चर्यापदः - हिरण्यगर्भतुलाभरविधिपटलः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अथातः संप्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् ।
दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ ॥१॥
ग्रहणे विषुवेकाले अयने तु प्रशस्यते ।
पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके ॥२॥
पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् ।
ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् ॥३॥
स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् ।
पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् ॥४॥
तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः ।
दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् ॥५॥
प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा ।
पश्चिमे चोत्तरेवापि अन्तराले मनोरमे ॥६॥
चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् ।
दशद्वादशहस्तं वा षोडशस्तंभसंयुतम् ॥७॥
चतुस्तोरणसंयुक्तं सर्वालंकारसंयुतम् ।
दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् ॥८॥
तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् ।
उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् ॥९॥
अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह ।
अथवा चतुरश्राणि वृत्तानि विदिशासु वै ॥१०॥
चक्रशंकरयोर्मध्ये वृतकुण्डं प्रकल्पयेत् ।
अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु ॥११॥
स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा ।
तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् ॥१२॥
गन्धपुष्पैः समभ्यर्च्य धूपदीपैर्विशेषतः ।
हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् ॥१३॥
ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् ।
तथोभागे न्यसेन्मंत्री बीजमुख्येन मन्त्रतः ॥१४॥
प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः ।
जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् ॥१५॥
भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः ।
शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः ॥१६॥
सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः ।
प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः ॥१७॥
शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः ।
ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः ॥१८॥
सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलंकृतः ।
शिवोहमिति संभाव्य यावत् स्वस्वाहितावतः ॥१९॥
तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् ।
हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् ॥२०॥
भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु ।
प्रणिपत्य गुरुं तत्र संपूज्य च विशेषतः ॥२१॥
होत्रान् संपूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः ।
सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् ॥२२॥
दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः ।
शैवमार्ग स्थितानां तु ग्रहिणां लिंगिनामपि ॥२३॥
भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् ।
प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः शृणु ॥२४॥
पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु ।
खदिरश्चन्दनञ्चैवस्तालं चंपकविल्वकैः ॥२५॥
अन्यैस्तु सारवृक्षैर्वा कृत्वास्तं भद्वयं ततः ।
तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् ॥२६॥
सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदंगुलम् ।
अग्रयोः सुषिरं कृत्वा बध्वाशृंखलया दृढम् ॥२७॥
समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा ।
किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः ॥२८॥
आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः ।
दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् ॥२९॥
स्तंभं वस्त्रैस्तु संवेष्ट्यः सर्वालंकारसंयुतम् ।
तुलामारोप्य नृपतिः सर्वाभरणभूषितः ॥३०॥
तुलामनुसमायुक्तं हृदयेन विचक्षणः ।
शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः ॥३१॥
शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः ।
अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् ॥३२॥
दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा ।
आदिशैवानुशैवानां दापयेत् तु यथार्हकम् ॥३३॥
वा जपेय सहस्रैस्तु राजसूयशतैरपि ।
अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् ॥३४॥
तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं शृणु ।
इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः ॥८॥
N/A
References : N/A
Last Updated : October 11, 2022
TOP