द्वितीयः भागः - प्रकरणम् ३
भावप्रकाशसंहिता
अथ तृतीयं धात्वादिशोधनमारण विधिप्रकरणम् ॥३॥
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम्
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥१॥
तच्छेदे कठिनं रूक्षं विवर्णं समलं दलम्
दाहे छेदे सितं श्वेतं कषे स्फुटं लघु त्यजेत् ॥२॥
पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥३॥
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥४॥
बलं सवीर्य्यं हरते नराणां रोगव्रजं पोषयतीह काये
असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्यात् ॥५॥
स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत्
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥६॥
गोलकञ्च ततो रुद्ध्वा शरावदृढसम्पुटे
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥७॥
काञ्चने गलिते नागं षोडशांशेन निक्षिपेत्
चूर्णयित्वा तथाम्लेन घृष्ट्वा कृत्वा तु गोलकम् ॥८॥
गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम् ॥९॥
शरावसम्पुटे धृत्वा पुटेत् त्रिंशद्वनोपलैः
एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते ॥१०॥
काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः
कज्जलद्यं हेमपत्राणि लेपयेत्समया तथा ॥११॥
काञ्चनारत्वचः कल्कैर्मूषायुग्मं प्रकल्पयेत्
धृत्वा तत्संपुटे गोलं मृण्मूषासम्पुटे च तत् ॥१२॥
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम्
वह्निं खरतरं कुर्यादेवं दत्त्वा पुटत्रयम् ॥१३॥
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत्
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् ॥१४॥
ज्वालामुखी तथा हन्याद् यथा हन्ति मनःशिला ॥१५॥
शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः
सप्तधा भावनां दद्याच्छोषयेच्च पुनः पुनः ॥१६॥
ततस्तु गलिते हेम्नि कल्कोऽय दीयते समः
पुनर्धमेदतितरां यथा कल्को विलीयते
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ॥१७॥
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम्
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥१८॥
पवित्रं बृंहणं नेत्र्! यं मेधास्मृतिमतिप्रदम्
हृद्यामायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्
विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित् ॥१९॥
असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत्
करोति रोगान् मृत्युं च तद्धन्याद् यत्नतस्ततः ॥२०॥
लोहादेरनपुनर्भावस्तद्गुणत्वं गुणाढ्यता
सलिले तरणं चापि तत्सिद्धिः पुटनाद्भवेत् ॥२१॥
गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके
वनोपलसहस्रेण पूरिते पुटनौषधम् ॥२२॥
कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत्
वनोपलसहस्रार्द्धं कोष्ठिकोपरि निक्षिपेत् ॥२३॥
वह्निं विनिक्षिपेत्तत्र महापुटमिति स्मृतम् ॥२४॥
सपादहस्तमानेन कुण्डे निम्ने तथाऽयते
वनोपलसहस्रेण पूर्णे मध्ये विधारयेत् ॥२५॥
पुटनद्र व्यसंयुक्तां कोष्टिकां मुद्रि तां मुखे
अधोऽधानि करण्डानि अर्धान्युपरि निक्षिपेत्
एतद्गजपुटं प्रोक्तं ख्यातं सर्वपुटोत्तमम् ॥२६॥
अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते
वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् ॥२७॥
षोडशाङ्गुलके खाते कस्यचित्कौक्कुटं पुटम् ॥२८॥
यत्पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः
कपोतपुटमेतत्तु कथितं पुटपण्डितैः ॥२९॥
गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम्
गोबरं तत्समाख्यातं वरिष्ठं रससाधने ॥२९॥
बृहद्भाण्डस्थितैर्यत्र गौबरैर्दीयते पुटम्
तद् गोबरपुटं प्रोक्तं भिषग्भिः सूतभस्मनि ॥३१॥
बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत्
क्षिप्त्वाऽग्नि मुद्र येद्भाण्डं तद्भाण्डपुटमुच्यते ॥३२॥
भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके
कूपिकाकण्ठपर्यन्तं वालुकाभिश्च पूरिते ॥३३॥
भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते
बालुकायन्त्रमेतद्धि यन्त्रं तत्र बुधैः स्मृतम् ॥३४॥
निबद्धमौषधं सूतं भूर्जे तत्त्रिगुणे वरे
रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥३५॥
सन्धानपूर्णकुम्भान्तःस्वावलम्बनसन्धितम्
अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि
दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥३६॥
साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च
पिधाय पच्यते तत्र तद् यन्त्रं स्वेदनं स्मृतम् ॥३७॥
अधःस्थाल्यां रसं क्षिप्त्वा विदध्यात्तन्मुखोपरि
स्थालीमूर्ध्वमुखीं सम्यङ्निरुध्य मृदुमृत्स्नया ॥३८॥
ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा चुल्ल्यामारोप्य यत्नतः
अधस्ताज्ज्वालयेदग्निं यावत्प्रहरपञ्चकम् ॥३९॥
स्वाङ्गशीतं ततो यन्त्राद् गृह्णीयाद्र समुत्तमम्
विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम् ॥४०॥
बालुकाभिः समस्ताङ्गं गर्त्ते मूषां रसान्विताम्
दीप्तोपलैः संवृणुयाद् यन्त्रं भूधरनामकम् ॥४१॥
यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्या मुद्रि ते मुखे ॥४२॥
गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनक्षमम्
वर्णाढ्यं चन्द्र वत् स्वच्छं तारं नवगुणं शुभम् ॥४३॥
कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु
दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ॥४४॥
पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥४५॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं रजतपत्राणां विशुद्धिः संप्रजायते ॥४५॥
रूप्यं त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्यबलक्षयं च
देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्यात् ॥४७॥
भागैकं तालकं मर्द्यं याममम्लेन केनचित्
तेन भागत्रयं तारपत्त्राणि परिलेपयेत् ॥४८॥
धृत्वा मूषापुटे रुद्ध्वा पुटेत्त्रिंशद्वनोपलैः
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत्
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥४९॥
स्नुहीक्षीरेण सम्पिष्टं माक्षिकं तेन लेपयेत् ॥५०॥
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान्
पुटेच्चतुर्दशपुटैस्तारं भस्म प्रजायते ॥५१॥
रौप्यं शीतं कषायं च स्वादुपाकरसं सरम्
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिराद्र् ध्रुवम् ॥५२॥
जपाकुसुमसङ्काशं स्निग्धं गुरु घनक्षमम्
लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ॥५३॥
कृष्णं रूक्षमतिस्वच्छं श्वेतं चापि घनासहम्
लोहनागयुतं चेति शुल्वं दुष्टं प्रकीर्त्तितम् ॥५४॥
पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥५५।॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ॥५६॥
एको दोषो विषे ताम्रे त्वशुद्धेऽष्टौ भ्रमो वमिः
विरेकस्वेद उत्क्लेदो मूर्च्छा दाहोऽरुचिस्तथा ॥५७॥
न विषं विषमित्याहुस्ताम्रन्तु विषमुच्यते
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्त्तिताः ॥५८॥
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद् बुधः
वासरत्रयमम्लेन ततः खल्वे विनिक्षिपेत् ॥५९॥
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत्
ततः उद्धृत्य पत्राणि लेपयेद् द्विगुणेन च ॥६०॥
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम्
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥६१॥
तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम्
धृत्वा तद् गोलकं भाण्डे शरावेण च रोधयेत् ॥६२॥
बालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः
दत्वा भाण्डमुखे मुद्रां ततश्चुल्ल्यां विपाचयेत् ॥६३॥
क्रमवृद्ध्याऽग्निना सम्यग्यावद्यामचतुष्टयम्
स्वाङ्गशीतं समुद्धृत्य मर्दयेच्छूरणद्र वैः ॥६४॥
यामैकं गोलकं तच्च विक्षिपेच्छूरणोदरे
मृदा लेपस्तु कर्त्तव्यः सर्वतोऽङ्गुष्ठमात्रकः ॥६५॥
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ॥६६॥
वमनं च विरेकं च भ्रमं क्लममथारुचिम्
विदाहं स्वेदमुत्क्लेदं न करोति कदाचन ॥६७॥
ताम्रं कषायं मधुरं सतिक्तमम्लञ्च पाके कटु सारकं च
पित्तापहं श्लेष्महरं च शीतं तद्रो पणं स्याल्लघु लेखनं च ॥६८॥
पाण्डूदरार्शोज्वरकुष्ठकासश्वासक्षयान्पीनसमम्लपित्तम्
शोथं कृमीञ्शूलमपाकरोति प्राहुर्बुधा बृंहणमल्पमेतत् ॥६९॥
एको दोषो विषे ताम्रे त्वसम्यङ्मारिते पुनः
दाहः स्वेदोऽरुचिर्मूर्च्छोत्क्लेदो रेको वमिर्भ्रमः ॥७०॥
वङ्गं च गिरिजं तच्च खुरकं मिश्रकं द्विधा
तयोस्तु खुरकं श्रेष्ठं मिश्रकं त्वहितं मतम् ॥७१॥
वङ्गं विधत्ते खलु शुद्धिहीनमाक्षेपकम्पौ च किलासगुल्मौ
कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ॥७२॥
विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्चरञ्च
मेहाश्मरीविद्र धिमुष्करोगान् नागोऽपि कुर्यात्कथितान्विकारान् ॥७३॥
वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत्
त्रिधा त्रिधा विशुद्धिः स्याद्र विदुग्धेऽपि च त्रिधा ॥७४॥
मृत्पात्रे द्रा विते वङ्गे चिञ्चाऽश्वत्थत्वचो रजः
पिष्ट्वा वङ्गचतुर्थांशमथोदर्व्या प्रचालयेत् ॥७५॥
ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते
अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत् ॥७६॥
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत्
तालेन दशमांशेन याममेकं ततः पुटेत्
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥७७॥
वङ्गं लघु सरं रूक्षं कुष्ठं मेहकफकृमीन्
निहन्ति पाण्डुं सश्वासं नेत्र्! यमीषत्तु पित्तलम् ॥७८॥
सिंहो गजौघं तु यथा निहन्ति तथैव वङ्गोऽखिलमेहवर्गम्
देहस्य सौख्यं प्रबलेन्द्रि यत्वं नरस्य पुष्टिं विदधाति नूनम् ॥७९॥
यशदं गिरिजं तस्य दोषाः शोधनमारणे
वङ्गस्येव हि बोद्धव्या गुणांस्तु गणयाम्यथ ॥८०॥
यशदं च सरं तिक्तं शीतलं कफपित्तहृत्
चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत् ॥८१॥
तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः
शोधनञ्चापि तस्येव भिषग्भिर्गदितं पुरा ॥८२॥
ताम्बूलरससम्पिष्टं शिलालेपात् पुनः पुनः
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ॥८३॥
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निक्षिपेत्
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥८४॥
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला
काञ्जिकेन द्वयं पिष्ट्वा पचेद्गजपुटेन च ॥८५॥
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च
पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥८६॥
सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥८७॥
नागस्तु नागशततुल्यबलं ददाति व्याधिं च नाशयति जीवनमातनोति
वह्निं प्रदीपयति कामबलं करोति मृत्युञ्च नाशयति सन्ततसेवितः सः ॥८८॥
खञ्जत्वकुष्ठामयमृत्युकारी हृद्रो गशूलौ कुरुतेऽश्मरीञ्च
नानारुजानां च तथा प्रकोपं कुर्याच्च हृल्लासमशुद्धलौहम् ॥८९॥
पत्तलीकृतपत्राणि लौहस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥९०॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा
एवं लौहस्य पत्राणां विशुद्धिः संप्रजायते ॥९१॥
शुद्धं लौहभवं चूर्णं पातालगरुडीरसैः
मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम् ॥९२॥
पुटत्रयं कुमार्याश्च कुठारच्छिन्निकिरसैः
पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ॥९३॥
क्षिपेच्च द्वादशांशेन दरदं तीक्ष्णचूर्णतः
मर्दयेत्कन्यकाद्रा वैर्यामयुग्मं ततः पुटेत्
एवं सप्तपुटैर्मृत्युं लौहचूर्णमवाप्नुयात् ॥९४॥
सत्योऽनुभूतो योगेन्द्रै ः! क्रमोऽन्यो लौहमारणे
कथ्यते रामराजेन कौतूहलधियाऽधुना ॥९५॥
सूतकाद् द्विगुणं गन्धं दत्त्वा कुर्याच्च कज्जलीम्
द्वयोः समं लौहचूर्णं मर्दयेत्कन्यकाद्र वैः ॥९६॥
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके
घर्मे धृत्वा रुबूकस्य पत्रैराच्छादयेद्बुधः ॥९७॥
यामत्रयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥९८॥
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्
दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा ॥९९॥
तद्र सेनायसं चूर्णं सन्नीय प्लावयेदिति
आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः ॥१००॥
एकविंशतिवारैस्तन्म्रियते नात्र संशयः
एवं सर्वाणि लौहानि स्वर्णादीन्यपि मारयेत् ॥१०१॥
लौहं तिक्तं सरं शीतं कषायं मधुरं गुरु
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥१०२॥
कफं पित्तं गरं शूलं शोफार्शः प्लीहपाण्डुताः
मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि ॥१०३॥
गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः
तावल्लौहं समश्नीयाद्यथादोषानलं नरः ॥१०४॥
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा
मद्यमम्लरसञ्चैव वर्जयेल्लौहसेवकः ॥१०५॥
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥१०६॥
मन्दानलत्वं बलहानिमुग्रां बिष्टम्भितां नेत्रगदान् सकुष्ठान्
मालां तथैव व्रणपूर्विकाञ्च कुर्यादशुद्धं खलु माक्षिकञ्च ॥१०७॥
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च
मातुलुङ्गद्र वैर्वाऽथ जम्बीरस्य द्र वैः पचेत् ॥१०८॥
चालयेल्लौहजे पात्रे यावत्पात्रं सुलोहितम्
भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ॥१०९॥
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
तक्रेण वाऽजमूत्रेण म्रियते स्वर्णमाक्षिकम् ॥११०॥
स्वर्णमाक्षिकवद्दोषा विज्ञेयास्तारमाक्षिके
अतस्तद्दोषशान्त्यर्थं शोधनं तस्य कथ्यते ॥१११॥
कर्कोटीमेषशृङ्ग्युत्थैर्द्र वैर्जम्बीरजैर्दिनम्
भावयेदातपे तीव्रे विमला शुद्ध्य्ति ध्रुवम् ॥११२॥
कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्
मरणं वाऽजमूत्रेण तारमाक्षिकमृच्छति ॥११३॥
न केवलं स्वर्णरूप्यगुणास्तापीजयोर्मताः
द्र व्यान्तरस्य संसर्गात्सन्त्यन्येऽपि गुणास्तयोः ॥११४॥
माक्षिकं मधुरं तिक्तं स्वर्यं वृष्यं रसायनम् ॥११५॥
चक्षुष्यं वस्तिरुक्कुष्ठपाण्डुमेहविषोदरम्
अर्शः शोफं क्षयं कण्डूं त्रिदोषञ्च नियच्छति ॥११६॥
विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः
दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे ततः
पुटं दध्ना पुटं क्षौद्रै र्देयं तुत्थविशुद्धये ॥११७॥
तुत्थकं कटुकं क्षारं कषायं वामकं लघु ॥११८॥
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
विषाश्मकुष्ठकण्डूघ्नं तद्गुणं खर्परं मतम् ॥११९॥
पत्तलीकृतपत्राणि कांस्यस्याग्नौ प्रतापयेत्
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥१२०॥
गोमूत्रे च कुलत्थानां कषायेऽत्र त्रिधा त्रिधा
एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते ॥१२१॥
अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्
समेन कांस्यपत्राणि शुद्धान्यम्लद्र वैर्मुहुः ॥१२२॥
ततो मूषापुटे धृत्वा पचेद्गजपुटेन च
एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम् ॥१२३॥
कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम्
गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ॥१२४॥
रीतिका तु भवेद्रू क्षा सतिक्ता लवणा रसे
शोधनी पाण्डुरोगघ्नी कृमिहृन्नातिलेखनी ॥१२५॥
दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥१२६॥
सिन्दूर उष्णो वीसर्पकुष्ठकण्डूविषापहः
भग्नसन्धानजननो व्रणशोधनरोपणः ॥१२७॥
गोमूत्रगन्धवत्कृष्णं स्रिग्धं मृदु तथा गुरु
तिक्तं कषायं शीतञ्च सर्वश्रेष्ठं तदायसम् ॥१२८॥
विन्ध्यादौ बहुलं तत्तु यत्र लौहं यतोऽधिकम्
तच्छोधनमृते व्यर्थमनेकमलमेलनात् ॥१२९॥
शिलाजतु समानीय सूक्ष्मं खण्डं विधाय च
निक्षिप्यात्युष्णपानीये यामैकं स्थापयेत्सुधीः ॥१३०॥
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥१३१॥
उपरिस्थं घनं यत्स्यात्तत्क्षिपेदन्यपात्रके
एवं पुनः पुनर्नीतं द्विमासाभ्यां शिलाजतु ॥१३२॥
भवेत्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत्
निर्धूमञ्च ततः शुद्धं सर्वकर्मसु योजयेत् ॥१३३॥
व्याधिव्याधितसात्म्यं समनुसरन् भावयेदयःपात्रे
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम् ॥१३४॥
तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम्
तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥१३५॥
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्र से भूयः
स्वैः स्व्रेवं क्वाथैर्भाव्यं वारान् भवेत् सप्त ॥१३६॥
अथ स्निग्धस्य शुद्धस्य वृतं तिक्तकसाधितम्
त्र्! यहं युञ्जीत गिरिजमेकैकेन तथा त्र्! यहम् ॥१३७॥
फलत्रयस्य यूषेण पटोल्या मधुकस्य च
शिलाजमेवं देहस्य भवत्यत्युपकारकम् ॥१३८॥
लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत्
सन्तानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥१३९॥
उष्णे च काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे
चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः ॥१४०॥
शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद् द्विगुणञ्च तोयम्
उष्णं तदूर्ध्वं क्वथितञ्च दत्त्वा विशोधयेत्तन्मृदितं यथावत् ॥१४१॥
ततस्तु यत्कृष्णमुपैति चोर्ध्वं सन्तानिकावद्र विरश्मितप्तम्
पात्रे तदन्यत्र ततो निदध्यात्तत्रापरं कोष्णजलं क्षिपेच्च ॥१४२॥
पुनश्च तस्मादपरत्र पात्रे पश्चाच्च पात्रादपरत्र भूयः
यदा विशुद्धं जलमेवमूर्ध्वं कृष्णं समस्तं मलमेत्यधस्तात्
तदा त्यजेत्तत्सलिलं मलञ्च शिलाजतु स्याज्जलशुद्धमेवम् ॥१४३॥
शिलाजतु स्मृतं तिक्तं कटूष्णं कटुपाकि च
रसायनं योगवाहि श्लेष्ममेहाश्मशर्कराः ॥१४४॥
मूत्रकृच्छ्रं क्षयं श्वासं शोथमर्शांसि पाण्डुताम्
वातरक्तं तथा कुष्ठमपस्मारोदरं हरेत् ॥१४५॥
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥१४५॥
तन्मध्ये भृङ्गराड् मुण्डी विष्णुक्रान्ता पुनर्नवा
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥१४७॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकम्
समूलं कुट्टयित्वा तु यथालाभं विनिक्षिपेत् ॥१४८॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम्
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ॥१४९॥
त्र्! यूषणं लवणं राजी रजनी त्रिफलाऽद्र कम्
महाबला नागबला मेघनादः पुनर्नवा ॥१५०॥
मेषशृङ्गी चित्रकञ्च नवसारं समं समम्
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् ॥१५१॥
प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् ॥१५२॥
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्त्रिदिनं पचेत्
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥१५३॥
मूलकानलसिन्धूत्थत्र्! यूषणार्द्र कराजिकाः
रसस्य षोडशांशेन द्र व्यं युञ्ज्यात् पृथक्पृथक् ॥१५४॥
द्र व्येष्वनुक्तमानेषु मतं मानमितं बुधैः
पट्टावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके ॥१५५॥
स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान्
स्वेदात्तीव्रो भवेत्सूतो मर्दनाच्च सुनिर्मलः ॥१५६॥
इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥१५७॥
कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्बृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते ॥१५८॥
त्र्! यूषणत्रिफलावन्ध्याकन्दैः क्षुद्रा द्वयान्वितैः
चित्रकोर्णानिशाक्षारकन्याऽककनकद्र वैः ॥१५९॥
सूतं कृतेन यूषेण वारान्सप्त विमर्दयेत्
इत्थं संमूर्च्छितः सूतस्त्यजेत्सप्तापि कञ्चुकान् ॥१६०॥
मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च
यन्त्रे विद्याधरे कुर्याद्र सेन्द्र स्योर्ध्वपातनम् ॥१६१॥
त्रिफलाशिग्रुशिखिभिर्लंवणासुरिसंयुतैः
नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाजनम् ॥१६२॥
ततो दीप्तैरधः पातमुपलैस्तस्य कारयेत्
यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्य्ति ॥१६३॥
स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत्
तदा कार्याणि कुरुते प्रयोज्यः सर्वकर्मसु ॥१६४॥
गृहकन्या हरति मलं त्रिफलाऽग्नि चित्रको विषं हन्ति
तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत्सप्त ॥१६५॥
कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः
फलत्रिकेणापि विमर्दितो रसो दिनत्रयं सर्वमलैर्विमुच्यते ॥१६६॥
कुमार्या च निशाचूर्णैर्दिनं सूतं विमर्दयेत्
एवं कदर्थितः सूतः षण्ढो भवति निश्चितम् ॥१६७॥
बह्वौषधिकषायेण स्वेदितः स बली भवेत्
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दैः स्वेदितो बली
ततः स पावकद्रा वैः स्विन्नः स्यादतिदीप्तिमान् ॥१६८॥
धूमसारं रसं तोरीं गन्धकं नवसादरम्
यामैकं मर्दयेदम्लैर्भागं कृत्वा समं समम् ॥१६९॥
काचकूप्यां विनिक्षिप्य ताञ्च मृद्वस्त्रमुद्र या
विलिप्य परितो वक्त्रे मुद्रा ं! दत्त्वा विशोषयेत् ॥१७०॥
अधः सच्छिद्र पिठरीमध्ये कूपीं निवेशयेत्
पिठरीं बालुकापूरैर्भृत्वा चाकूपिकागलम् ॥१७१॥
निवेश्य चुल्ल्यां तदधो बह्निं कुर्याच्छनैः शनैः
तस्मादत्यधिकं किञ्चित्पावकं ज्वालयेत्क्रमात् ॥१७२॥
एवं द्वादशभिर्यामैम्रियते रस उत्तमः
स्फोटयेत्स्वाङ्गशीतं तमूर्ध्वगं गन्धकं त्यजेत् ॥१७३॥
अधःस्थञ्च मृतं सूतं गृह्णीयात्तं तु मात्रया
यथोचितानुपानेन सर्वकर्मसु योजयेत् ॥१७५॥
अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत्
तत्सम्पुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् ॥१७५॥
द्रो णपुष्पीप्रसूनानि विडङ्गमरिमेदकः
एतच्चूर्णमधश्चोर्ध्वं दत्त्वा मुद्रा प्रदीयते ॥१७६॥
तद्गोलं स्थापयेत्सम्यङ् मृन्मूषासम्पुटे पचेत् ॥१७७॥
एवमेकपुटेनैव सूतकं भस्म जायते
तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि ॥१७८॥
काकोदुम्बरिकादुग्धैः रसं किञ्चिद्विमर्दयेत्
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् ॥१७९॥
क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रा प्रदापयेत्
धृत्वा तद् गोलकं प्राज्ञो मृन्मूषासम्पुटेऽधिके
पचेद् गजपुटेनैव सूतकं याति भस्मताम् ॥१८०॥
नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः
मृन्मूषासम्पुटे पक्वं सूतो यात्येव भस्मताम् ॥१८१॥
तत्र पारदस्य संक्षिप्तं शोधनं कर्त्तव्यम्
शुद्धसूतसमं कुर्यात्प्रत्येकं गैरिकं सुधीः
इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च ॥१८२॥
वल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम्
सर्वाण्येतानि संचूर्ण्य वाससा चापि शोधयेत् ॥१८३॥
एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दयेत्
तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥१८४॥
तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम्
सवस्त्रकुट्टितमृदा मुद्र येदनयोर्मुखम् ॥१८५॥
संशोष्य मुद्र येद्भूयो भूयः संशोष्य मुद्र येत्
सम्यग्विशोष्य मुद्रा ं! तां स्थालद्यं चुल्ल्यां विधारयेत् ॥१८६॥
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम्
अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥१८७॥
शनैरुद्घाटयेद्यन्त्रमूर्ध्वस्थालीगतं रसम्
कर्पूरवत्सुविमलं गृह्णीयाद् गुणवत्तरम् ॥१८८॥
तद्देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम्
खादन् हरति फिरङ्गं व्याधिं सोपद्र वं सपदि ॥१८९॥
विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्यं बलं विपुलम्
रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥१९०॥
शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम्
शुद्धगन्धस्य भागैकं तावत्कृत्रिमगन्धकम् ॥१९१॥
अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि
तयोः कज्जलिकां कुर्याद्दिनमेकं विमर्दयेत् ॥१९२॥
मृत्तिका वाससा सार्द्धं कुट्टयेदतियत्नतः
तथा वारत्रयं सम्यक्काचकूपीं प्रलेपयेत् ॥१९३॥
मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत्
तां कूपीं बालुकायन्त्रे स्थापयित्वा रसं पचेत् ॥१९४॥
अग्निं निरन्तरं दद्याद्यावद्दिनचुतष्टयम्
गृह्णीयादूर्ध्वसंलग्नं सिन्दूरसदृशं रसम् ॥१९५॥
इति सिन्दूररसः
पारदः कृमिकुष्ठघ्नो जयदो दृष्टिकृत्सरः
मृत्युहृच्च महावीर्यो योगवाही ज्वरापहः ॥१९६॥
स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः
षण्ढत्वनाशनः शूरः खेचरः सिद्धिदःपरः ॥१९७॥
पारदः सकलरोगहा स्मृतः षड्रसो निखिलयोगवाहकः
पञ्चभूतमय एष कीर्त्तितस्तेन तद्गुणगणैर्विराजते ॥१९८॥
यस्य रोगस्य यो योगस्तेनैव सह योजितः
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥१९९॥
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्
सप्तवारान्प्रयत्नेन शुद्धिमायाति निश्चितम् ॥२००॥
तिक्तं कषायं कटु हिङ्गुलं स्यान्नेत्रामयघ्नं कफपित्तहारि
हृल्लासकण्डूज्वरकामलाश्च प्लीहामवातौ च गरं निहन्ति ॥२०१॥
निम्बूरसैर्निम्बपत्ररसैर्वा याममात्रकम्
घृष्ट्वा दरदमूर्ध्वन्तु पातयेत्सूतयुक्तिवत् ॥२०२॥
तत्रोर्ध्वपिठरीलग्नं गृह्णीयाद्र समुत्तमम्
शुद्धमेव हि तं सूतं सर्वकर्मसु योजयेत् ॥२०३॥
अशुद्धो गन्धकः कुर्यात्कुष्ठं पित्तरुजां भ्रमम्
हन्ति वीर्य्यं बलं रूपं तस्माच्छुद्धः प्रयुज्यते ॥२०४॥
लौहपात्रे विनिक्षिप्य घृतमग्नौ प्रतापयेत्
तप्ते घृते तत्समानं क्षिपेद् गन्धकजं रजः ॥२०५॥
विद्रुतं गन्धकं दृष्ट्वा तनुवस्त्रे विनिक्षिपेत्
यथा वस्त्राद्विनिःस्रुत्य दुग्धमध्येऽखिलं पतेत्
एवं स गन्धकः शुद्धः सर्वकर्मोचितो भवेत् ॥२०६॥
गन्धकः कटुकस्तिक्तो वीर्य्योष्णस्तुवरः सरः ॥२०७॥
पित्तलः कटुकः पाके कण्डूवीसर्पजन्तुजित्
हन्ति कुष्ठक्षयप्लीहकफवातान् रसायनः ॥२०८॥
पीडां विधत्ते विविधां नराणां कुष्ठं क्षयं पाण्डुगदञ्च कुर्य्यात्
हृत्पार्श्वपीडां च करोत्यसह्यामशुद्धमभ्रं गुरु वह्निहृत्स्यात् ॥२०९॥
कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत्
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्र वैः
भावयेदष्टयामं तदेवमभ्रं विशुद्ध्यति ॥२१०॥
कृत्वा धान्याभ्रकं तथा शोषयित्वाऽथ मर्दयेत्
अर्कक्षीरैर्दिनं खल्वे चक्राकारं च कारयेत् ॥२११॥
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत्
पुनर्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः ॥२१२॥
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम्
म्रियते नात्र सन्देहः प्रयोज्यं सर्वकर्मसु ॥२१३॥
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत्
घृते जीर्णे तदभ्रन्तु सर्वयोगेषु योजयेत् ॥२१४॥
पादांशशालिसंयुक्तमभ्रं बद्ध्वाऽथ कम्बले
त्रिरात्रं स्थापयेन्नीरे तत्क्लिन्नं मर्दयेत्करैः ॥२१५॥
कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत्
तद् धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये ॥२१६॥
अभ्रं कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च
हन्यात् त्रिदोषं व्रणमेहकुष्ठं प्लीहोदरं ग्रन्थिविषकृमींश्च ॥२१७॥
रोगान् हन्ति द्र ढयति वपुर्वीर्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव
दीर्घायुष्काञ्जनयति सुतान् सिंहतुल्यप्रभावान्
मृत्योर्भीतिं हरति सुतरां सेव्यमानं मृताभ्रम् ॥२१८॥
अशुद्धं तालमायुर्हृत्कफमारुतमेहकृत्
तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत् ॥२१९॥
तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत्
दोलायन्त्रेण यामैकं ततः कूष्माण्डजद्र वैः ॥२२०॥
तिलतैले पचेद्यामं यामञ्च त्रिफलाजले
एवं यन्त्रे चतुर्यामं पक्वं शुद्ध्य्ति तालकम् ॥२२१॥
सदलं तालकं शुद्धं पौनर्नवरसेन तु
खल्वे विमर्दयेदेकं दिनं पश्चाद्विशोधयेत् ॥२२२॥
ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत्
तत्र तद्गोलकं कृत्वा पुनस्तेनैव पूरयेत् ॥२२३॥
आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे
स्थालद्यं चुल्ल्यां समारोप्य क्रमाद्वह्निं विवर्धयेत् ॥२२४॥
दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत् ॥२२५॥
एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥२२६॥
हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्
