्तव्यं तत्सपिण्डैः सहैव तु ।दाहक्रियाविना यत्र बलिकर्म न कारयेत् ॥१२॥अवटाग्निकमेवोक्तमाकृतिञ्च ततः शृणु ।वाचायुक्तस्यमरणं शस्त्रेणैव तु मुष्टिका ॥१३॥वसूरिक्षयकुष्ठाद्यैरात्म घातकमारणम् ।जलेन श्रिंगिणावापि वह्निना वा विशेषतः ॥१४॥एतैस्तु मरणं एषां तेषामाकृतिरुच्यते ।सर्पेण पशुनानागैर्देशाद् देशान्तरे गते ॥१५॥द्वादशाब्दादति क्रान्ते चा कृतिर्दहनं स्मृतम् ।तस्य पत्न्यस्ति चेत्तत्र वैधव्यं कारयेत् क्रमात् ॥१६॥बलिकर्माणि चान्यानि कृत्वा चैव समन्त्रकम् ।पश्चात् कृते गते वापि मङ्गल्याभरणं तथा ॥१७॥मङ्गल्यमुत्तरीयेण पत्न्याकण्ठे तु रोपयेत् ।आचार्यं पूजयेद्धिमान्यावदा मरणान्तिकम् ॥१८॥यत्र पूर्वक्रियासूत्या तत्र कर्म न कारयेत् ।शस्त्रादिमरणं यत्र कार्यं संवत्सरोपरि ॥१९॥अमन्त्रेण दहेद् देहं खनित्वा चाथभूतले ।सुदर्भैराकृतिं कृत्वा सूत्रैरावेष्ट्य चा कृतिम् ॥२०॥पलाशपत्रैरावेष्ट्य सर्वाङ्गं परिकल्प्य वै ।मृतवत् सर्वकर्माणि कारयेत् तु विचक्षणः ॥२१॥आकृतेर्दहनं प्रोक्ता दहनस्य विधिं शृणु ।शवशुद्धिं पुराकृत्वा भस्मस्नानमतः परम् ॥२२॥सिकते स्थण्डिलङ्कृत्वा स्वप्रमाणेन देशिकः ।दर्भैरुपरिविन्यस्य प्रेतं तत्रोपविन्यसेत् ॥२३॥बध्वापादौ च हस्तौ च रङ्गमाल्यैरलङ्कृतम् ।ध्यात्वा शिवतनुं पूर्वं ब्रह्माङ्गाकृति विग्रहः ॥२४॥कर्णमन्त्रञ्जपं कृत्वा बीजमुख्यन्तु मन्त्रतः ।स्नात्वा चम्यविधानेन वामे तदुपवीतकम् ॥२५॥सपिण्डैर्बान्धवैर्वापि संस्नाय्येवं शिवाग्निकम् ।चतुरश्रमलङ्कृत्वा खनित्वा कीलकत्रयम् ॥२६॥तेषामूर्ध्वे तथा पात्रं न्यस्त्वाधसुषकं बुधः ।तस्याधश्चाग्निमुद्दीप्य तु षकाग्नौ यथा विधि ॥२७॥शिवाग्निं ध्याययेत् तत्र गन्धाद्यैश्चाग्निपूजनम् ।निधाय शुद्धदेशे तु कृत्वाश्वास परीक्षणम् ॥२८॥हृन्नासिकर्ण देशेषु स्पर्शयित्वा क्रमात् बुधः ।हृदयेन तु मन्त्रेण श्वासंसंशोध्यमन्त्रवित् ॥२९॥अघोरेण तदुथाप्य शशाने चोपरोप्यते ।यावत् प्रेतस्य चायामं तावत् भूमिन्तु खातयेत् ॥३०॥अरतिमात्रमर्धं वा तिलाक्षत कुशोदकैः ।वामदेवेन संप्रोक्ष्य स्नात्वाकोणेषु कीलकान् ॥३१॥सूत्रैरावेष्ट्य परितः काष्ठन्तत्रैव निक्षिपेत् ।प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववत् बुधः ॥३२॥हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिः ।होमशेषं घृते नैव चरुक्षीराक्षतादिभिः ॥३३॥नाभि हृद्वक्त्रदेशेषु हृदयेन विनिक्षिपेत् ।इन्धनोपरि विन्यस्य दक्षिणे तु शिरस्ततः ॥३४॥दत्वाहिरण्यशकलं नवद्वारेषु बुद्धिमान् ।तदास्य चक्षुषी कर्णौ नासिद्वारौ गुहसथा ॥३५॥लिङ्गञ्चेति नवद्वारं हृदयेन निधापयेत् ।क्षीरतण्डुलसम्मिश्रं दत्वा वामेन चास्यके ॥३६॥छेदयित्वा ततः पाशमघोरास्त्रेण मन्त्रवित् ।स्रग्वासञ्च ततः कुर्यात् सपिण्डैर्भ्रातृभिस्तथा ॥३७॥प्रदक्षिणत्रयं कृत्वा वेलाग्रेणैव बुद्धिमान् ।जलधारा समायुक्तं वह्निस्थ नवमृत्घटम् ॥३८॥प्रदक्षिणवशाद्वारमस्त्रमन्त्रेण देशिकः ।प्रदक्षिणत्रयङ्कृत्वा वामपार्श्वे निधाय वै ॥३९॥ततः कपालतोयैश्च प्राणस्थानेषु योजयेत् ।मूर्धादिपादपर्यन्त माज्यालेपं सुशोभितम् ॥४०॥पादद्वयञ्च संस्पृश्य स्मृत्वागौ तु हविष्यवत् ।अघोरेणाग्नि निक्षिप्य शिरस्थाने शिवं स्मरेत् ॥४१॥नद्यां वापि तटाके वा सुस्नात्वा भारकैः सह ।पञ्चगव्यं घृतं पीत्वा मूलमन्त्रं शतञ्जपेत् ॥४२॥यथा शक्त्याधनं दत्वा ब्राह्मणानां दरिद्रिणाम् ।तीर्त्थं गत्वा यथा न्यायं स्नापयित्वा सपिण्डकैः ॥४३॥तिलोदकन्तु तातव्यं तस्य तन्नामपूर्वकम् ।दहनस्य विधिः प्रोक्ता ब्रह्मचर्यादिषु क्रमात् ॥४४॥दहनन्तु न कुर्वीत यतीनाञ्चावटाग्निकम् ।संवाह्य शिबिकाद्येषु तूर्यशब्दैर्महारवैः ॥४५॥सर्वमङ्गलकर्माणि कारयेत् तु विचक्षणः ।खात्वादण्डप्रमाणेन प्राङ्मुखं तत्र पूर्ववत् ॥४६॥स्नानं तत्र न कुर्वीत नास्त्ये वा शौचं मंत्रिणः ।बलिकर्मणि कर्तव्यमेकोद्दिष्टाधिकं विना ॥४७॥समासाद्दहनं प्रोक्तं पितृयज्ञविधिं शृणु ।इति दहनविधिपटलोनवमः ॥९॥ N/A References : N/A Last Updated : January 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP