चर्यापदः - वृताचारविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि संक्षेपाद् वृत्तमुत्तमम् ।
वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः ॥१॥

ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः ।
चतुराश्रममेवं हि सामान्यं विधिचोदितम् ॥२॥

चतुर्णां गोचराणान्तु सममेतच्छिवागमे ।
ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा ॥३॥

शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः ।
मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु ॥४॥

शिखीमुण्डी जटीवापी सकौपीनः समेखलः ।
सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः ॥५॥

त्रिस्नायि च जित क्रोधः सुयमः सत्यभाषणः ।
एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे ॥६॥

वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा ।
हरिद्रमञ्जनञ्चैव तांबूलं लवणं तथा ॥७॥

शिखा वृतेश्वरं यागङ्कृत्वा चार्यपरिग्रहे ।
ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं शृणु ॥८॥

गृहिणी संग्रहं कृत्वा विवाहं विधिना तथा ।
अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् ॥९॥

देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः ।
शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् ॥१०॥

शिखी वा बद्धके शीवा शुक्लयज्ञोपवीतकम् ।
स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् ॥११॥

सुदारान् संग्रहं नित्यं ऋतुकाले विशेषतः ।
चन्दनादीनिमाल्यानि त्वलं कृत्य शुभे ग्रहे ॥१२॥

ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं शृणु ।
अपत्नीकः सपत्नीको द्विविधं शिवभाषणे ॥१३॥

वने संवासिको नित्यं शाकमूलादिभक्षयेत् ।
ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु ॥१४॥

सपत्निकवृतं प्रोक्तमपत्निकवृतं शृणु ।
ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् ॥१५॥

सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा ।
सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् ॥१६॥

कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् ।
वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् ॥१७॥

अपत्निकवृतमिदं यतिनाञ्च वृतं शृणु ।
आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च ॥१८॥

सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः ।
सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् ॥१९॥

समत्वं सुखदुःखेषु सर्वारंभ विवर्जितम् ।
काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समंभवेत् ॥२०॥

स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् ।
य निवृत्तिरियं प्रोक्तं शृणु वै शेषिकां वृतान् ॥२१॥

शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा ।
शिवदेह समुत्भूतं गोचरं तुलमुच्यते ॥२२॥

काश्यपादि ऋषिणान्तु शिवगोचरसंज्ञकम् ।
भारद्वाजमुनिनान्तु ज्योतिर्गोचरसंज्ञकम् ॥२३॥

गौतमादि ऋषिणान्तु नाम सावित्रगोचरः ।
आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः ॥२४॥

तेषां वै शुद्धशैवानां वृत्तिवै शेषिकान् शृणु ।
चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः ॥२५॥

प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् ।
कपोतं हि तृतीयं वै चतुर्थ्ं ग्रन्धिकं स्मृतम् ॥२६॥

ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह ।
शिवगोचरसंज्ञानां वृत्तिभेदाः प्रकीर्तिताः ॥२७॥

धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् ।
अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका ॥२८॥

प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममांकुरं तथा ।
तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे ॥२९॥

चतुर्गोचर संज्ञन्तु प्रोक्तं भेदानि मे शृणु ।
स्वाद्ध्यायङ्कुरु शुश्रूषा संयमः सत्यवाचकम् ॥३०॥

प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् ।
शान्त्यादिकर्मकुशला मारणादि सुपेशका ॥३१॥

रक्षकान्तु महिसर्वां महिपालवृतात् तु वै ।
पततिर्णकणान् भूमौ भक्षयित कपोतवत् ॥३२॥

कपोत जीविताये च कपोतास्तु प्रकीर्तिताः ।
सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि ॥३३॥

त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदा हृताः ।
समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् ॥३४॥

ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः ।
क्षेमारामेसु तीर्थे वा तत्प्त्नि सहजीवनः ॥३५॥

सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै ।
दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः ॥३६॥

पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः ।
वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः ॥३७॥

अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै ।
आशनं गुलिकामात्रं गुलिकान्ते महावृताः ॥३८॥

शरीरदण्डनं कृत्वा वीरासन रतः सदा ।
वृतैश्च दण्डन अस्मात् ते नैव दण्डनं स्मृतम् ॥३९॥

कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् ।
रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् ॥४०॥

स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः ।
चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह ॥४१॥

चरन्ति संसवद्ये च निर्मले कलसं श्रये ।
वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः ॥४२॥

ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? ।
वृता वै शेषिकाः प्रोक्ता गोचराणामिदं वृतम् ॥४३॥

अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् ।
वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः ॥४४॥

चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै ।
पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते ॥४५॥

पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे ।
पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे ॥४६॥

ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा ।
अघोरं दक्षिणे पद्मे सद्यं पश्चिमपंकजे ॥४७॥

सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै ।
तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः ॥४८॥

तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा ।
व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः ॥४९॥

व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् ।
स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः ॥५०॥

प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् ।
व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै ॥५१॥

तदभावे जलेलिङ्गे प्रक्षेपणविधिं शृणु ।
नद्यां वापि तटाके वा तीरे समतले शुभे ॥५२॥

अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः ।
संपूज्य वृतशुद्ध्यन्तु संग्राह्य विधिवत् ततः ॥५३॥

व्योमव्यापि शिवे नैव तल्लिङ्गन्तु जलेक्षिपेत् ।
स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् ॥५४॥

प्रोक्तं वृतेश्वरं यागं समाचारविधिं शृणु ।
प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् ॥५५॥

ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकम् ।
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः ॥५६॥

ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः ।
प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं शृणु ॥५७॥

वाचकः सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् ।
जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते ॥५८॥

ऋषिच्छन्दोवर्ण तत्वदेवतास्तु शृणु क्रमात् ।
काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः ॥५९॥

आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः ।
अनुष्टुप्चत्रिजगती * * * * * * * * ॥६०॥

छन्दांसि सर्वमाख्यातं वर्णान्येव मम शृणु ।
रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् ॥६१॥

पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।
सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः ॥६२॥

प्रणवेन समायुक्तं जपकाले तथा चरेत् ।
तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् ॥६३॥

जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।
मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च ॥६४॥

व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् ।
सहस्रं मानसं तस्मादंगुल्यादि जपं शृणु ॥६५॥

अङ्गुल्या जपसंख्या तु तुल्या एकफलं तथा ।
रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् ॥६६॥

सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् ।
मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते ॥६७॥

पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।
रुद्राक्षस्य ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥६८॥

दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया ।
मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते ॥६९॥

एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् ।
सन्धार्य मृयते यस्तु सयाति परमांगतिम् ॥७०॥

द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते ।
चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् ॥७१॥

षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृताः ।
अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥७२॥

नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् ।
हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना ॥७३॥

सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।
दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् ॥७४॥

प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् ।
रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा ॥७५॥

प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये ।
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ॥७६॥

तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैः सदा ।
जपकालञ्च शेषञ्च वक्ष्यते तु समासतः ॥७७॥

पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके ।
चतुष्कालं त्रिकालं वा तद्देशञ्च शृणुष्व हि ॥७८॥

नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा ।
वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् ॥७९॥

दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः ।
पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते ॥८०॥

पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् ।
लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च ॥८१॥

रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ ।
पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा ॥८२॥

भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् ।
शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः ॥८३॥

पंकमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति ।
पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः ॥८४॥

अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् ।
जपं समासतः प्रोक्तं पवित्रारोहणं शृणु ॥८५॥

इति वृताचारविधि पटलः षष्ठः ॥६॥


References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP