मथुराखण्डः - अध्यायः १२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


बहुलाश्व उवाच -
चाणूराद्याश्च ये मल्लास्ते के पूर्वमिहागताः ।
अहो श्रीकृष्णचन्द्रेण येषां युद्धं बभूव ह ॥१॥
श्रीनारद उवाच -
राजन् पुराऽमरावत्यामुतथ्योऽस्ति महामुनिः ।
तस्याभवन् पंच पुत्राः कामदेवसमप्रभाः ॥२॥
हित्वा विद्यां चाध्ययनं जपं तेन सहैव ते ।
गत्वा बलेर्मल्लयुद्धं सदाऽशिक्षन् मदोद्धताः ॥३॥
ब्रह्मकर्मपरिभ्रष्टान्वेदाध्ययनवर्जितान् ।
रुषा प्राह स तान्मत्तानुतथ्यो मुनिसत्तमः ॥४॥
उतथ्य उवाच -
शमो दमस्तपः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥५॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दाननीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥६॥
कृषिगोरक्ष्यवाणिज्यं वैश्यकर्मस्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥७॥
ब्रह्मकर्म परित्यक्ता भवंतो ब्रह्मणः सुताः ।
मल्लयुद्धं क्षात्रयुद्धं कथं कुरुत दुर्जनाः ॥८॥
तस्माद्‌भवंतो श्रूयासुर्मल्ला वै भारताजिरे ।
असुराणां प्रसंगेन दुर्जना भवताशु हि ॥९॥
श्रीनारद उवाच -
उतथ्यस्य सुतास्ते वै जाता मल्ला महीतले ।
श्रीकृष्णांगस्पर्शमात्रात्परं मोक्षं ययुर्नृप ॥१०॥
चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।
एषां चरित्रं कथितं किं भूयः श्रोतुमिच्छसि ॥११॥
बहुलाश्व उवाच -
कंसानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः ।
ते के पूर्वं वद मुने येऽपि मोक्षं परं गताः ॥१२॥
श्रीनारद उवाच -
अलकायां पुरा यक्षो देवयक्ष इति स्मृतः ।
ज्ञानी ज्ञानपरो मान्यः शिवभक्त्या महाद्युतिः ॥१३॥
तस्य चाष्टौ सुता जाता देवकूटो महागिरिः ।
गंडो दण्डः प्रचण्डश्च खंडदण्डः पृथुस्तथा ॥१४॥
एकदा शिवपूजायां देवयक्षेण नोदिताः ।
सहस्रं पुंडरीकाणि चाहर्तुमरुणोदये ॥१५॥
पुष्पाणि मानसान्नीत्वा शब्दितानि मधुव्रतैः ।
आघ्राय गंधलोभेन ददुस्ते जनकाय वै ॥१६॥
उच्छिष्टीकृतदोषेण शिवपूजा तिरस्कृता ।
आसुरीं योनिमापन्ना मूढास्ते जन्मभिस्त्रिभिः ॥१७॥
हस्ताभ्यां शंकराभ्यां च बलदेवस्य मैथिल ।
परं मोक्षं गतास्ते वै दोषान्मुक्ता विदेहराट् ॥१८॥
कंसानुजानां व्याख्यानं पूर्वजन्मभवं नृप ।
इदं मया ते कथितं किं भूयः श्रोतुमिच्छसि ॥१९॥
श्रीबहुलाश्व उवाच -
कोयं पुरा पंचजनो दैत्यः शंखवपुर्धरः ।
तस्य शङ्खो बभौ ब्रह्मन् श्रीकृष्णकरपङ्कजे ॥२०॥
श्रीनारद उवाच -
पुरैवैतान्युपांगानि चक्रादीनि विदेहराट् ।
त्रैलोक्यनाथस्य हरेर्बभूवुस्तेजसा हताः ॥२१॥
तेषां शंखः पांचजन्यः प्राप्तो राजन्महत्पदम् ।
पपौ तन्मुखलग्नोऽसौ श्रीकृष्णस्याधरामृतम् ॥२२॥
अकरोच्चैकदा मानं मनसि प्राह शंखराट् ।
गृहीतोऽहं हि हरिणा राजहंससमद्युतिः ॥२३॥
श्रीकृष्णो दक्षिणावर्तं दघ्मौ मां विजये सति ।
यद्‍दुर्लभं चाब्धिपुत्र्याः श्रीकृष्णस्याधरामृतम् ॥२४॥
तत्तस्मात्सर्वमुख्योऽस्मि पिबाम्यहमहर्निशम् ।
इति मानयुतं शंखं पांचजन्यं विदेहराट् ॥२५॥
शशाप लक्ष्मीस्तं क्रोधात्त्वं दैत्यो भव दुर्मते ।
सोऽयं पंचजनो नाम दैत्योऽभूत्सरितां पतौ ॥२६॥
वैरभावेन देवेशं पुनः प्राप्तो दरेश्वरः ।
ज्योतिर्लीनं तु देवेशे वपुर्यस्य करे वभौ ।
अहोभाग्यं विद्धि तस्य किं भूयः श्रोतुमिच्छसि ॥२७॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे चाणूरादिकंसभ्रातृपंचजनपूर्वाख्यानं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP