द्वितीयः भागः - प्रकरणम् ५
भावप्रकाशसंहिता
अथ पञ्चमं पञ्चकर्मविधिप्रकरणम् ॥५॥
प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम्
एतानि पञ्चकर्माणि निरूहो नावनं तथा ॥१॥
शरत्काले वसन्ते च प्रावृट्काले च देहिनाम्
वमनं रेचनं चैव कारयेत्कुशलो भिषक् ॥२॥
बलवन्तं कफव्याप्तं हृल्लासादिनिपीडितम्
तथा वमनसात्म्यञ्च धीरचित्तञ्च वामयेत् ॥३॥
विषदोषे स्तन्यरोगे मन्देऽग्नौ श्लीपदेऽबुदे
हृद्रो गे कुष्ठवीसर्पमेहाजीर्णभ्रमेषु च ॥४॥
विदारिकाऽपचीकासश्वासपीनसवृद्धिषु
अपस्मारे ज्वरोन्मादे तथा रक्तातिसारिषु ॥५॥
नासाताल्वोष्ठपाकेषु कर्णस्रावेऽधिजिह्वके
गलशुण्ड्यामतीसारे पित्तश्लेष्मगदे तथा
मेदोगदेऽरुचौ चैव वमनं कारयेद्भिषक् ॥६॥
न वामनीयस्तिमिरी न गुल्मी नोदरी कृशः
नातिवृद्धो गर्भिणी च न स्थूलो न क्षतातुरः ॥७॥
मदार्त्तो बालको रूक्षः क्षुधितश्च निरूहितः
उदावत्तर्यूर्ध्वरक्ती च दुश्छर्द्यः केवलानिली ॥८॥
पाण्डुरोगी कृमिव्याप्तः पवनात्स्वरघातवान् ॥९॥
एतेऽप्यजीर्णव्यथिता वाम्या ये विषपीडिताः
कफव्याप्ताश्च ते वाम्या मधुकक्वाथपानतः ॥१०॥
सुकुमारं कृशं बालं वृद्धं भीरुञ्च वामयेत्
पाययित्वा यवागूं वा क्षीरतक्रदधीनि च ॥११॥
असात्म्यैः श्लेष्मलैर्भोज्यैर्दोषानुत्क्लेश्य देहिनाम्
स्निग्धस्विन्नाय वमनं दत्तं सम्यक्प्रवर्त्तते ॥१२॥
वमनेषु च सर्वेषु सैन्धवं मधु वा हितम्
वीभत्सं वमनं दद्याद्विपरीतं विरेचनम् ॥१३॥
क्वाथद्र व्यस्य कुडवं श्रपयित्वा जलाढके
अर्द्धभागावशिष्टञ्च वमनेष्ववचारयेत् ॥१४॥
क्वाथपाने नवप्रस्था ज्येष्ठा मात्रा प्रकीर्त्तिता
मध्यमा षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी ॥१५॥
वमने च विरेके च तथा शोणितमोक्षणे
अर्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥१६॥
कल्कचूर्णावलेहानां त्रिपलं मात्रयोत्तमम्
मध्यमं द्विपलं विद्यात्कनीयस्तु पलं भवेत् ॥१७॥
वमने चाष्टवेगाःस्युः पित्तान्ता उत्तमास्तु ते
षड् वेगा मध्यमा वेगाश्चत्वारस्त्वपरे मताः ॥१८॥
कफं कटुकतीक्ष्णोष्णैः पित्तं स्वादुहिमैर्जयेत्
सुस्वादुलवणाम्लोष्णैः संसृष्टं वायुना कफम् ॥१९॥
कृष्णां राठफलं सिन्धुं कफे कोष्णजलैः पिबेत्
पटोलवासानिम्बांश्च पित्ते शीतजलैः पिबेत् ॥२०॥
सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत्
अजीर्णे कोष्णपानीयं सिन्धुं पीत्वा वमेत्सुधीः ॥२१॥
वमनं पाययित्वा तु जानुमात्रासने स्थितम्
कण्ठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् ॥२२॥
प्रसेको हृद्ग्रहः कोठः कण्डूर्दुश्छर्दिते भवेत्
अतिवान्ते भवेत्तृष्णा हिक्कोद्गारो विसंज्ञिता ॥२३॥
जिह्वानिःसरणं चाक्ष्णोर्व्यावृत्तिर्हनुसंहतिः
रक्तच्छर्दिः ष्ठीवनञ्च कण्ठपीडा च जायते ॥२४॥
वमनस्यातियोगे तु मृदु कुर्याद्विरेचनम्
वमनेन प्रविष्टायां जिह्वायां कवलग्रहाः
स्निग्धाम्ललवणैर्युक्तैर्घृतक्षीररसैर्हिताः ॥२५॥
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतान्तु तिलद्रा क्षाकल्कलिप्तां प्रवेशयेत् ॥२६॥
व्यावृत्तेऽक्ष्णि घृताभ्यक्तेपीडनञ्च शनेः शनैः
हनुमोक्षे स्मृतः स्वेदो नस्यञ्च श्लेष्मवातहृत् ॥२७॥
रक्तपित्तविधानेन रक्तष्ठीवमुपाचरेत्
धात्रीरसाञ्जनोशीरलाजाचन्दनवारिभिः ॥२८॥
मन्थंकृत्वा पाययेच्च सघृतं क्षौरद्र शर्करम्
शाम्यन्त्यनेन तृष्णाऽद्या रोगाश्छर्दिसमुद्भवाः ॥२९॥
हृत्कण्ठशिरसां शुद्धिर्दीप्ताग्नित्वञ्च लाघवम्
कफपित्तविनाशश्च सम्यग्वान्तस्य लक्षणम् ॥३०॥
ततोऽपराह्णे दीप्ताग्निं मुद्गषष्टिकशालिभिः
हृद्यैश्च जाङ्गलरसैः कृत्वा यूषञ्च भोजयेत् ॥३१॥
तन्द्रा निद्रा ऽस्यदौर्गन्ध्यं कण्डूश्च ग्रहणी विषम्
सुवान्तस्य न पीडायै भवन्त्येते कदाचन ॥३२॥
अजीर्णं शीतपानीयं व्यायामं मैथुनं तथा
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ॥३३॥
स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम्
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः ॥३४॥
मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम्
अथवा पाचनैरामं वलासं परिपाचयेत् ॥३५॥
ऋतौ वसन्ते शरदि देहशुद्धौ विरेचयेत्
अन्यदाऽत्ययिके कार्ये शोधनं शीलयेद् बुधः ॥३६॥
पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
उदरे च तथाऽध्माने कोष्ठशुद्धौ विशेषतः ॥३७॥
दोषाः कादाचित्कुप्यन्ति जिता लङ्घनपाचनैः
शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः ॥३८॥
बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः
श्रान्तस्तृषाऽत्त स्थूलश्च गर्भिणी च नवज्वरी ॥३९॥
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता ॥४०॥
जीर्णज्वरी गरव्याप्तो वातरोगी भगन्दरी
अर्शः पाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः ॥४१॥
योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः
विद्र धिच्छर्दिविस्फोटविसूचीकुष्ठसंयुताः ॥४२॥
कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः ॥४३॥
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ॥४४॥
बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
बहुवातःक्रूरकोष्ठो दुर्विरेच्यः स कथ्यते ॥४५॥
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः ॥४५॥
मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
क्रूरः स्नुक्पयसा हेमक्षीरीदन्तीफलादिभिः ॥४७॥
मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका ॥४८॥
द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
पलार्द्धं च कषायाणां कनीयस्तु विरेचनम् ॥४९॥
कल्कमोदकचूर्णानां कर्षो मध्वाज्यलेहतः
कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया ॥५०॥
पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः ॥५१॥
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबन्नेरः
वातार्दितो विरेकाय जाङ्गलानां रसेन वा ॥५२॥
एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन वा
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ॥५३॥
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्
समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ॥५४॥
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्
द्रा क्षाऽम्बुना सयष्ट्याह्वं शीतलञ्च घनात्यये ॥५५॥
त्रिवृता चित्रकं पाठामजाजीं सरलं वचाम्
हेमक्षीरीं हेमन्ते तु चूर्णमुष्णाम्बुना पिबेत् ॥५६॥
पिप्पलद्यं नागरं सिन्धुं श्यामां त्रिवृतया सह
लिह्यात्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम् ॥५७॥
त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् ॥५८॥
अथाभयादिमोदकः
अभया मरिचं शुण्ठीविडङ्गामलकानि च
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च ॥५९॥
एतानि समभागानि दन्ती तु त्रिगुणा भवेत्
त्रिवृताऽष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा ॥६०॥
मधुना मोदकान्कृत्वा कर्षमात्रान्प्रमाणतः
एकैकं भक्षयेत् प्रातः शीतञ्चानु पिबेज्जलम् ॥६१॥
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा ॥६२॥
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान्
दुर्नामकुष्ठगुल्मार्शोगलगण्डोदरभ्रमान् ॥६३॥
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान्
वातरोगांस्तथाऽध्मानं मूत्रकच्छ्रादि चाश्मरीम् ॥६४॥
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत्
स्नेहाभ्यङ्गञ्च रोषञ्च दिनमेकं सुधीस्त्यजेत् ॥६५॥
सततं शीलनादेव पलितानि प्रणाशयेत्
अभयामोदका ह्येते रसायनवराः स्मृताः ॥६६॥
पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
सुगन्धि किच्चिदाघ्राय ताम्बूलं शीलयेद् बुधः ॥६७॥
निर्वातस्थो न वेगांश्च धारयेन्न शयीत च
शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ॥६८॥
वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
रेकात्तथा मलं पित्तं भेषजञ्च कफो व्रजेत् ॥६९॥
दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक्
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् ॥७०॥
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते
तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धं तु रेचयेत्
तेनास्योपद्र वा यान्ति दीप्ताग्निर्लघुता भवेत् ॥७१॥
विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च
शूलं कफातियोगः स्यान्मांसधावनसन्निभम् ॥७२॥
मेदोनिभं जलाभासं रक्तश्चापि विरिच्यते
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ॥७३॥
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु
सहकारत्वचः कल्को दध्ना सौवीरकेण वा ॥७५॥
पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्वणम्
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषीकृतैः ॥७५॥
अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैस्तुल्यैर्मसूरैर्वापि भोजयेत् ॥७६॥
शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक्
लाघवे मनसस्तुष्टावनुलोमं गतेऽनिले ॥७७॥
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि
इन्द्रि याणां बलं बुद्धे प्रसादो वह्निदीप्तता ॥७८॥
धातुस्थैर्यं वयःस्थैर्यं भवेद्रे चनसेवनात्
प्रवातसेवां शीताम्बुस्नेहाभ्यङ्गमजीर्णताम् ॥७९॥
व्यायामं मैथुनञ्चैव न सेवेत विरेचितः
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम् ॥८०॥
जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ॥८१॥
वस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
यः स्नेहो दीयते स स्यादनुवासन नामकः ॥८२॥
कषायक्षीरतैलैर्यो निरूहः स निगद्यते
वस्तिभिर्दीयते यस्मात्तस्माद्वस्तिरिति स्मृतः ॥८३॥
तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते
अनुवासनभेदश्च मात्रावस्तिरुदीरितः ॥८४॥
पलद्वयं तस्य मात्रा तस्मादर्द्धाऽपि वा भवेत्
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ॥८५॥
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः
शोथमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ॥८६॥
नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥८७॥
एकवर्षात्तु षड्वर्षाद्यावन्मानं षडङ्गुलम्
ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम् ॥८८॥
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता
मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निमम् ॥८९॥
यथा संख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्
गोपुच्छसन्निमं मूले स्थूलं तस्मात् क्रमात् कृशम् ॥९०॥
आतुराङ्गुष्ठमानेन मूले स्थूलं निधीयते
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥९१॥
तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात् ॥९२॥
योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः
मृगाजशूकरगवां महिषस्यापि वा भवेत् ॥९३॥
मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः
कषायरक्तः स मृदुर्वस्तिः स्निग्धो दृढो हितः ॥९४॥
व्रणवस्तेस्तु नेत्रं स्याच्छ्लक्ष्णमष्टाङ्गुलोन्मितम्
मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च ॥९५॥
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः ॥९६॥
दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ॥९७॥
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ॥९८॥
रूक्षभुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत्
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ॥९९॥
हीनमात्रावुभौ वस्ती नातिकार्यकरौ स्मृतौ
अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ ॥१००॥
उत्तमास्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः
पलाध्यर्द्धेन हीनास्यादुक्ताः मात्राऽनुवासने ॥१०१॥
शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च चूर्णकम्
तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्वयमाषकैः ॥१०२॥
विरेचनात्सप्तरात्रे गते जातबलाय च
भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः ॥१०३॥
तथाऽनुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्चा यथाशास्त्रं कृतचङ्क्रमणं ततः
उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना ॥१०४॥
सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः
कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् ॥१०५॥
बद्धं वस्तिमुखं सूत्रैर्वामहस्तेन धारयेत्
पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः ॥१०६॥
जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत्
त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने ॥१०७॥
ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत्
प्रसारितः सर्वगात्रैर्यथावीर्यं प्रसर्पति ॥१०८॥
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया पुनः
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः ॥१०९॥
निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाऽथ वा
गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः ॥११०॥
ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्छनैः शनैः
स्फिजोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः ॥१११॥
स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद् बुधः ॥११२॥
शय्याञ्च पादतस्तस्य त्रीन्वारानुत्क्षिपेत्ततः
जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ॥११३॥
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
उपद्र वं विना शीघ्रं स सम्यगनुवासितः ॥११४॥
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ॥११५॥
अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम् ॥११६॥
अनेनविधिना षड्वा सप्त चाष्टौ नवापि वा
विधेया वस्तयस्तेषामन्ते चैव निरूहणम् ॥११७॥
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ
सम्यग्दत्तो द्वितीयस्तु मूर्द्धस्थमनिलं जयेत् ॥११८॥
बलं वर्णश्च जनयेत्तृतीयस्तु प्रयोजितः
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ॥११९॥
षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम् ॥१२०॥
एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत् ॥१२१॥
अष्टादशाष्टादशकाद्दिनाद्यो ना निषेवते
स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः ॥१२२॥
रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने
दद्याद्वैद्यस्तथाऽन्येषामग्न्याबाधभयात् त्र्! यहात्
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः ॥१२३॥
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते
अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः
तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते ॥१२४॥
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदाऽङ्गसदनध्माने शूलं श्वासश्च जायते ॥१२५॥
पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णोषधैर्युक्तं फलवर्त्तिमथापि वा ॥१२६॥
यथाऽनुलोमनो वायुर्मलः स्नेहश्च जायते
तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते ॥१२७॥
यस्य नोपद्र वं कुर्यात्स्नेहवस्तिरनिःसृतः
सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता ॥१२८॥
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ॥१२९॥
गुडूच्येरण्डपूतीकभार्ङ्गींवृषकरौहिषम्
शतावरीसहचरौ काकनासां पलोन्मिताम् ॥१२९॥
यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च ॥१३१॥
पचेत्तैलाढकं सर्वैर्जीवनीयैः पलोन्मितैः
अनुवासनमेतद्धि सर्ववातविकारनुत् ॥१३२॥
षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
दूषितात् समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् ॥१३३॥
पानाहारविहाराश्च परिहाराश्च कृत्स्नशः
स्नेहपानसमाः कार्य्या नात्र कार्या विचारणा ॥१३४॥
निरूहवस्तिर्बहुधा भिद्यते कारणान्तरः
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः ॥१३५॥
निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः
स्वस्थाने स्थापनाद्दोषधातूनां स्थापनं मतम् ॥१३६॥
निरूहस्य प्रमाणं तु प्रस्थं पादोत्तरं परम्
मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः ॥१३७॥
अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा
आध्मानच्छर्दिहिक्काऽशकासश्वासप्रपीडितः ॥१३८॥
गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः
गर्भिणी मधुमेही च नास्थाप्यश्च जलोदरी ॥१३९॥
वातव्याधावुदावर्ते वातासृग्विषमज्वरे
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च ॥१४०॥
वृद्ध्य्सृग्दरमन्दाग्निप्रमेहेषु निरूह्रणम्
शूलेऽम्लपित्ते हृद्रो गे योजयेद्विधिवद् बुधः ॥१४१॥
उत्सृष्टानिलविण्मूत्रं स्निग्धं स्विन्नमभोजितम्
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ॥१४२॥
स्नेहवस्तिविधानेन बुधः कुर्यान्निरूहणम् ॥१४३॥
जाते निरूहे च ततो भवेदुत्कटकासनः
तिष्ठेन्महूर्त्तमात्रन्तु निरूहागमनेच्छया ॥१४४॥
अनायातं मुहूर्त्तं तु निरूहं शोधनैर्हरेत्
निरूहैरेव मतिमान्क्षारसूत्राम्लसैन्धवैः ॥१४५॥
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः
लाघवं चोपजायेत सुनिरूहं तमादिशेत् ॥१४५॥
यस्य स्याद्वस्तिरत्यल्पवेगो हीनमलानिलः
मूर्च्छाऽत्तिजाड्यारुचिमान्दुर्निरूहं तमादिशेत् ॥१४७॥
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः
आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्षणम् ॥१४८॥
अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित्
द्वितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् ॥१४९॥
सस्नेह एकः पवने पित्ते द्वौ पयसा सह
कषायकटुमूत्राद्याः कफेऽत्युष्णास्त्रयो हिताः ॥१५०॥
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
निरूढं भोजयित्वा च ततस्तमनुवासयेत् ॥१५१॥
सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः
वस्तिस्तीक्ष्णः प्रयुक्तस्तु तेषां हन्याद्बलायुषी ॥१५२॥
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं ततः
पश्चात्संशमनीयञ्च दद्याद्वस्तिं विचक्षणः ॥१५३॥
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः ॥१५४॥
शताह्वा मधुकं बिल्वं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः ॥१५५॥
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः ॥१५६॥
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुतः
ऊषकादिप्रतीवापैर्वस्तयोलेखनाः स्मृताः ॥१५७॥
बृंहणद्र व्यनिक्वाथैः कल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः ॥१५८॥
बदर्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः
क्षीरसिद्धाःक्षौद्र युक्ता नाम्ना पिच्छलसंज्ञिताः ॥१५९॥
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः
मात्रा पिच्छिलवस्तीनां पलैर्द्वादशभिर्मता ॥१६०॥
दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात्स्नेहस्य प्रसृतित्रयम् ॥१६१॥
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
सम्मूर्च्छिते कषायन्तु चतुः प्रसृतिसम्मितम् ॥१६२॥
गृह्णीयाच्च तदा वाऽल्पमन्ते द्विप्रसृतोन्मितम्
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक् ॥१६३॥
एवं प्रकल्पितो वस्तिर्द्वादशप्रसृतिर्भवेत्
वाते चतुष्पलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम् ॥१६४॥
पित्ते चतुष्पलं क्षौद्रं स्नेहं दद्यात्पलत्रयम्
कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुष्पलम् ॥१६५॥
एरण्डक्वाथतुल्यांशं मधुतैलं पलाष्टकम्
शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम्
मधुतैलकसंज्ञोऽय वस्तिर्दारुविलोडितः ॥१६६॥
मेदोगुल्मकृमिप्लीहमलोदावर्तनाशनः
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ॥१६७॥
क्षौद्रा ज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत्
हपुषासैन्धवाक्षांशो वस्तिः स्याद्यापनः परः ॥१६८॥
एरण्डमूलनिक्वाथो मधुतैलं ससैन्धवम्
एष युक्तरथो वस्तिः सवचापिप्पलीफलः ॥१६९॥
पञ्चमूलस्य निक्वाथैस्तैलं मागधिका मधु
ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः ॥१७०॥
स्नानमुष्णोदकैः कुर्याद्दिवास्वप्नमजीर्णताम्
वर्जयेदपरं सर्वमाचरेत्स्नेहवस्तिवत् ॥१७१॥
अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम्
निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः ॥१७२॥
द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम् ॥१७३॥
पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिकी
तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः ॥१७५॥
अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
स्थितस्य जानुमात्रे च पिष्टे स्निग्धे शलाकया ॥१७५॥
स्निग्धया मेढ्रमार्गे तु तत्रो नेत्रं नियोजयेत्
शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्राङ्गुलानि षट् ॥१७६॥
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं विनिर्हरेत्
ततः प्रत्यागते स्नेहे स्नेहवस्तिंक्रमो हितः ॥१७७॥
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशाङ्गुलम्
मुद्गप्रवेशयोग्यञ्च योन्यन्तश्चतुरङ्गुलम् ॥१७८॥
द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत्
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् ॥१७९॥
शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणैः
मालतीपुष्पवृन्ताभं नेत्रमित्युदितं पुनः ॥१८०॥
योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
मूत्रमार्गे पलोन्माना बालानां च द्विकार्षिकी ॥१८१॥
उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषग् वस्तावुत्तरसंज्ञिते ॥१८२॥
भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः
फलवर्त्तिं विदध्याद् वा योनिमार्गे दृढां भिषक् ॥१८३॥
सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम् ॥१८४॥
दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः
क्षीरिवृक्षकषायेण पयसा शीतलेन वा ॥१८५॥
वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः
हन्यादुत्तरवस्तिस्तु नोचितो मेहिने क्वचित् ॥१८६॥
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
वस्तेरुत्तरसंज्ञस्य समानाः स्नेहवस्तिना ॥१८७॥
घृताभ्यक्ते गुदे क्षिप्ता श्लक्ष्णा स्वाङ्गुष्ठसन्निभा
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥१८८॥
नस्यं तत्कथ्यते धीरैर्नासाग्राह्यं यदौषधम्
नावनं नस्यकर्मेति तस्य नामद्वयं मतम् ॥१८९॥
नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा
रेचनं कर्षणं प्रोक्तं स्नेहनं वृंहणं मतम् ॥१९०॥
कफपित्तानिलध्वंसि पूर्वमध्यापराह्णके
दिनस्य गृह्यते नस्यं रात्रावप्युत्कटे गदे ॥१९१॥
नस्यं त्यजेद्भोजनान्ते दुर्दिने चापतर्पितः
तथा नवप्रतिश्यायी गर्भिणी गरदूषितः
अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः ॥१९२॥
क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ
वेगावरोधी श्रान्तश्च स्नातुकामश्च वर्जयेत् ॥१९३॥
अष्टवर्षस्य बालस्य नस्यकर्म समाचरेत्
अशीतिवर्षादूर्ध्वञ्च नावनं नैव दीयते ॥१९४॥
अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः
तीक्ष्णैः भेषजसिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ॥१९५॥
नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च बिन्दवः
प्रत्येकं रेचनं योग्यं मुख्यमध्याल्पमात्रया ॥१९६॥
नस्यकर्मणि दातव्यं शाणैकं तीक्ष्णमौषधम्
हिङ्गु स्याद्यवमात्रन्तु माषैकं सैन्धवं मतम् ॥१९७॥
क्षीरं चैवाष्टशाणं स्यात्पानीयञ्च त्रिकार्षिकम्
कार्षिकं मधुरद्र व्यं नस्यकर्मणि योजयेत् ॥१९८॥
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ
शिरोविरेचनस्याथ तौ तु देयौ यथायथम् ॥१९९॥
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः
सोऽवपीडः समुद्दिष्टस्तीक्ष्णद्र व्यसमुद्भवः ॥२००॥
षडङ्गुला द्विवक्त्रा या नाडी चूर्णं तथा धमेत्
तीक्ष्णं कोलमितं वक्त्रवातैः प्रधमनं हितम् ॥२०१॥
ऊर्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये
अरोचके प्रतिश्याये शिरःशूले च पीनसे ॥२०२॥
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम्
भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते ॥२०३॥
गलरोगे सन्निपाते निद्रा यां विषमज्वरे
मनोविकारे कृमिषु पूज्यते चावपीडनम् ॥२०४॥
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते
चूर्णं प्रधमनं धीरैस्तद्धि तीक्ष्णतरं यतः ॥२०५॥
नस्यं स्याद् गुडशुण्ठीभ्यां पिप्पलीसैन्धवेन वा
जलपिष्टेन कर्णाक्षिनासामूर्द्धभवा गदाः ॥२०६॥
मन्याहनुगलोद्भूता नश्यन्ति भुजपृष्ठजाः
मधूकसारकृष्णाभ्यां वचामरिचसैन्धवैः ॥२०७॥
नस्यं कोष्णाम्भसा पिष्टं दद्यात्संज्ञाप्रबोधनम्
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके ॥२०८॥
सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव च
बस्तमूत्रेण संपिष्टं नस्यं तन्द्रा निवारणम् ॥२०९॥
रोहितस्य च पित्तेन भावितं मरिचं वचा
कट्फलं चेति तच्चूर्णं देयं प्रधमनं वुधैः ॥२१०॥
अथ बृंहणनस्यस्य कल्पना कथ्यतेऽधुना
मर्शश्च प्रतिमर्शश्च द्वौ भेदौ स्नेहने मतौ ॥२११॥
मर्शस्य तर्पणी मात्रा मुख्या शाणैः स्मृताऽष्टभिः
मध्यमा तु चतुःशाणैर्हीना शाणमिता मता ॥२१२॥
एकैकस्मिंस्तु मात्रेयं देया नासापुटे बुधैः ॥२१३॥
मर्शस्य द्वित्रिवेलं वा वीक्ष्य दोषबलाबलम्
एकान्तरं द्वयन्तरं वा नस्यं दद्याद्विचक्षणः ॥२१४॥
त्र्! यहं पञ्चाहमथवा सप्ताहं वा सुयन्त्रितः ॥२१५॥
मर्शे शिरोविरेके च व्यापदो विविधाः स्मृताः
दोषोत्क्लेशात्क्षयाच्चैव विज्ञेयास्ता यथाक्रमम्
दोषोत्क्लेशनिमित्तासु युञ्ज्याद्वमनशोधनम् ॥२१६॥
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम्
शिरोनासाऽक्षिरोगेषु सूर्यावर्त्तार्द्धभेदके ॥२१७॥
दन्तरोगे बले हीने मन्याबाह्वंसजे गदे
मुखशोषे कर्णनादे वातपित्तगदे तथा ॥२१८॥
अकालपलिते चैव केशश्मश्रुप्रपातने
पूज्यते बृंहणं नस्यं स्नेहैर्वा मधुरद्र वैः ॥२१९॥
सशर्करं पयःपिष्टं भृष्टमाज्येन कुङ्कुमम्
नस्यप्रयोगतो हन्याद्वातरक्तभवा रुजः
भ्रूशङ्खाक्षिशिरःकर्णसूर्यावर्त्तार्द्धभेदकान् ॥२२०॥
नस्यं स्यादणुतैलेन तथा नारायणेन वा
माषादिना वा सर्पिर्भिस्तत्तद्भेषजसाधितैः ॥२२१॥
तैलं कफे स्याद्वाते च केवले पवने वसाम्
दद्यान्नस्यं सदा पित्ते सर्पिर्मज्जानमेव च ॥२२२॥
माषात्मगुप्तारास्नाभिर्बलारुबुकरौहिषैः
कृतोऽश्वगन्धया क्वाथो हिङ्गुसैन्धवसंयुतः ॥२२३॥
कोष्णो नस्यप्रयोगेण पक्षाघातं सकम्पनम्
जयेदर्दितवातञ्च मन्यास्तम्भावबाहुकौ ॥२२४॥
प्रतिमर्शस्य मात्रा तु द्वित्रिविन्दुमिता मता
प्रत्येकशो नासिकया स्नेहनेति विनिश्चितम् ॥२२५॥
स्नेहे ग्रन्थिद्वयं यावन्निमग्ना चोद्धृता ततः
तर्जनी यं स्रवेद्बिन्दुं सा मात्रा बिन्दुसंज्ञिता ॥२२६॥
एवंविधैर्बिन्दुसंज्ञैरष्टाभिः शाण उच्यते
स देयो मर्शनस्येषु प्रतिमर्शो द्विबिन्दुकः ॥२२७॥
समयाः प्रतिमर्शस्य बुधैः प्रोक्ताश्चतुर्दश
प्रभाते दन्तकाष्ठान्ते गृहान्निर्गमने तथा ॥२२८॥
व्यायामाध्वव्यवायान्ते विण्मूत्रान्तेऽञ्जने कृते
कवलान्ते भोजनान्ते दिवास्वप्नोस्त्थिते तथा ॥२२९॥
वमनान्ते तथा सायं प्रतिमर्शः प्रयुज्यते ॥२३०॥
रीषदुच्छिक्कनात्स्नेहो यथा वक्त्रं प्रपद्यते
नस्ये निषिक्तं तं विद्यात्प्रतिमर्शप्रमाणतः ॥२३१॥
उच्छिष्टं न पिबेन्नैव निष्ठीवेन्मुखमागतम् ॥२३२॥
क्षीणे तृष्णाऽस्यशोषार्त्ते बाले वृद्धे च पूज्यते
प्रतिमर्शान्न जायन्ते रोगाश्चैवोर्ध्वजत्रुजाः
बलीपलितनाशश्च बलमिन्द्रि यजं भवेत् ॥२३३॥
बिभीतनिम्बौ गाम्भारी शिवा शेलुश्च काकिनी
एकैकतैलनस्येन पलितं नश्यति ध्रुवम् ॥२३४॥
अथ नस्यविधिं वक्ष्ये नस्यग्रहणहेतवे
देशेवातरजोमुक्ते कृतदन्तनिघर्षणम् ॥२३५॥
विशुद्धं धूमपानेन स्विन्नभालगलं तथा
उत्तानशायिनं किञ्चित्प्रलम्बशिरसं नरम् ॥२३६॥
आस्तीर्णहस्तपादञ्च वस्त्राच्छादितलोचनम्
समुन्नामितनासाऽग्र वैद्यो नस्येन योजयेत् ॥२३७॥
कोष्णेनाच्छिन्नधारेण हेमतारादिशुक्तिभिः
शुक्त्या वा यन्त्रयुक्त्या वा प्लोतैर्वा नस्यमाचरेत् ॥२३८॥
नस्येष्वासिच्यमानेषु सिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेत नोच्छिक्केन्न हसेत्तथा ॥२३९॥
एतैर्हि विहितः स्नेहो नैवान्तं सम्प्रपद्यते
ततः कासप्रतिश्यायशिरोऽक्षिगदसम्भवः ॥२४०॥
शृङ्गाटकमभिव्याप्य स्थापयेन्न गिलेद् द्र वम्
पञ्च सप्त दशैव स्युर्मात्राः स्नेहस्य धारणे ॥२४१॥
उपविश्याथ निष्ठीवेन्नासावक्त्रागतं द्र वम्
वामदक्षिणपार्श्वाभ्यां निष्ठीवेत्संमुखं न हि ॥२४२॥
नीते नस्ये मनस्तापं रजःक्रोधञ्च सन्त्यजेत्
शयीत निद्रा ं! त्यक्त्वा च प्रोत्तानो वाक्छतं नरः ॥२४३॥
तथा शिरोविरेकान्ते धूमो वा कवलो हितः
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः ॥२४४॥
शुद्धहीनातियोगा हि विज्ञेयाः शास्त्रचिन्तकैः
लाघवं मलसंशुद्धिः स्रोतसां व्याधिसंक्षयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ॥२४५॥
कण्डूःप्रदेहो गुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनाविशुद्धेस्तु लक्षणं परिकीर्त्तितम् ॥२४५॥
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढं विरेचिते ॥२४७॥
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
तत्र हीनेन नस्येन शुद्धे वातघ्नमाचरेत् ॥२४८॥
सम्यग्विशुद्धे शिरसि सर्पिर्नस्येन दीयते
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः ॥२४९॥
लक्षणं तदतिस्निग्धे तत्र रूक्षं प्रदापयेत्
भोजयेच्चानभिष्यन्दि नस्ये वातिकमादिशेत् ॥२५०॥
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषाऽदिप्रकरणे
पञ्चमं पञ्चकर्मविधिप्रकरणं समाप्तम् ॥५॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP