संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०३ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता वृन्दावने अक्रूरागमनम् Translation - भाषांतर श्रीनारद उवाच -अक्रूरो रथमारुह्य कर्तुं कार्यं नृपस्य वै ।प्रहर्षितो मैथिलेन्द्र प्रययौ नंदगोकुलम् ॥१॥परां भक्तिं ह्युपगतः श्रीकृष्णे पुरुषोत्तमे ।एवं विचारयन्बुद्ध्या पथि गच्छन्महामतिः ॥२॥अक्रूर उवाच -किं भारते वा सुकृतं कृतं मयानिष्कारणं दानमलं क्रतूत्तमम् ।तीर्थाटनं वा द्विजसेवनं शुभंयेनाद्य द्रक्ष्यामि हरिं परेश्वरम् ॥३॥तपः सुतप्तं किमलं पुरा कृतंसत्सेवनं भक्तियुतं मया कृतम् ।येनैव मे दर्शनमद्य दुर्लभंश्रीकृष्णदेवस्य पुरो भविष्यति ॥४॥तेषां भवो वै सफलो महीतलेयन्नेत्रगामी भगवान्सुरेश्वरः ।कृत्वाऽथ तद्दर्शनमद्य दुर्लभंसद्यः कृतार्थो भविताऽस्मि सर्वतः ॥५॥श्रीनारद उवाच -इत्थं संचितयन्कृष्णं पश्यन्शकुनमुत्तमम् ।संध्यायां गोकुलं प्राप्तो रथस्थो गांदिनीसुतः ॥६॥कृष्णपादाब्जचिह्नानि यवाङ्कुशयुतानि च ।तद्रागयुक्परागाणि रजांसि स ददर्श कौ ॥७॥तद्दर्शन्नौत्सुक्यभक्तिभावानन्दसमाकुलः ।रथात्समुत्पत्य तेषु लुठंश्चाश्रु मुमोच सः ॥८॥येषां श्रीकृष्णदेवस्य भक्तिः स्याद्धृदि मैथिल ।तेषामाब्रह्मणः सर्वं तृणवज्जगतः सुखम् ॥९॥रथारुढस्ततोऽक्रूरः क्षणान्नन्दपुरं गतः ।घोषेषु सबलं कृष्णमागच्छंतं ददर्श ह ॥१०॥देवौ पुराणौ पुरुषौ परेशौपद्मेक्षणौ श्यामलगौरवर्णौ ।यथेन्द्रनीलध्वजवज्रशैलौसमाश्रितौ तौ पथि रामकृष्णौ ॥११॥बालार्कमौली वसनं तडिद्युतीवर्षाशरन्मेघरुचं दधानौ ।दृष्ट्वा स तूर्णं स्वरथाद्गतोऽधोतयोर्नतो भक्तियुतः पपात ॥१२॥तदाननं बाष्पकलाकुलेक्षणंरोमांचितं वीक्ष्य हरिः परेश्वरः ।दोर्भ्यां समुत्थाप्य घृणातुरोऽश्रुमुमोच भक्तं परिरभ्य माधवः ॥१३॥एवं मिलित्वा सबलश्च तं हरिःसद्यः समानीय वरासनं ददौ ।निवेद्य गां चातिथये सुभोजनंरसावृतं प्रेमयुतो ह्युपाहरत् ॥१४॥तमाह नंदः परिरभ्य दोर्भ्या-महो कथं जीवसि कंसराज्ये ।गतत्रपो यो निजघान बालान्स्वसुः कथं सोऽन्यजनेषु मोही ॥१५॥गृहं गते नंदवरे हरिस्तंप्रपच्छ सर्वं कुशलं स्वपित्रोः ।तथा यदूनां किल बांधवानांकंसस्य सर्वां विपरीतबुद्धिम् ॥१६॥अक्रूर उवाच -परश्वोऽहनि हे देव हंतुं शौरिं समुद्यतः ।खड्गपाणिर्भोजराजो नारदेन निवारितः ॥१७॥दुःखिता बांधवाः सर्वे यादवा भयविह्वलाः ।सकुटुंबाः कंसभयाद्भूमन्देशांतरं गताः ॥१८॥अद्यैव यादवान्हंतुं देवाञ्जेतुं समुद्यतः ।अन्यत्किमपि कौ कर्तुमिच्छते दैत्यराड्बली ॥१९॥तस्माद्भवद्भ्यां गंतव्यं कुशलं कर्तुमव्ययम् ।भवंतौ हि विना कार्यं किंचिन्न स्यात्सतां प्रभू ॥२०॥श्रीनारद उवाच -अथ तस्य वचः श्रुत्वा सबलो भगवान् हरिः ।नन्दराजमतेनाह गोपान् कार्यकरानिदम् ॥२१॥श्रीभगवानुवाच -नंदराजोऽपि सबलो वृद्धैर्गोपगणैरहम् ।नन्दा नवोपनन्दाश्च तथा षड् वृषभानवः ॥२२॥मथुरां तु गमिष्यन्ति सर्वे प्रातः समुत्थिताः ।सर्वे तु गोरसं तस्माद्दधिदुग्धघृतादिकम् ॥२३॥गृहीत्वैकत्र कर्तव्यं सोपायनमतः परम् ।रथांश्च शकटैः सार्द्धं समर्थान्कुरुताशु वै ॥२४॥श्रीनारद उवाच -इति श्रुत्वा कार्यकरा गोपाः सर्वे गृहे गृहे ।श्रृण्वंतीनां गोपिकानामूचुः सर्वं यथोदितम् ॥२५॥तच्छ्रुत्वोद्विग्नहृदया गोप्यो विरहविह्वलाः ।परस्परं वाक्यमूचुः सर्वास्ता हि गृहे गृहे ॥२६॥प्रस्थानस्य च वार्तेयं श्रीकृष्णस्य महात्मनः ।वृषभानुवरस्यापि गृहे प्राप्ता नृपेश्वर ॥२७॥गमिष्यतो भर्तुरतीव दुःखिताःश्रुत्वाऽथ वार्तां सदसि ह्यकस्मात् ।संप्राप मूर्च्छां वृषभानुनन्दिनीरंभेव भूमौ पतिता मरुद्धता ॥२८॥काश्चित्परिम्लानमुखश्रियोऽभवन्प्रकंकणीभूत कराङ्गुलीयकाः ।सद्यः श्लथद्भूषणकेशबंधनाःचित्रार्पितारंभ इवावतस्थिरे ॥२९॥श्रीकृष्ण गोविंद हरे मुरारेकाश्चिद्वदन्त्यः स्वगृहेऽतिविह्वलाः ।विसृज्य कर्माणि गृहस्य सर्वतोयोगीव चानन्दगता नृपेश्वर ॥३०॥काश्चित्समर्थास्तु परस्परं वचःसमेत्य राजन् युगपत्सखीजनम् ।उचुः स्खलद्गद्गदकंठवाचःस्वतः स्रवद्बाष्पकलावहदृशः ॥३१॥गोप्य उचुः -अहोऽतिनिर्भोहिजनस्य चित्रंपरं चरित्रं गदितुं न योग्यम् ।मुखेन चान्यं हृदि भाव्यमन्य-द्देवो न जानाति कुतो मनुष्यः ॥३२॥रासेऽपि यद्यद्गदितं तु तत्त-द्विहाय गंतुं समवस्थितोऽयम् ।गते पुरीं प्राणपतावहोऽस्मिन्किं किं न कष्टं बत नोऽभविष्यत् ॥३३॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे अक्रूरागमनं नाम तृतीयोऽध्यायः ॥३ ॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP