अथ चर्यापादः - पवित्रारोहण विधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि पवित्रारोहणं शृणु ।
सर्वपूजा समृद्ध्यर्थं वृतपूर्णार्थमेव च ॥१॥

सर्वकर्मसुहीनेषु पूर्णार्थं कारयेत् बुधः ।
आलये देवमारभ्य सर्वसंपत्कराय च ॥२॥

शिवपूजाकरोकार्यः पवित्रारोहण क्रियाम् ।
आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः ॥३॥

प्रोष्ठमासे स्वयुङ्मांसे कृष्णपक्षेऽथवा पुनः ।
द्वितीयादि चतुर्थादि षष्ठ्यादि च विशेषतः ॥४॥

अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् ।
अष्टम्यादि दशम्यादि द्वादशादी च वा बुधः ॥५॥

चतुर्दश्यान्तकं कार्यं पवित्रारोहण क्रियाम् ।
सप्ताहञ्चैव पञ्चाहं त्रियाहं वापि कारयेत् ॥६॥

सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते ।
आर्द्रायां रोहिणी युक्ते कारयेत् तत्पवित्रकम् ॥७॥

कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् ।
स्नपनन्तु यथा शक्त्या शिवाग्निन्तु विशेषतः ॥८॥

विशेषपूजनं कृत्वा नमस्कृत्वा विशेषतः ।
मया कृतानिदानानि द्रव्याणीह वृतानि च ॥९॥

अनया पूजया सर्वाः संपूर्णास्तु प्रसीदत ।
एवं विज्ञाप्यतं शंभु नमस्कृत्वा तु भक्तितः ॥१०॥

तत्भस्मदन्तकाष्ठानि तोयं सूत्रं समावहेत् ।
नदिमृत् भस्मपूर्णे वा मलके वा परिग्रहम् ॥११॥

पूर्ववत् तस्य संग्राह्य पालाशं दन्तकाष्ठकम् ।
अथवा याज्ञकै वृक्षैर्नव वा सप्तसंख्यया ॥१२॥

कनिष्ठांगुलिनाहन्तु द्वादशांगुलीदीर्घकम् ।
वस्त्रपूतेन तोयेन संपूर्यनवमृत्घटम् ॥१३॥

द्वात्रिंशत् प्रस्थपूर्णं वा तदर्द्धं त्वर्धमेव वा ।
सूत्रैः संवेष्टयित्वा तु वस्त्रैरावेष्ट्य यत्नतः ॥१४॥

पञ्चरत्नानि निक्षिप्य रत्नालाभे हिरण्यकम् ।
सूत्रं प्रागेव संग्राह्य निर्मितं द्विजकन्यया ॥१५॥

यथा संभवसूत्रं वा शोधयेत्तोय भस्मना ।
तत्सूत्रं द्विगुणं प्रोक्तं तदेव द्विगुणं भवेत् ॥१६॥

नवसंख्या तु यत्सूत्रं पवित्रं कनकसिद्धिदम् ।
वामाद्या शक्तयस्तत्र नवसूत्राधि देवताः ॥१७॥

लिङ्गोत्सेध समायामं प्रासादे तु पवित्रकम् ।
हस्तमात्रसमायामं पवित्रमिहशोभनम् ॥१८॥

सूत्रैर्विवर्धयेद्विद्वान् नवधा तु पवित्रकम् ।
नवषोडशविंशद्भिरधमत्रयमेव च ॥१९॥

पञ्चविंशच्च द्वात्रिंशत् षट्त्रिंशे मध्यमत्रयम् ।
पञ्चाशत्सप्ततिश्चैव नवतिश्चोत्तमत्रयम् ॥२०॥

एतेषान्तु यथा शक्त्या पवित्रं लक्षणान्वितम् ।
प्रशान्तायेति मन्त्रेण ग्रन्धयित्वा पवित्रकम् ॥२१॥

तस्य मध्ये दशग्रन्धिं बध्वासूत्रेति देशिकः ।
नवसप्ताष्टसूत्रैर्वा ग्रन्धिं कृत्वा विचक्षणः ॥२२॥

इन्द्रादिलोकपालाश्च ग्रन्धीनामधि देवताः ।
आत्मार्थेप्येवमाख्यातं सूत्रसंग्रहणं क्रमे ॥२३॥

सकलानान्तु बिंबानां तदुत्सेधं प्रकीर्तितम् ।
रात्राधिवासने प्रोक्तं पवित्राणि विशेषतः ॥२४॥

निर्दिष्टदिवसे सुद्ध पवित्राण्यधिदेवताः ।
प्राङ्मुखे मण्डपे रम्ये वितानाद्युपशोभितम् ॥२५॥

मण्डले वर्तयेत् तस्या मध्ये पूर्वोक्तमार्गतः ।
पूजाविद्ध्युक्तमार्गेण तस्मिन्न्यस्यात् सदाशिवम् ॥२६॥

हविर्निवेदनं कृत्वा फलभक्ष्यान्यनेकधा ।
तस्याग्रे तु पवित्राणि तद्रात्रौ चाधिवासयेत् ॥२७॥

पवित्राणां तथाग्रे तु कुण्डे वा स्थण्डिलेऽथवा ।
शिवाग्निं पूर्ववत् कृत्वा समिदाज्यां न संयुतम् ॥२८॥

तत्पवित्रविशुद्ध्यर्द्धं तद्रात्रौ चाधिवासयेत् ।
शालितण्डुलपुष्पाद्यै स्थण्डिलञ्चतुरश्रकम् ॥२९॥

संस्तिर्योपरिवस्त्रेण गन्धपुष्पादिभिः सह ।
वस्त्रोपरि पवित्राणि संस्थाप्याभ्यर्च्य बुद्धिमान् ॥३०॥

वस्त्रौराच्छाद्य शिरसा धूपयेद्धृदयेन तु ।
भस्मदक्षिनतः शुद्धं मृच्चूर्णं पश्चिमे दिशि ॥३१॥

सोमे संस्थाप्यतोयन्तु दन्तकाष्ठानि पूर्वके ।
एतानि गन्धपुष्पाद्यैरर्चयेद्धृदयेन तु ॥३२॥

उत्तराच्छाद्नं कृत्वा दर्भैरुपरिदेशिकः ।
तत्र संपूज्य देवेशं गन्धपुष्पस्रगादिभिः ॥३३॥

गन्धैराच्छाद्यविधिवत् पुष्पैराच्छाद्ययत्नतः ।
दर्भैराच्छाद्य पश्चात् तु सुत्रैरावेष्ट्य बुद्धिमान् ॥३४॥

शिवमारोपयेद् रात्रौ पवित्रं पिण्डिकान्वितम् ।
धूपदीपसमायुक्तं संपूज्य हृदयेन तु ॥३५॥

हुत्वातेऽग्निं समाराध्य पवित्रं लिङ्गवर्ततः ।
प्रभूतञ्चैव नैवेद्यं पञ्चवर्णे विशेषतः ॥३६॥

शिवाग्नौ मूलमन्त्रेण शतं हुत्वा विचक्षणः ।
द्रव्यांस्तु हृदये नैव होतव्यं व्याहृतिं ततः ॥३७॥

नृत्तगेय समायुक्तं रात्रौ निद्रां विवर्जयेत् ।
प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः ॥३८॥

पर्यूषितानि पुष्पाणि पवित्राणि विसर्जयेत् ।
पूजनं पूर्ववत् कृत्वा स्नपनान्ते विशेषतः ॥३९॥

मृच्चूर्णलेपनं पूर्वं भस्मनालेपनं ततः ।
दन्तकाष्ठैश्च दन्तानि धावयेद् देशिकोत्तमः ॥४०॥

पूर्णकुंभोदकैः स्नानं कृत्वा गन्धादिभिः पुनः ।
वस्त्रैराभरणैश्चैव मूलमन्त्रेण देशिकः ॥४१॥

संपूज्य देवदेवेशं नृत्तगेय समन्वितम् ।
सदाशिवमनुस्मृत्य मूलमन्त्रं समुच्चरेत् ॥४२॥

पवित्रारोहणं कृत्वा देवेशं पिण्डिकान्वितम् ।
मण्डलस्थं शिवं यष्ट्वा गन्धाद्यैरनुपूर्वशः ॥४३॥

सहस्राक्षरमन्त्रेण हुत्वातेऽग्निं समर्प्य वै ।
पवित्रं वह्निमारोप्य परिषेषमथाचरेत् ॥४४॥

पञ्चवरणदेवानां पवित्रं हृदयेन तु ।
अन्येषाञ्चैव देवानां दापयेत् तु पवित्रकम् ॥४५॥

कर्तुश्च देशिकस्यैव तयोः पत्न्याश्च देशिकः ।
शिष्याणां परिचाराणां दत्वा वै तत्पवित्रकम् ॥४६॥

गन्धपुष्पैस्तु संपूज्य धूपदीपैर्विशेषतः ।
प्रभूतहविषं पश्चात् पायसादीनि दापयेत् ॥४७॥

होमन्तथैव कर्तव्यमाद्यन्तं मुनिभोजनम् ।
जनानां सर्वदानानि दत्वा तत्र यथार्हकम् ॥४८॥

वस्त्रैराभरणाश्चाद्यैराचार्यं पूजयेत् ततः ।
यतीनां शुद्धशैवानामन्यान्महेश्वरानपि ॥४९॥

विशेषभोजनं दानं कृत्वा तत्र स्वशक्तितः ।
संश्राव्यसमवान् पश्चाद् देवदेवस्य चाग्रतः ॥५०॥

एतानि वृतदानानि संपूर्णानि प्रसीदतः ।
एवं विज्ञापयेद्देवं समाप्तिर्नयनं तथा ॥५१॥

पाशजालानि संश्चिद्यमोक्षं तद्दातुमर्हसि ।
प्रणम्यदण्डवत् भूमौ नमस्कृत्वा विशेषतः ॥५२॥

तस्मादारभ्य चाब्दान्तं षट्चतुर्मासमेव च ।
तन्मासं तद्दिनं वापि नियमेन नयोद्धृतः ॥५३॥

नियमेष्वर्चयेद् धिमान् लिङ्गोक्तमवदारयेत् ।
ततस्त्यक्त्वा तु निर्माल्यं स्नात्वा पूजां समाचरेत् ॥५४॥

रोपयेत् तत्पवित्रन्तु माविभग्नं दिनेदिने ।
नियमावृतसूत्रन्तु तदासूत्रावरोहणम् ॥५५॥

अरोहिणिपवित्राणि पुष्पाणि च विसर्जयेत् ।
पूर्ववत् पूजनं कृत्वा प्रभूतहविषं ततः ॥५६॥

यागोप योगद्रव्याणि ह्याचार्याय प्रदापयेत् ।
पवित्रारोहंअं प्रोक्तं हिरण्यगर्भकन्तुलाम् ॥५७॥

इति पवित्रारोहणविधि पटलः सप्तमः ॥७॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP