चर्यापदः - षोडशक्रियाविधिपटलः
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अथातः संप्रवक्ष्यामि शैवानां षोडशक्रियाः ।
शिवाध्वरे च ये मर्त्या दीक्षायोग्यतया स्थिताः ॥१॥
तेषान्तु षोडशप्रोक्तं शिवेन परमात्मना ।
ऋतुसङ्गमनञ्चाद्ये गर्भाधानं द्वितीयके ॥२॥
पुंसवनं त्रितीयन्तु सीमन्तं हि चतुर्थकम् ।
पञ्चमञ्जातकर्मञ्च षष्ठञ्चोत्थानमेव च ॥३॥
सप्तमन्नामकरणमन्नप्राशनमष्टकम् ।
नवमे वा सगमनं दशमे पिण्डवर्द्धनम् ॥४॥
समावर्तनकं पश्चाद्विवाहं षोडशो भवेत् ।
एतानि षोडशानी ह पृथग्वक्ष्ये समासतः ॥५॥
प्रथमे ऋतुसंयुक्ते ऋतुसङ्गमनं तथा ।
त्रिरात्रं ऋतुसंयुक्तञ्चतुर्थेह निशुद्ध्यति ॥६॥
आर्तवे पूर्वरात्रौ तु तद्रात्रं प्रतिगृह्य च ।
आर्तवे पररात्रौ तु तद्रात्रं परिवर्जयेत् ॥७॥
प्रथमेहनि चण्डाली द्वितीये ब्रह्मघातकी ।
तृतीये रजकी प्रोक्ता चतुर्थे हनि शुद्ध्यति ॥८॥
त्रिरात्रं मलविद्धा सा स्नानादीनि विवर्जिता ।
एकभुक्ता न खर्वेण वरिसाञ्जलि ना पिबेत् ॥९॥
ग्रहेक्षणदिवा स्वप्नं न शुल्पेनाश्नियात् ततः ।
चतुर्थे दन्तकाष्ठाद्यै स्नात्वा चामलकादिभिः ॥१०॥
शुद्धवस्त्रानुलेपाद्यैस्त्रीशूद्राणां न भाषयेत् ।
स्नातायान्तु दृशापश्येत् तादृशं लभते सुतम् ॥११॥
अपश्येदपरं तस्मात् भरारन्दर्शयेत् तु सा ।
कन्याया प्रथमे चेति सर्वालङ्कारसंयुता ॥१२॥
शास्त्रोपदिष्टकल्याणं कृत्वा तत्व विशेषतः ।
शिवाग्निं पूर्ववत् कृत्वा पूर्वोक्तविधिना यथा ॥१३॥
शिवं मध्ये तु संस्थाप्य संपूज्यपूर्ववत् क्रमात् ।
शिवाङ्गं ब्रह्ममन्त्रैस्तु होममेवं प्रकारयेत् ॥१४॥
ऋतु स्नातान्तरितं कृत्वा तत्र वामे तु संस्थिता ।
सुस्नात्वा चम्य विधिवत् बस्मोद्धूलितविग्रहा ॥१५॥
वह्नेः पश्चिमदिक्भागे पूर्वस्याभिमुख स्थिता ।
आचार्येणार्चितञ्चाग्निं ततो मन्त्रेण हूयते ॥१६॥
परिषेकं ततः कुर्याद् विद्यांगैरभिमंत्रितः ।
सहस्रं वा शताष्टं वा हुत्वा वै ब्रह्मपञ्चकैः ॥१७॥
लक्ष्या तु पटश्रंगे च हविष्यञ्चैव निक्षिपेत् ।
नासिकादक्षिणे पुत्र मपरेदुहितेश्चया ॥१८॥
निर्वीवनं न कर्तव्यं शोषरोषौ च वर्जयेत् ।
पुत्रार्त्थमेव संकल्प्य न भोगाय कदाचन ॥१९॥
आर्तवात् द्वादशान्तं वा षोडशं वा प्रचक्षते ।
प्रधानं त्रिदिनं त्यक्त्वा चतुर्थदिवसागमम् ॥२०॥
युग्मके तु पुमान्विद्धित्वयुग्मेस्त्रीप्रजा तथा ।
शुक्लवृद्ध्या तु पुरुषो रक्तवृद्ध्यास्त्रीप्रजायते ॥२१॥
रक्तशुक्लौ समञ्चेत् तु षण्डन्तत्र प्रजायते ।
पुन्नागमुकुलं यद्वत् तद्वत् गर्भाशयोगतम् ॥२२॥
गर्भाशयगतो बिन्दुर्वायुच्छेद्य द्विधापुनः ।
द्विधागर्भं समादाय शरीरं द्विविधं स्फुटम् ॥२३॥
आयुः कर्म च वित्ताद्या वर्तन्ते चेश्वरेण वै ।
ऋतु सङ्गमनं प्रोक्तं गर्भाधानन्ततः शृणु ॥२४॥
सद्योग्रहीत गर्भाया लक्षणं मन्निबोधतः ।
शरीराटोपसं क्लेश स्थितद्वेषकभर्त्रका ॥२५॥
अत्र चिंखरतायोने स्फुरणेन समन्विता ।
आलक्ष्यगर्भं सवीक्ष्य शुभनक्षत्रसंवृतः ॥२६॥
अग्निं पूर्ववदाराध्य सद्येनाष्टशतं हुनेत् ।
यवञ्चापि पयोदत्वा पयोदधि घृतं समम् ॥२७॥
एतत् तु प्रथितं प्रोक्तं प्रासयेदीशमन्त्रतः ।
तत्पत्नीं सकलीकृत्य पुरुषेणोदरं स्पृशेत् ॥२८॥
गर्भाधानमिदं प्रोक्तं ततः पुंसवनं शृणु ।
द्विमासे प्रथमे गर्भे चतुर्मासेऽथवा पुनः ॥२९॥
शुभनक्षत्रसंयोगे चाग्निमाराद्ध्य पूर्ववत् ।
वामदेवेन साहस्रमथवाष्टशतं हुनेत् ॥३०॥
तत्र पृथक् च सहितो माषधान्यं प्रवेशयेत् ।
याज्ञिकैर्वृक्षमुकुलैः क्षीरयुक्तं विमत्थ्य वै ॥३१॥
तद्द्रव्यं नववस्त्रेण पत्न्यानासापुटे बुधः ।
वामदेवेन मन्त्रेण शिवं स्मृत्वा तु दापयेत् ॥३२॥
शैवान् संभोजयित्वा तु आचार्यं पूजयेत् ततः ।
एवं पुंसवनं प्रोक्तं सीमन्तञ्च ततः शृणु ॥३३॥
चतुर्थे षष्ठमेवाष्टमासे सिमन्तकर्मकम् ।
पूर्वे वा शुभनक्षत्रे वह्निं पूर्ववदाचरेत् ॥३४॥
अघोराष्टशतं हुत्वा व्याहृतिस्तत्र हूयते ।
दर्भोदुंबरमाल्यादि बध्वासीमन्तकर्मणि ॥३५॥
ललाटच्छिरमध्यान्तं समालिख्य समापयेत् ।
विद्यांगेन तु तत्कर्म नववस्त्रन्तु दापयेत् ॥३६॥
संपूज्य हेमस्रग्गन्धैः सीमन्तोन्नयनं ततः ।
पुरस्तादीशमन्त्रेण पूर्ववक्त्रवृतञ्चरेत् ॥३७॥
पुरुषेणोदकं स्पृष्ट्वा जपित्वा शिवमन्त्रतः ।
प्रोक्तं सिमन्तमेवं हि जातकर्मं ततः शृणु ॥३८॥
सूतिकाग्रहमन्वीक्ष्य शुद्धिं कृत्वा पुरातनम् ।
तिलसर्षपचूर्णैस्तु धूपयित्वाग्रहान्तरम् ॥३९॥
सूतिकायात्वथेऽष्टाभिस्तर्जांस्त्रीभिः प्रवेशयेत् ।
ग्रहसारन्तु संपूज्य तदज्ञात्वा ग्रहस्थितिम् ॥४०॥
कुमारोजायमानश्चेत् विरह्यमपरं ततः ।
अस्त्रेणैवशतं हुत्वा सर्वरक्षार्थमेव च ॥४१॥
जाते पुत्रेशिवं ध्यात्वा मुखं वामेन दर्शयेत् ।
नाभिसूत्रमथास्त्रेण छित्वांगानि विशोद्ध्य वै ॥४२॥
पञ्चब्रह्मसमुच्चार्य पुत्रमूर्ध्नि जिघृक्षयेत् ।
तस्यैव दक्षिणे श्रोत्रे जप्त्वा तत्पुरुषं ततः ॥४३॥
मध्वाज्यगुलसम्मिश्रं दत्वाब्रह्मवृतं तथा ।
सुवर्णदर्भयाबध्वा ते नैवाज्य हृदासह ॥४४॥
दत्वा हिरण्यरूपेति दातव्यं साधकोत्तमः ।
मातृहस्ते च दत्वातं सद्येन क्षालयेत् स्तनौ ॥४५॥
प्रशान्तायेति मन्त्रेण दातव्यं दक्षिणं स्तनम् ।
कुम्भमाराध्य तत्रैव अघोरास्त्रेण मन्त्रतः ॥४६॥
पूर्णोदकं शरस्थाने रक्षार्थं स्थापयेत् बुधः ।
होतव्यं दशरात्रौ तु सायं प्रातरतंद्रितः ॥४७॥
एतत् कर्म च भर्तुश्च कर्तव्यं हि दिनेदिने ।
त्रयः पञ्चाहसप्ताहे शयनादीनिशोधयेत् ॥४८॥
जातकर्ममिदं प्रोक्तमुत्थानं शृणु सुवृत ।
दशारात्रे त्वतीते तु कृत्वोत्थापनकर्मकम् ॥४९॥
सर्वद्रव्याणि भाण्डानि वर्जयेत्तानि यत्नतः ।
कं सदार्वायसादीनि मानसाशुद्धिरुच्यते ॥५०॥
संशोध्यकारुणा वस्त्रं भस्मना हेमशुद्धिकम् ।
मृत्गोमयोदकैरेव तत्ग्रहञ्चोपलेपयेत् ॥५१॥
कृत्वा तु मलिनस्नानं दंपत्योः क्षुरकर्मकम् ।
तत स्नानन्तु कर्तव्यं तदा पर्यग्निकं बुधः ॥५२॥
प्रक्षिप्यनवभाण्डानि पञ्चगव्यन्तु प्राशयेत् ।
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा जनान् क्रमात् ॥५३॥
कुशोदकं शरावे तु शिवमन्त्रगणैः सह ।
शिवभूतञ्च तत्तोयं दंपत्योः प्राशयेत् क्रमात् ॥५४॥
उत्थापनमिदं प्रोक्तं नामनिर्देशनं शृणु ।
एकादश्यां वा द्वादश्यां नामनिर्देशनं क्रमात् ॥५५॥
शिवाग्निं विधिवत् कृत्वा पुत्रं संस्पृश्यमन्त्रवित् ।
पुत्रस्य देवतोद्दिश्य नामकर्म च कारयेत् ॥५६॥
प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् ।
त्रितीयं शंकरं प्रोक्तञ्चतुर्थं वृषभध्वजम् ॥५७॥
पञ्चमं कृत्तिवासस्तु षष्ठं वै कामनाशनम् ।
सप्तमं देवदेवेशं श्रीकण्ठञ्चाष्टमं स्मृतम् ॥५८॥
नवमं ईश्वरं प्रोक्तं दशमं पार्वती प्रियम् ।
रुद्रमेकादशञ्चैव द्वादशस्तु शिवस्तथा ॥५९॥
तानिद्वादशनामानि कृत्तिकादिषु बुद्धिमान् ।
शिवान्तं मुक्तिनामानि वाचयेदग्नि सन्निधौ ॥६०॥
दूर्वांकुराक्षतैर्मिश्रैः पाणौ वा दक्षिणोत्तरम् ।
पादादिमूर्ध्निपर्यन्तं शिवांगेन निदापयेत् ॥६१॥
शिवमन्त्रं समुच्चार्य कन्यायाः शक्तिनामतः ।
अंबिका पार्वतीगौरी भवानी च सुरार्चिता ॥६२॥
दाक्षायणीहैमवती महादेवी हरि प्रिया ।
उमाशिवकरी चेति गिरिजाद्वादशैव तु ॥६३॥
शक्तेर्नाम इति ख्याता कृत्तिकादिषु योजयेत् ।
आचार्यपूजनं कृत्वा शैवांस्तान्परिपूजयेत् ॥६४॥
नामनिर्देशनं प्रोक्तं ततोन्नप्रासनं शृणु ।
षाण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् ॥६५॥
नोच्छिष्ट स्पर्शनं बालं सुमुहूर्ते शुभेदिने ।
पक्वान्नं पयसाज्येन वह्निमाराध्यपूर्ववत् ॥६६॥
बीजमन्त्रेणमतिमान् कांसपात्रे तु संस्थितम् ।
भोजयेत् पायसे नैव जनान् सर्वान्विशेषतः ॥६७॥
होमान्नं कारयेद्धिमानन्न प्राशनकर्मणि ।
अन्नप्राशनमेवं हि प्रवासगमनं शृणु ॥६८॥
तद्दिने सुमुहूर्ते तु सङ्ग्रहे तु मनोरमे ।
अग्न्याधानन्ततः कृत्वा सद्येनाष्टशतं हुनेत् ॥६९॥
पितापुत्रमलंकृत्य शिवघोषं विशेषतः ।
पिता तत्पुरुषेणैव तत्पुत्रं मूर्ध्नि जिघ्रति ॥७०॥
शिवमन्त्रं ततो जप्त्वा गत्वादेवालयं शनैः ।
वृषगायत्रि मन्त्रेण वृषगर्भं प्रणम्य च ॥७१॥
देवदेवं नमस्कृत्वा पुत्रेणसहबान्धवैः ।
गुहालयं ततो गत्वा प्रणम्यगुहमव्ययम् ॥७२॥
शनैः शनैर्ग्रहं नित्वा रक्षां कृत्वा तु भस्मना ।
पिण्डवर्धनकं वक्ष्ये अग्न्याधानन्तु पूर्ववत् ॥७३॥
विधिवत् ब्रह्मशिरसा हुत्वा चाष्टशतं पुनः ।
दक्षिणांगुष्ठमारभ्य ईशानं तदनुक्रमात् ॥७४॥
जपित्वा कारयेद्विद्वान्येवं वापि दशाक्षरम् ।
मधुराक्षारसद्रव्यैः शैवान् संभोज्ययत्नतः ॥७५॥
पिण्डवर्धनमेवं हि क्षुरकर्म ततः शृणु ।
त्रिवर्षे शुभनक्षत्रे सुतिथौ चोतरायणे ॥७६॥
तद्दिनात् पूर्वदिवसे कृत्वानां दीमुखं पुनः ।
चौलोपनयने चैव समावर्तनके तथा ॥७७॥
पाणिग्रहणके तेषां पूर्वे नान्दीमुखं स्मृतम् ।
वितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥७८॥
पितॄन् पितामहांश्चैव तथा वै प्रपितामहान् ।
एतैर्नामभि संकल्प्य शिवभावादनु क्रमैः ॥७९॥
एवं नान्दीमुखं कृत्वा यथा शक्त्या तु दक्षिणाम् ।
अस्त्रमन्त्रेण संप्रोक्ष्य बध्वा प्रतिसरन्निशि ॥८०॥
प्रभाते चौलकार्यार्थं स्थण्डिलं तत्र वित्तमः ।
शिवाग्निं विधिवद्धुत्वा रुद्राण्यष्टशताहुतिः ॥८१॥
अग्नेः पूर्वे तु तद्बालं न्यस्त्वा गव्यादिनार्चयेत् ।
हरहरे तु घोषैस्तु ततोमङ्गलवाचकैः ॥८२॥
दूर्वाक्षताद्यैस्तोत्रैस्तु कृत्वा घृतशिरोर्पणम् ।
