संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः २१ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः २१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ५५-कोटि प्रकारेण रागरागिणी शिक्षा Translation - भाषांतर रागगणानां वाक्ये अपमानबोधितेन नारदेन सरस्वती-आराधना, साक्षात्कारः स्तवं तथा तत्कर्तृक-ताल-मान-स्वरेभ्यः सह ५५-कोटि प्रकारेण रागरागिणी शिक्षा -श्रीराधोवाच -धन्योऽयं मुनिशार्दूलस्त्वद्भक्ते प्रेमवान्महान् ।त्वत्सारूप्यं जगामासौ त्वमप्यश्रुमुखो यतः ॥१॥अस्य देहक्रियां कर्तुं योग्योऽसि वृजिनार्दन ।तपसा चास्य देहोऽयं प्रस्फुरत्यमलाकृतिः ॥२॥श्रीनारद उवाच -वदंत्यां तत्र राधायां तद्देहोऽप्यभवत्सरित् ।वहंती पापहंत्री च दृश्यते रोहिते गिरौ ॥३॥तद्देहस्यापि सरितं वीक्ष्य राधाऽतिविस्मिता ।नन्दराजात्मजं प्राह वृषभानुवरात्मजा ॥४॥श्रीराधोवाच -कथं जलत्वमापन्नो देहोऽयं वै महामुनेः ।एतन्मे संशयं देव छेत्तुमर्हस्यशेषतः ॥५॥श्रीभगवानुवाच -प्रेमलक्षणया भक्त्या संयुतोऽयं मुनीश्वरः ।तस्मादस्य तु देहोऽयं रम्भोरु द्रवतां गतः ॥६॥दृष्ट्वा त्वया मां वरदं हर्षितोऽभून्महामुनिः ।जलत्वं प्राप तद्देहो यथाऽहं द्रवतां पुरा ॥७॥श्रीराधोवाच -द्रवतां त्वं कथं प्राप्तो देवदेव दयानिधे ।एतत् चित्रं हि मे जातं सर्वं त्वं वद विस्तरात् ॥८॥श्रीभगवानुवाच -अत्रैवोदाहरन्तीमितिहासं पुरातनम् ।यस्य श्रवणमात्रेण पापहानिः परं भवेत् ॥९॥यन्नाभिपंकजाज्जातः पुरा ब्रह्मा प्रजापतिः ।असृजत्प्रकृतिं शश्वत्तपसा मद्वरोर्जितः ॥१०॥उत्संगान्नारदो जज्ञे ब्रह्मणः सृजतः शुभः ।भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम् ॥११॥एकदा नारदं प्राह देवो ब्रह्मा प्रजापतिः ।प्रजाः सृज महाबुद्धे वृथा चंक्रमणं त्यज ॥१२॥नारदस्तद्वचः श्रुत्वा प्राहेदं ज्ञानतत्परः ।न सृजामि पितः सृष्टिं शोकमोहादिकारिणीम् ॥१३॥करिष्यामि हरेर्भक्तिं तत्कीर्तनसमन्विताम् ।त्वमपि सृष्टिरचनां त्यज दुःखातुरो भृशम् ॥१४॥क्रुद्धः शशाप तं ब्रह्मा प्राह प्रस्फुरिताधरः ।सदा गानपरः कल्पं गन्धर्वो भव दुर्मते ॥१५॥एवं तच्छापतो राधे गन्धर्व उपबर्हणः ।बभूव गन्धर्वपतिः कल्पमात्रं सुरालये ॥१६॥एकदा ब्रह्मणो लोके स्त्रीभिः परिवृतो गतः ।सुन्दरीषु मनः कृत्वा जगौ तालविवर्जितम् ॥१७॥पुनर्ब्रह्मा तं शशाप त्वं शूद्रो भव दुर्मते ।अथासौ ब्रह्मशापेन दासीपुत्रो बभूव ह ॥१८॥सत्संगेन पुरा राधे प्राप्तोऽभूद्ब्रह्मपुत्रताम् ।भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम् ॥१९॥मुनीन्द्रो वैष्णवश्रेष्ठो मत्प्रियो ज्ञानभास्करः ।परं भागवतः साक्षान्नारदो मन्मनाः सदा ॥२०॥एकदा नारदो लोकान् पश्यन् वै गानतत्परः ।इलावृतं नाम खंडं गतवान्सर्वतो गतिः ॥२१॥यत्र जंबूनदी श्यामा जंबूफलरसोद्भवा ।तथा जांबूनदं नाम सुवर्णं भवति प्रिये ॥२२॥तद्देशे वेदनगरं रत्नप्रासादनिर्मितम् ।ददर्श नारदो योगी दिव्यनारीनरैर्वृतम् ॥२३॥कांश्चिद्वै पादरहितान् विगुल्फाञ्जानुवर्जितान् ।विजंघाञ्जघनव्यंगान् कृशोरुन्कुब्जमध्यकान् ॥२४॥श्लथद्दन्तोन्नतस्कंधान् नताननविकंधरान् ।स्त्रीजनान्पुरुषांश्चासावङ्गभङ्गान्ददर्श ह ॥२५॥अहो किमेतच्चित्रं हि सर्वान्दृष्ट्वाऽवदन्मुनिः ।सर्वे यूयं पद्ममुखा दिव्यदेहाः शुभाम्बराः ॥२६॥किं देवा उपदेवा वा यूयं किं ऋषिसत्तमाः ।वादित्रसहिताः सर्वे रम्यगानपरायणाः ॥२७॥अंगभंगाः कथं यूयं वदताशु ममैव हि ।इत्युक्तास्तेन ते सर्वे प्रत्यूचुर्दीनमानसाः ॥२८॥रागा ऊचुः -महादुःखं मुने जातं अस्माकं तनुषु स्वतः ।तस्याग्रे कथनीयं वै दूरीकर्त्तुं च यः क्षमः ॥२९॥रागा वयं वेदपुरे वसामः सर्वदा मुने ।अंगभंगा वयं जाताः कारणं शृणु मानद ॥३०॥जातो हिरण्यगर्भस्य पुत्रो नारदनामभाक् ।प्रेमोन्मत्तो विकालेन गायन् ध्रुवपदानि च ॥३१॥विचचार महीमेतां स्वेच्छया स महामुनिः ।विकाले तस्य गानैश्च विस्वरैस्तालवर्जितैः ।विगानैश्च वयं सर्वे अंगभंगा बभूविम ॥३२॥इति श्रुत्वाऽथ तद्वाक्यं नारदो विस्मितोऽभवत् ।उवाच गतमानोऽसौ रागान् परिहससन्निव ॥३३॥मुनिरुवाच -तस्य केन प्रकारेण ज्ञानं वै कालतालयोः ।भवेदिह स्वरैर्युक्तं वदताशु ममैव हि ॥३४॥रागा ऊचुः -वैकुंठस्य पतेः साक्षात् प्रिया मुख्या सरस्वती ।कुर्याच्छिक्षां यदा तस्मै तदा स्यात्कालविन्मुनिः ॥३५॥तेषां वाक्यं ततः श्रुत्वा नारदो दीनवत्सलः ।सरस्वत्याः प्रसादार्थं त्वरं शुभ्रं गिरिं ययौ ॥३६॥दिव्यवर्षशतं शश्वत्तपस्तेपे सुदुष्करम् ।निरन्नं निर्जलं वाणीध्यानयुक्तं व्रजेश्वरि ॥३७॥शुभ्रं नाम विसृज्याथ पवित्रीकृतभूधरम् ।नारदो नाम शैलोऽभूत्तपसा नारदस्य च ॥३८॥तपोऽन्ते आगतां साक्षाद्वाग्देवीं श्रीसरस्वतीम् ।विष्णोः प्रियां दिव्यवर्णामपश्यन्नारदो मुनिः ॥३९॥सहसोत्थाय तां नत्वा परिक्रम्य नताननः ।तद्रूपगुणमाधुर्यस्तुतिं चक्रे मुनीश्वरः ॥४०॥श्रीनारद उवाच -नवार्कबिंबद्युतिमुद्गलज्ज्वल-त्ताटंककेयूरकिरीटकंकणाम् ।स्फुरत्क्वणन्नुपुररावरञ्जितांनमामि कोटींदुमुखीं सरस्वतीम् ॥४१॥वंदे सदाऽहं कलहंस उद्गतेचलत्पदे चंचलचंचुसंपुटे ।निर्धौतमुक्ताफलहारसंचयंसंधारयंतीं सुभगां सरस्वतीम् ॥४२॥वराभयं पुस्तकवल्लकीयुतंपरं दधानां विमले करद्वये ।नमाम्यहं त्वां शुभदां सरस्वतींजगन्मयीं ब्रह्ममयीं मनोहराम् ॥४३॥तरंगितक्षौमसितांबरे परेदेहि स्वरज्ञानमतीव मंगले ।येनाद्वितीयो हि भवेयमक्षरेसर्वोपरि स्यां पररागमंडले ॥४४॥श्रीभगवानुवाच -स्तोत्रं जाड्यापहं दिव्यं प्रातरुत्थाय यः पठेत् ।नारदोक्तं सरस्वत्याः स विद्यावान् भवेदिह ॥४५॥ततः प्रसन्ना वाग्देवी नारदाय महात्मने ।देवदत्तां ददौ वीणां स्वरब्रह्मविभूषिताम् ॥४६॥रागैश्च रागिणीभिश्च तत्पुत्रैश्च तथैव च ।देशकालादिभेदैश्च तालमानस्वरैः सह ॥४७॥षट्पंचाशत्कोटिभेदैरन्तर्भेदैरसंख्यकैः ।ग्रामैर्नृत्यैः सवादित्रैर्मूर्च्छनासहितैः शुभैः ॥४८॥वैकुंठस्य पतेः साक्षात्प्रिया मुख्या सरस्वती ।स्वरगम्यैः पदैः सिद्धैः पाठयामास नारदम् ॥४९॥अद्वितीयं रागकरं कृत्वा तं रासमंडले ।वैकुंठं प्रययौ राधे वाग्देवी विष्णुवल्लभा ॥५०॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे नारदोपाख्यानं नामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP