द्वितीयः भागः - प्रकरणम् ४
भावप्रकाशसंहिता
अथ चतुर्थं स्नेहपानविधिप्रकरणम् ॥४॥
स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा
मज्जा च तं पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ ॥१॥
स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते
तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम्
द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकस्रिवृतो महान् ॥२॥
पिबेत् त्र्! यहं चतुरहं पञ्चाहं षडहानि वा ॥३॥
दोषकालवयोवह्निबलान्यालोक्य योजयेत्
हीनाञ्चमध्यमां ज्येष्ठां मात्रां स्नेहस्य बुद्धिमान् ॥४॥
अमात्रया तथाऽकाले मिथ्याऽहारविहारतः
स्नेहः करोति शोथार्शस्तन्द्रा निद्रा विसंज्ञताः ॥५॥
देया दीप्ताग्नये मात्रा स्नेहस्यैकपलोन्मिता
मध्यमाय त्रिकर्षा स्याज्जघन्याय द्विकार्षिकी ॥६॥
अथवा स्नेहमात्राः स्युस्तिस्रोऽन्या सर्वसम्मताः
अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा
जीर्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा ॥७॥
अल्पा स्याद्दीपनी वृष्या स्वल्पदोषे प्रपूजिता ॥८॥
मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रमहारिणी
ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी ॥९॥
या मात्रा प्रथमे यामे गते जीर्यति वासरे
सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता ॥१०॥
या मात्रा वासरस्यार्द्धे व्यतीते परिजीर्यति
सा वृष्या बृंहणी च स्यान्मध्यदोषे प्रपूजिता ॥११॥
या मात्रा चरमे यामे स्थितेऽह्न परिजीर्यति
सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता ॥१२॥
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्
देयं वहुकफे वह्निव्योषक्षारसमन्वितम् ॥१३॥
रूक्षक्षतविषार्त्तानां वातपित्तविकारिणाम्
हीनमेधास्मृतीनां च सर्पिष्पानं प्रशस्यते ॥१४॥
कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः
पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनस्तु ये ॥१५॥
व्यायामकर्षिताः शुष्करेतोरक्ता महारुजः
महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः ॥१६॥
क्रूराशयाः क्लेशसहा वातार्त्ता दीप्तवह्नयः
मज्जानञ्च पिबेयुस्ते सर्पिर्वा सर्वतो हितम् ॥१७॥
शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि
वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा ॥१८॥
नस्याभ्यज्जनगण्डूषमूर्ध्वकर्णाक्षितर्पणे
तैलं घृतं वा युञ्जीत दृष्ट्वा दोषबलाबलम् ॥१९॥
घृते कोष्णं जलं पेयं तैले यूषः प्रशस्यते
वसामज्ज्ञोः पिबेन्मण्डमनुपानं सुखावहम् ॥२०॥
स्नेहद्विषः शिशून्वृद्धान्सुकुमारान्कृशानपि
तृष्णालुकानुष्णकाले सह भक्तेन पाययेत् ॥२१॥
सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला
सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी ॥२२॥
शर्कराचूर्णसंयुक्ते दोहनस्थे घृते तु गाम्
दुग्ध्वा क्षीरं पिबेद्रू क्षः सद्यः स्नेहनमुत्तमम् ॥२३॥
मिथ्याऽचाराद् बहुत्वाच्च यस्य स्नेहो न जीर्यति
विष्टभ्य वाऽपि जीर्येत वारिणोष्णेन वामयेत् ॥२४॥
स्नेहस्याजीर्णशङ्कायां पिबेदुष्णोदकं नरः
तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा ॥२५॥
स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः
तदाऽस्योदीरयेत् तृष्णां विषमां तस्य पाययेत्
शीतलं पायसं तेन तृष्णा तस्य प्रशाम्यति ॥२६॥
अजीर्णी वर्जयेत्स्नेहमुदरी तरुणज्वरी
दुर्बलोऽरोचकी स्थूलो मूर्च्छालो मेहपीडितः ॥२७॥
दत्तवस्तिविरिक्तश्च वान्तस्तृष्णाश्रमान्वितः
अकालप्रसवा नारी दुर्दिने च विवर्जयेत् ॥२८॥
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः ॥२९॥
वृद्धबालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः
वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनमुत्तमम् ॥३०॥
वातानुलोम्यं दीप्ताग्निर्वर्चः स्निग्धमसंहतम्
मृदुस्निग्धाङ्गताऽग्लानिः स्नेहद्वेषोऽथ लाघवम्
विमलेन्द्रि यता सम्यक् स्निग्धे रूक्षे विपर्ययः ॥३१॥
भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका
तन्द्रा ऽतीसारपाण्डुत्वं भृशं स्निग्धस्य लक्षणम् ॥३२॥
रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्
श्यामाकचणकाद्यैश्च तक्रपिण्याकसक्तुभिः ॥३३॥
दीप्ताग्निः शुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रि यः
निर्जरो बलवर्णाढ्यः स्नेहसेवी भवेन्नरः ॥३४॥
स्नेहे व्यायामसंशीतवेगाघातप्रजागरान्
दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विवर्जयेत् ॥३५॥
इति श्रीमिश्रलटकन तनय श्रीमिश्रभाव विरचिते भावप्रकाशे परिभाषादिप्रकरणे
चतुर्थं स्नेहपानविधिप्रकरणं समाप्तम् ॥४॥
N/A
References : N/A
Last Updated : May 17, 2021
TOP