क्षुरश्चास्त्रेण संस्पृश्य पितापुत्रञ्च वापयेत् ॥८३॥
ईशाद्यजानुकै ब्रह्मैः शिवपूर्वादितस्तथा ।
पात्रस्थं गोशक्रं मध्ये तत्तत्केशान्वि निक्षिपेत् ॥८४॥
शिरोमध्ये शिखांविद्धि पञ्चविंशति भागतः ।
समवृत्तां शिखां कृत्वा शेषान्त्यक्त्वोर्ध्वनापितः ॥८५॥
प्रवासगमने चैव पिण्डवर्द्धनकेऽपि च ।
चौलकर्मणि कल्याणे श्रद्धावित्तान्वितेऽपि च ॥८६॥
होमं विनाकूमारीणां ततो मन्त्रेणचाचरेत् ।
स्नानं तत्र प्रकर्तव्यं मुक्त्वा प्रतिसरं तथा ॥८७॥
वस्त्राद्यैः समलं कृत्य हारिद्रगन्धपुष्पकैः ।
अग्नेः पूर्वं सुखासीनमक्षताद्यैः समर्चयेत् ॥८८॥
हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं बुधः ।
पूर्णाहुतिं ततः कृत्वा पूर्वोक्ते नैव मंत्रतः ॥८९॥
आचार्यं पूजयेत् पश्चात् सवत्साङ्गान्तु दापयेत् ।
गोशकृत् सास्त्रकेशांश्च संग्राह्यं धान्यसंयुतम् ॥९०॥
गवामभिमुखं कृत्वा निक्षिपेत् पंकमध्यमे ।
दर्भोदुंबरमूले वा कृत्वा चम्यविशेत् पुनः ॥९१॥
चौलकार्यमिदं प्रोक्तमौपनाय नकं शृणु ।
जातसंवत्सरादूर्ध्वे पञ्चषट्सप्तवत्सरा ॥९२॥
अष्टमे वा नवाब्दे वा क्रमात् ज्ञानं स्वरूपकम् ।
ब्रह्मवर्चसमायुष्यं श्रीप्रदञ्च विशेषतः ॥९३॥
अथवा षोडशाब्दान्तमौपनायनमाचरेत् ।
षोडशाब्दादतीते तु उद्दालान्ते समाचरेत् ॥९४॥
द्विमासंयावकं भुक्त्वा मासंक्षीरन्तु दापयेत् ।
आमीक्षिकायाः समार्धं भक्षयेत् दिनेदिने ॥९५॥
पक्वं पयसिदध्योङ्गया तु सामीक्षिका स्मृता ।
कृष्णायां कपिलायां वा अष्टरात्रं क्षितौशयेत् ॥९६॥
शयाच्च्रितन्तु षड्रात्रं त्रिरात्रमुदकं तथा ।
उपवासमहोरात्रमतीते द्वापरे युगे ॥९७॥
एकवृत्तञ्च कर्तव्यमुद्दालकमनुक्रमम् ।
स्नानं वाचाश्वमेधान्ते वाक्यैस्तौ मे विनायक ॥९८॥
गर्भाधानमिदं कर्मपूर्ववत्कारयेत् क्रमात् ।
वृतान्तेथ प्रकर्तव्यं वसन्ते चोत्तरायणे ॥९९॥
शुभनक्षत्रसहिते सुमुहूर्ते विशेषतः ।
अङ्कुरार्पणकं त्वेह सप्ताहे पञ्चमेऽपि वा ॥१००॥
उपवीताजिनं मौञ्जी दण्डन्तत्रैव साधयेत् ।
उपवीतविधिं वक्ष्ये चोष्णीषञ्चोत्तरीयकम् ॥१०१॥
शुभनक्षत्रयोगे च तान्या पाद्ययत्नतः ।
ब्राह्मणीराजपुत्री वा वैश्यकन्याथवा पुनः ॥१०२॥
तिसृभिर्निर्मितं सूत्रं अथवा शूद्रकन्यया ।
अन्यस्त्रीनिर्मितं सूत्रं वर्जितव्यं प्रयत्नतः ॥१०३॥
अथवातन्तु कार्येषु संग्राह्यं साधकोत्तमः ।
सूत्रसंग्रहणे काले शोधयेत्तोयभस्मना ॥१०४॥
प्राज्ञः प्रारभ्यपूर्वाह्णे सद्यमन्त्रेण तन्तुकम् ।
चतुरङ्गुलमात्रेण षण्णवती च सूत्रकम् ॥१०५॥
ते नैव त्रिगुणं यत्तत्सूत्रं दिग्धमिहोच्यते ।
पूर्वपश्चिमतः स्थित्वा दक्षिणोत्तरमेव हि ॥१०६॥
हस्तदक्षिणमूर्ध्वे तु पृष्टा वै प्रथमं तथा ।
पश्चाद्वामिकञ्चोर्ध्वे त्रिगुणान्ते विशेषतः ॥१०७॥
भूमावन्यत्र वा क्षिप्य पूर्वाग्रे चोत्तराग्रकम् ।
पत्रं पुष्पं तृणं दत्वा कृतलोलवशं कृतम् ॥१०८॥
संप्रोक्ष्य वामदेवेन रज्जुं गृह्णीतसाधनम् ।
ग्रीवायाहस्तयोस्तिर्यक् चांगुष्ठात् बाहुचान्तकम् ॥१०९॥
तत्समञ्चैकसूत्रन्तु त्रिगुणञ्चोपवीतकम् ।
रज्जुं तत्ग्रन्धिके तस्मिन् वाग्देवी सुप्रतिष्ठिता ॥११०॥
सावित्री चैव गायत्री वसेतामग्रमूलयोः ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिसूत्राणान्तु देवता ॥१११॥
अघोरास्त्रेण तत्बध्वा बहुरूपेण धारयेत् ।
नाभिप्रदक्षिणं कार्यं नाभेरूर्ध्वं विधानतः ॥११२॥
तत्सूत्रं ब्रह्मचारीणां ग्रहस्थानां षडेव हि ।
नवकं वान प्रस्थानां यतीनां द्वादशं स्मृतम् ॥११३॥
उपवीतविधिः प्रोक्तमुत्तरीयमथ शृणु ।
वाससा त्रिविशुक्लेन कर्तव्यञ्चोपपीतवत् ॥११४॥
उत्तरीयमिदं प्रोक्तमुष्णीषं त्विहवक्ष्यते ।
हत्वाथस्ताच्छिरोन्तं यत् कर्णौ संच्छाद्ययत्नतः ॥११५॥
शिरोवेष्टनकं नाममृदुना शुक्लवाससा ।
उष्णीषलक्षणं प्रोक्तं कृष्णाजिनमथ शृणु ॥११६॥
चर्मकृष्णाजिन मृगस्यैव नान्योपयोगतः ।
कामं त्वरोगसंयुक्तं स्वतोथमरणन्ध्रुवम् ॥११७॥
त्रियंगुलं समं वापि तथैवांगुलविस्तृतम् ।
उपवीतसमायाममिति कृष्णाजिनं स्मृतम् ॥११८॥
सद्यमन्त्रं समुच्चार्य बध्वातच्चर्मरज्जुना ।
कार्पासरज्जुना वापि मेखलं शृणुतत्वतः ॥११९॥
शुद्धदेशे स्थितं मौञ्जीं गृहीत्वा शोषणं ततः ।
सूच्यग्रेणैव तांभित्वा त्रिवृद्रज्जु त्रिरावृतम् ॥१२०॥
समासान्मेखला प्रोक्ता दण्डस्य लक्षणं शृणु ।
पलाशबिल्वखदिरं शमीवै कंकतं तथा ॥१२१॥
तस्यमूर्ध्नासमदीर्घं सितबाहुसमन्तु वा ।
चर्मयुक्तमृजु स्निग्धं * * * * * * * * ॥१२२॥
पूर्वे नान्दीमुखं कृत्वा तदन्ते चोपनायनम् ।
शिवाग्निं पूर्ववत् कृत्वा चौलवद्वापयेत् ततः ॥१२३॥
अधोमुखगतान् केशान् त्यक्त्वा तत्र शिखाभ्रुवौ ।
स्नानं तत्रैव कर्तव्यं सर्वाभरणभूषितम् ॥१२४॥
भोजयित्वा चरूंविद्वान् कायशुद्ध्यर्थमेव च ।
उपवीतादि चिह्नानि चोत्तरे स्थापयेत् क्रमात् ॥१२५॥
शुचीवोभव्यमन्त्रातः संप्रोक्ष्य देशिकोत्तमः ।
ततः शिष्यं समाहूय वह्नेर्दक्षिणत स्मृतम् ॥१२६॥
संप्रोक्ष्य पञ्चब्रह्मैस्तु शुचीवोहव्यमंत्रितः ।
उत्तराभिमुखं शिष्यं समभ्यर्च्याक्षतादिभिः ॥१२७॥
प्रारभेय प्रधानञ्च परिषेचन पूर्वकम् ।
ब्रंह्मांगैस्तपसं देव्या प्रत्येकं पञ्चकाहुतिः ॥१२८॥
परिषेचनन्तु कर्तव्यं शिवे गन्धादिनार्चयेत् ।
बध्वा वै तां नवं रज्जुमियन्द्रक्तेति मेखलाम् ॥१२९॥
शाटिं कौपीनवत् कृत्वा शेषं पृष्ठे वलंबितम् ।
स्वयमुच्चार्य तन्मन्त्रं उपवीतन्तु दापयेत् ॥१३०॥
कृष्णाजिनं तु सन्धार्य बहुरूपेण बुद्धिमान् ।
उत्तरीयन्तु दातव्यं प्रशान्तायेति मन्त्रतः ॥१३१॥
तस्योष्णीषं विनातन्त्रं तदान्याश्रमिणां तु तत् ।
दण्डं दत्वास्त्रमन्त्रेण पवित्रं तदनामिके ॥१३२॥
अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा विशेषतः ।
पादौ प्रक्षाल्य विधिवत् द्विराचम्य विशेषतः ॥१३३॥
ब्रह्मकूर्चं पिबेद्गव्यं शिवमन्त्रेणमन्त्रवित् ।
पञ्चगव्यं कुशोपेतं ब्रह्मकूर्चमिति स्मृतम् ॥१३४॥
पुनराचम्य विधिना सावित्री वृतबन्धनम् ।
प्रदक्षिणं हि मूर्धानं पञ्चब्रह्मैस्तु हूयते ॥१३५॥
सावित्री काण्डर्षयेति हुत्वेदं वृतबन्धनम् ।
सावित्रीञ्चैव गायत्रीं जपित्वाष्टा परं ततः ॥१३६॥
कृत्वा प्रदक्षिणञ्चाग्निं नमस्कृत्वा यथा विधि ।
क्र्त्वा तत्परिषेचन्तु शिवास्त्रेण शताहुतिः ॥१३७॥
समत्भिन्नभित्वा वै शतेन त्वभिमंत्रितैः ।
परिषेचन्तु कर्तव्यं गायत्रीं व्याहृतिं ततः ॥१३८॥
ब्रह्मांगैर्जुहुयात् सम्य्क् प्रत्येकं सप्तसप्त च ।
देवदेवं नमस्कृत्वा गुरुपूर्वं यथार्हतः ॥१३९॥
आचार्यं पूजयेत् तस्मात् यथा वित्तानुसारतः ।
भिक्षापात्रं सुवर्णाद्यैर्दातव्यं पुरुषेण तु ॥१४०॥
दण्डं तद्वामहस्ते तु भिक्षापात्रं तु दक्षिणे ।
भवति भिक्षां देहीति वाच उक्त्वा पृथक् पृथक् ॥१४१॥
आत्मार्थं तण्डुलं ग्राह्यं प्रतिग्रहे ग्रहे तु च ।
यात्राकाले तु दण्डेन पश्वादीनि च ताडयेत् ॥१४२॥
सुस्नात्वा विधिना चम्य त्रिषुकालेषु नित्यशः ।
पूर्वमुक्तेन मन्त्रेण विधिनित्यं विधानवित् ॥१४३॥
शैवशास्त्रानुसारेण गुरुपारंपरेण तु ।
संयमेन यनो भूत्वा पूततोयं पिबेत्सुधीः ॥१४४॥
सिवसूर्याय दत्वार्घ्यं कुशपुष्पाक्षतान्वितम् ।
ततो गायत्रिमन्त्रन्तु त्रिसन्ध्यान्तु पृथक् पृथक् ॥१४५॥
अष्टोत्तरशतञ्चैव शिवं ध्यायं जपेत्बुधः ।
दिनेदिने प्रकूर्वीत सर्वपापविशोधनम् ॥१४६॥
विधिनाचाग्निमन्त्रज्ञः सायं प्रातः सुपूजयेत् ।
कृत्वा वै मन्त्रभावेन व्याहृत्यादि घृतेन च ॥१४७॥
पूर्वोक्तेनैव मन्त्रेण समित्भिश्चैव हूयते ।
एवं दिनत्रयेषूक्तञ्चतुर्थे दण्डमोचनम् ॥१४८॥
पूर्वोक्तविधिवद्धुत्वा सद्येनाष्टशताहुतिः ।
प्रातर्विसर्जनं कृत्वा पूर्वोक्तेन तु मन्त्रतः ॥१४९॥
पर्यूषितोपवीता नित्यक्त्वा दक्षिणतोबुधः ।
नवयज्ञोपवीताद्यैः पूर्ववत् परिकल्पयेत् ॥१५०॥
परिषिच्याथविधिवद् व्योमव्यापिदशाहुतिः ।
शिवायशिवमन्त्रेण स्वाहेत्यष्टशतं हुनेत् ॥१५१॥
एवं घृताहुतिं हुत्वा शिवोपकरणं स्मृतम् ।
ब्रह्मचर्यं ततः काले अर्थयेत् साधकोत्तमः ॥१५२॥
ब्रह्मचारी द्विधा तत्र शान्तयः शिवशासने ।
भौतिको नैष्ठिकश्चैव प्रोक्तौतौ ब्रह्मचारिणौ ॥१५३॥
ग्रहस्थस्याश्रमं प्राप्तं भौतिकस्य विधीयते ।
ब्रह्मचर्य वृतिर्यावं नैष्ठिकस्य विशेषतः ॥१५४॥
ताभ्यामेकं विनिश्चित्य घृताहुतिशतं पुनः ।
पूर्णाहुतिं ततो हुत्वा तदहं प्रत्यहं यजेत् ॥१५५॥
नद्यां वापि तटाकेवा उपवीतादिकान्त्यजेत् ।
स्नात्वा चम्य यथान्यायं देवदेवं प्रणम्य च ॥१५६॥
पूजाविधिं ततो ज्ञात्वा संपूज्यपरमेश्वरम् ।
वह्निस्थं देवदेवेशं विधिना पूजयेत् ततः ॥१५७॥
गुरुं प्रणम्यविधिवत् तस्माद्वै गुरुपूजकः ।
तत्रर्ग्वेदमयं सद्यं वामदेवं यजुर्मयम् ॥१५८॥
सामवेदमघोरञ्च वक्त्रञ्चाधर्वणं स्मृतम् ।
सर्वदेवमयेशानमंगयुक्तं शिवं तथा ॥१५९॥
साक्षात् शिवमयं प्रोक्तं कामिकाद्यागमं त्विह ।
इमान्यध्ययनान्येव तदेवाद्ध्ययनं स्मृतम् ॥१६०॥
अध्यापनानितानिह तस्याद्ध्यापनमेव हि ।
शिवायाराधना तस्य यजनं याजनं तथा ॥१६१॥
शिवमुद्दिश्ययद्द्रव्यं दत्तं तद्दानमेव च ।
प्रतिग्रहं ततो वाथ तस्य षट्कर्ममुच्यते ॥१६२॥
शिवसद्भावयुक्तस्य शुद्धशैवस्यधीमतः ।
संस्कारप्रमुखाञ्चैव नान्यसूत्रं समाचरेत् ॥१६३॥
आचरेदन्य होमेन सर्वकर्मबहिस्कृतः ।
वृतभृष्टस्त्विति ज्ञात्वा पुनर्दीक्षां समाचरेत् ॥१६४॥
काण्डोपकरणं कृत्वा वृतारंभविधिं तथा ।
वृते परिसमाप्ते तु कृत्वा तद्वृतमोक्षणम् ॥१६५॥
समावर्तन पूर्वे तु कृत्वा वै श्वक्रिया वृतम् ।
अग्निं नन्दीमुखं कृत्वा क्रियां रात्रौ तु चारभेत् ॥१६६॥
पूर्वयामस्य चान्ते तु बध्वा प्रतिसरं क्रमात् ।
पुरुषेणैव मन्त्रेण सौवर्णं क्षौममेव च ॥१६७॥
अस्त्रेण प्रोक्षयित्वा तु वस्त्रैरेवाव कुण्ठनम् ।
व्योमव्यापि जपित्वा तु रस्वप्नं न तु वाचकम् ॥१६८॥
प्रभाते चोत्तरं तत्र चैवं वै श्वक्रियावृतम् ।
अग्निं पूर्ववदारभ्य मूले नैव शतं हुनेत् ॥१६९॥
ब्रह्मचारी वृतं मत्वाग्रहस्थाशममाश्रयेत् ।
चौलवद्वपनं कृत्वा शिखाप्रकोष्ठ वर्जितम् ॥१७०॥
तत्र संशोध्यदशनं स्नापयेद्रजनीयुतः ।
ईशानाद्यैः शतं हुत्वा मुक्त्वामौञ्ज्यादिकास्ततः ॥१७१॥
दत्वा तदुपवीतञ्च षट्सूत्रं पूर्वमन्त्रतः ।
कुण्डलाद्यैस्तु संभूष्य हृदयेन तु मन्त्रतः ॥१७२॥
गन्धादीनि ततो दत्वा वामदेवेति मन्त्रतः ।
नयने चाञ्जनं दत्वा दर्पणं दर्शयेत् बुधः ॥१७३॥
मधुपकर्मन्तु दातव्यं वामवेतिमन्त्रतः ।
अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा तु चाग्रतः ॥१७४॥
छत्रोपानहदण्डादि सन्धार्योत्तरदिग्गतः ।
निवृत्यबन्धुभिस्तत्र सुस्थितस्त्वासने तु सः ॥१७५॥
पितृभ्रातृपित्रव्यैस्तु भोक्तव्यं सहबान्धवैः ।
तत्समावर्तनं प्रोक्तं तत्पाणिग्रहणं शृणु ॥१७६॥
सर्वकाले विवाहं स्यात् माघप्रोष्ठविवर्जिते ।
विवाहमष्टधा प्रोक्तं शिवेन परमात्मना ॥१७७॥
ब्राह्मञ्च दैविकञ्चैव प्राजापत्यमथार्षकम् ।
पञ्चमं त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा ॥१७८॥
पैशाचमष्टमं ज्ञेयमुच्यन्ते तानि वै पुनः ।
वयो वृत्तञ्च संपन्नं वृत्तरूपाभिजात्यकम् ॥१७९॥
कन्यां दत्वा समाहूय गोभूमिसहिरण्यकम् ।
तत् ब्राह्ममिति निर्दिष्टं विवाहेषुत्तमं वृतम् ॥१८०॥
यज्ञेषु ऋत्विजस्यैव कन्यादानन्तु दैविकम् ।
विप्रस्यैव सुशीलस्य विवाहापेक्षि तस्य च ॥१८१॥
होमकर्मस्वयं कृत्वा वस्त्राभरणकन्यकाम् ।
बुद्धिपूर्वं तु यद्दत्तं प्राजापत्यमिति स्मृतम् ॥१८२॥
सुरूपां कन्यकांश्चैव दत्वागोमिधुनद्वयम् ।
अथगोमिथुनैकं वा विवाहमार्षकं स्मृतम् ॥१८३॥
आरोप्याहरणं कन्यां याच्यमाने मुहुर्मुहुः ।
धनं दत्वा तु यः कन्या संग्रहणं तु यत्तदा ॥१८४॥
आसुरन्तु सविज्ञेयमविद्वत्भिरनुष्ठितम् ।
उभयोरपि संवादे स्त्रीपुंसौ यदिरागतः ॥१८५॥
दानन्तस्यैव तां कन्यां गान्धर्वमिति पठ्यते ।
कृत्वा युद्धं महाघोरं वधबन्धनताडकैः ॥१८६॥
अपहृत्य बलात् कन्यां रुदन्तीं रक्षसामिदम् ।
कन्यांसुप्तां प्रमत्ताञ्च चौर्यापात हृतन्तु वा ॥१८७॥
पैशाचमिति विख्यातं प्राक्पञ्चोदकपूर्वकम् ।
तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः ॥१८८॥
कर्तव्यमासुरं वापि त्रीणिचान्न्यानि वर्जयेत् ।
सुशीलां रूपसंपन्नां कुलजांबानवान्विताम् ॥१८९॥
असगोत्रां हि कुशलां वधूं संग्राह्यबुद्धिमान् ।
गन्धादिभिरलं कृत्य वस्त्रहेमन्तु दापयेत् ॥१९०॥
तयोर्गात्रञ्च नाम्नी च पूर्वमुच्चार्यबुद्धिमान् ।
दत्वोदकन्तु तद्धस्ते पिताभ्राता तु मातुलः ॥१९१॥
दानमेतदिदं प्रोक्तं विसंवादे तु पूर्ववत् ।
स्थण्डिलेऽग्निं समाराद्ध्य ग्रहीतां वै तदग्रहे ॥१९२॥
पुनस्तोयन्तु दातव्यं भर्तुर्वाथपि तुर्ष्वपि ।
एवं पुनर्जलं दानं विवाहं शृणु सुवृत ॥१९३॥
अग्नेः पश्चिमभागे तु आसनं संप्रकल्प्य वै ।
पतिपत्न्योः समाहूय सर्वालंकारसंयुतौ ॥१९४॥
शिवात्मकेति मन्त्रेण वस्त्रं पुष्पन्तु दापयेत् ।
दक्षिणे तु पतिञ्चैव वामे पत्निन्निधाय वै ॥१९५॥
परिषेचनं ततः कृत्वा ब्रह्मांगैरेव हूयते ।
मम हृदयेत्युच्चार्य पत्यातद्धृदयं स्पृशेत् ॥१९६॥
आत्मानं शिववद् ध्यात्वा पत्निं शक्तिस्वरूपवत् ।
शतं हुत्वा तु मूलेन स्वाहान्तं प्रणवादिकम् ॥१९७॥
मधुपर्कन्तु संप्राश्य प्रागुक्तविधिनाचरेत् ।
वृतं गायत्रिमन्त्रेण दर्शयित्वा धनं तथा ॥१९८॥
पुनराचम्य विधिवद् व्याहृत्या तु शताहुतिः ।
अग्नेर्ददिक्षिण पार्श्वे तु प्राणाग्निं संयजेत् क्रमात् ॥१९९॥
गोर्द्धेनुहव्यमन्त्रेण गोवत्सं तत्र दर्शयेत् ।
स्वाहान्तं शिवमन्त्रेण शताष्टकहुतं पुनः ॥२००॥
अग्नेश्च वामपार्श्वे तु गत्वा सप्तपदं ततः ।
संस्थाप्य पश्चिमे श्मानमक्षतादिभिरर्चयेत् ॥२०१॥
पत्न्यास्तु दक्षिणं पादं पतिहस्तेनचोद्धृतम् ।
शिवगायत्रि मन्त्रेण पादमश्मनि विन्यसेत् ॥२०२॥
क्रमात् सप्तपदं गत्वा वाममन्त्रेण बुद्धिमान् ।
भर्तुर्दक्षिणहस्तेन तस्याहस्तन्तु संग्रहेत् ॥२०३॥
उमामहेशमन्त्रेण हुत्वा लाजाञ्जलित्रयम् ।
देवदेवं नमस्कृत्वा विज्ञाप्यांग विभूषणम् ॥२०४॥
व्योमव्यापिनि मन्त्रेण ग्रहस्थानि च हूयते ।
आद्यन्तं व्याहृतिं हुत्वा प्रायश्चित्ताय सर्वतः ॥२०५॥
औपासनाग्निकं हुत्वा ब्रह्माङ्गैर्दिवसं प्रति ।
हस्तं प्राग्वच्च संग्राह्य गच्छतान्तु शुभे ग्रहे ॥२०६॥
सर्वालङ्कारसंयुक्ते मुक्तादामविभूषिते ।
सद्येन शोधनङ्कृत्वा कतैराप्तोपधानकैः ॥२०७॥
उपलं शक्तिवत् स्मृत्वा दंपत्योर्मध्यमे क्षिपेत् ।
रात्रौदिनाधिपं कृत्वा पूर्वं सोमाधिदैवतम् ॥२०८॥
गान्धर्वञ्च द्वितीये तु त्रितीयेचाग्निदैवतम् ।
तत्तन्मन्त्रन्तु मतिमाञ्जपेत् त्रिंशं नमोन्तकम् ॥२०९॥
तयोः स्वप्ने तु रात्रौ तु स्पर्शनं ननुवाचकम् ।
सुस्नात्वा चम्यविधिवदौपासनं दिनेदिने ॥२१०॥
चतुर्थे हनिपूर्वाह्ने तैलेनाभ्यञ्जनं तथा ।
सहैव स्नापयित्वा तु रात्रौवह्निं प्रकल्प्य वै ॥२११॥
ब्रह्माङ्गैर्जुहुयात् तत्र दर्शयित्वा त्वरून्धतीम् ।
अरुन्धतीति मन्त्रेण तां विज्ञाप्य प्रणम्य वै ॥२१२॥
अश्मानं पूर्ववत् कृत्वा ततस्त्वायतनं तु वा ।
हृदाचोत्थाप्यशयनं संप्रोक्ष्यशिवमन्त्रतः ॥२१३॥
खट्गञ्चैव कटंवाथ संविकीर्योपधानकम् ।
शयनं पूर्ववत् कृत्वा तस्मिन् संपादयेत् ततः ॥२१४॥
आत्मानं शिववद्ध्यात्वा तत्पत्निं शक्तिवत्बुधः ।
ऋतुसङ्गमनात् कृत्वा सर्वं वामेन मन्त्रतः ॥२१५॥
सहैवार्त गृहङ्गत्वा गणानाञ्च बलिं पुनः ।
अभ्यागतातिथिञ्चैव पूजयेत् तु दिनेदिने ॥२१६॥
शुद्धशैवोद्भवानान्तु प्रोक्तं वै षोडशक्रिया ।
तेषां वृतं समाचारं शृणुतत्वं विनायक ॥२१७॥
इति षोडशक्रियाविधिपटलः पञ्चमः ॥५॥
N/A
References : N/A
Last Updated : October 11, 2022
TOP