कण्डूकुष्ठास्यरोगास्रकफपित्तकचव्रणान् ॥२२७॥
तालकं हरते रोगान्कुष्ठमृत्युज्वरापहम्
शोधितं कुरुते कान्तिं वीर्यवृद्धिं तथाऽयुषम् ॥२२८॥
तालकस्यैव भेदोऽस्ति मनोगुप्तैतदन्तरम्
तालकं त्वतिपीतं स्याद्भवेद्र क्ता मनः शिला ॥२२९॥
मनःशिला मन्दवलं करोति जन्तुं ध्रुवं शोधनमन्तरेण
मलस्य बन्धं किल मूत्ररोधं सशर्करं कृच्छ्रगदञ्च कुर्य्यात् ॥२३०॥
पचेत्त्र्यहमजामूत्रे दोलायन्त्रे मनःशिलाम्
भावयेत्सप्तधा पित्तैरजायाः सा विशुद्ध्यति ॥२३१॥
गुर्वी मनः शिला वर्ण्या सरोष्णा लेखनी कटुः
तिक्ता स्निग्धा विषश्वासकासभूतकफास्रनुत् ॥२३२॥
नरमूत्रे च गोमूत्रे सप्ताहं रसकं पचेत्
दोलायन्त्रेण शुद्धः स्यात्ततः कार्येषु योजयेत् ॥२३३॥
खर्परं कटुकं क्षारं कषायं वामकं लघु
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत्
विषाश्मकुष्ठकण्डूनां नाशनं परमं मतम् ॥२३४॥
सूर्यावर्त्तो वज्रकन्दः कदली देवदालिका
शिग्रुः कोशातकी वन्ध्या काकमाची च बालकम् ॥२३५॥
एषामेकरसेनैव त्रिक्षारैर्लवणैः सह
भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥२३६॥
ततः पचेच्च तद्द्रा वैर्दोलायन्त्रे दिनं सुधीः
एवं शुद्ध्य्न्ति ते सर्वे प्रोक्ता उपरसा हि ये ॥२३७॥
कङ्कुष्ठं गैरिकं शङ्खः कासीसं टङ्कणं तथा
नीलाञ्जनं शुक्तिभेदाः क्षुल्लकाः सवराटकाः ॥२३८॥
जम्बीरवारिणा स्विन्नाः क्षालिताः कोष्णवारिणा
शुद्धिमायान्त्यमी योज्या भिषग्भिर्योगसिद्धये ॥२३९॥
अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथां तथा
पाण्डुत्वं पङ्गुलत्वञ्च तस्मात्संशोध्य मारयेत् ॥२४०॥
कुलत्थकोद्र वक्वाथे दोलायन्त्रे विपाचयेत्
व्याघ्रीकन्दगतं वज्रं त्रिदिनात्तद्विशुद्ध्य्ति ॥२४१॥
गृहीत्वाऽह्नि शुभे वज्रंव्याघ्रीकन्दोदरे क्षिपेत्
महिषीविष्ठया लिप्त्वा कारीषाग्नौ विपाचयेत् ॥२४२॥
त्रियामायां चतुर्यामं यामिन्यन्तेऽश्वमूत्रके
सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्य्ति ॥२४३॥
हिंगुसैन्धवसंयुक्ते क्षिपेत्क्वाथे कुलत्थजे
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥२४४॥
मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसान् ॥२४५॥
शशदन्तं समं पिष्ट्वा वज्रीक्षीरेण गोलकम्
कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेव हि ॥२४५॥
आयुः पुष्टिं बलं वीर्यं वर्णं सौख्यं करोति च
सेवितं सर्वरोगघ्नं मृतं वज्रं न संशयः ॥२४७॥
वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा
शुद्धानां मारितानाञ्च तेषां शृणु गुणानपि ॥२४८॥
मणयो वीर्यतः शीता मधुरास्तुवरा रसात्
चक्षुष्या लेखनाश्चापि सारका विषहारकाः
धारणात्ते तु मङ्गल्या ग्रहदृष्टिहरा अपि ॥२४९॥
सिन्धुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः ॥२५॥०॥
गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्य्ति
रक्तसर्षपतैलाक्ते तथा धार्यञ्च वाससि ॥२५१॥
ये गुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात्
तस्माद्विषं प्रयोगे तु शोधयित्वा प्रयोजयेत् ॥२५२॥
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम् ॥२५३॥
तदेव युक्तियुक्तन्तु प्राणदायि रसायनम्
योगवाहि परं वातश्लेष्मजित्सन्निपातहृत् ॥२५४॥
अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः
गुञ्जाऽहिफेनो धत्तूरः सप्तोपविषजातयः ॥२५५॥
गुणहीनं भवेद्वर्षादूर्ध्वं तद्रू पमौषधम्
मासद्वयात्तथा चूर्णं लभते हीनवीर्यताम् ॥२५६॥
हीनत्वं गुटिकालेहौ लभेते वत्सरं यदि
हीनाः स्युर्घृततैलाद्याश्चतुर्मासाधिकास्तथा ॥२५७॥
घृतमब्दात्परं पक्वं हीनवीर्यत्वमाप्नुयात्
तैलं पक्वमपक्वञ्च चिरस्थायि गुणाधिकम् ॥२५८॥
ओषध्यो लघुपाकाः स्युर्निर्वीर्या वत्सरात्परम्
पुराणाः स्युर्गुणैर्युक्ता आसवा धातवो रसाः ॥२५९॥
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे
तृतीयं धात्वादिशोधनमारणविधिप्रकरणं समाप्तम् ॥३ ॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP