ऊनविंशति काण्डः - ३१ ते ३५
पैप्पलादसंहिता
३१
अतिमामक्षं पृथिवीमतिद्यामति सूर्यम् ।
अति विश्वमिदं भूतमत्यक्षं यातुधान्य: ॥१॥
दर्शय मा यातुधानान् दर्शय यातुधान्य: ।
अघायून् सर्वान्दर्शयेत्योषध आरभे ॥२॥
एवा सहस्र चक्षो त्वं प्रतिपश्यास्यायतः ।
सहो ऽसि यातुधानजम्भनम् ॥३॥
इमा: पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
तासां जरायुणा वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥४॥
विषूच्येतु कृन्तती पिनाकमिव बिभ्रती।
विष्वक् पुनर्भुवा मनो असमृद्धा अघायवः ॥५॥
अपेतः परिपन्थिनो यो अघायुरर्षतु।
न बहव: संशक्नुवन्नार्भका अभि धृष्णुवन ॥६॥
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहम् ।
इन्द्राण्येतु प्रथमाजीतामुषिता पथा ॥७॥
आायमगन् फल्गुमणिर्बलेन बलदाः सह ।
येनेन्द्रो दस्युनावीराङ् असुराणामवातिरत् ॥८॥
वर्चसां मां पयसोक्षन्तु देवा वर्चसा द्यावापृथिवी उभे ।
वर्चो मे देवः सविता दधातु वर्चो विप्रः कश्यपो मे दधातु ॥९॥
वर्चो म आापो दधतु वर्चो मे वीरुधो दधन्॥
भूतानि सर्वाः सङ्गत्य वर्च आधुर्मुखे मम ॥१०॥
या: पुरस्ताद् वितिष्ठन्ते गावः प्रव्राजिनीरिव । व्राजी
वातीकृतस्य भेषजीः पिप्पलैः पारयिष्णवः ॥११॥
रुद्रस्य मूत्रमस्यमृतस्य नाभिः॥
पृथिव्यां मूलं निष्ठितमसि विषाणा नाम वातीकृतस्य भेषजी ॥१२॥
शं ते अस्तु मतस्नाभ्यां शं य क्लेशं तलीभ्यौ ।
शं ते पृष्टिभ्यो मज्जभ्य: शमस्तु तन्वे तवं ॥१३॥
नहि ते अग्ने तन्वः क्रूरमानंशा मर्त्यम् ।
कपिर्बभस्ति ते जनं स्वं जरायु गौरिव ॥१४॥
त्वेष इव सं च वि चोर्वच्यसे यदुत्तरद्रावुपरस्य खादति ।
शीर्ष्र्णा शिरो अप्ससाप्सो अर्दयन्नंशून् बभस्ति हरितेभिरासभिः ॥१५॥
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन्नियन्त्युपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रित: ॥१६॥
३२
भगेन मा शांशपेन साकमिन्ट्रेण मेदिना ।
कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
यो अन्धो यः पुरःसरो भगो वृक्षेष्वार्पितः ।
भगो मे अस्तु शांशपो ऽपः द्रान्त्वरातयः ॥२॥
यथा वृक्षाङ् अभ्यभवः साकमिन्द्रेण मेदिना ।
एवा मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥
अपेतो नीललोहितं जातं हिमवतस्परि ।
कीश्मीलमुर्वराभ्यो दिवो जातमनीनशम् ॥४॥
अभ्राज्जातं वर्षाज्जातं मथो जातं दिवस्परि ।
अथो समुद्राज्जातं कीश्मीलं नाशयामसि ॥५॥
यो नीहाराद् य: पृष्ठाया यो ऽभ्यस्परिजायसे ।
गर्भो यो विद्युतामसि स न: कीश्मील मृडय ॥६॥
नादेयीः सिकता इमा: सिन्धुतस्पर्याभृता: ।
ताभिर्यमस्य कीश्मीलं सभूताभिरनीनशम् ॥७॥
त्वया पूर्वं विभीतकं संजिता असुराहता: ।
त्वं सपत्नचातनो भ्रातृव्याङ् अव धूनुष्व ॥८॥
वि भिनत्तु विभीतकस्तीक्ष्णशृङ्ग इव ऋषभः॥
अथो सपत्नानादत्तामथो हन्तु दुरस्यत: ॥९॥
व्यवग्धित्सहमानः सपत्नान् द्विषतो मे अधराङ् अकः ।
अभ्यभूद् भूत्योभयाः ॥१०॥
य आस्कन्द: परास्कन्द आखुः कुकुम्भात् कृमिः॥
उपचीकान् उपक्वसान् तान् सर्वान् जम्भयामसि ॥११॥
अपि नह्यस्याखोर्मुञ्जेन मुखमास्यम् ।
अपनुदन् यथा चारादपेत उर्वराभ्यः ॥१२॥
अपिनद्धमुख आखुः परोक्तः प्राधराजतः ।
शृणाम्यस्य दन्तान् वि रक्षो पातयामसि ॥१३॥
अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
यथा गर्भस्वतीं वाचमावदानि जनाङ् अनु ॥१४॥
यशा अहं निमिशते प्रत्यक् सत्रे यशा अहम् ।
अत्रैमितद् यशा अहमुत तत्र यशा अहम् ॥१५॥
अस्मै च सर्वस्मै भूताय सर्वस्मै च विपश्यते ।
सर्वस्मै इदहं यशा ॥१६॥
अपोत्तर पोर्णहि यदीदमस्ति वा न वा ।
व्यन्द्यं विल्गणं चक्षुरक्षिभ्यां कृधि ॥१७॥
अङ्क हिरण्मयं कृत्वा लङ्गलाष मर्मञ्च ।
तद्देवा अप्पलुम्पतु चक्षुष्मन् मे मनो अस्तु ॥१८॥
चक्षुष्मद् हृदयं मन: चक्षुष्मच्चितमस्तु मे ।
चक्षुश्चक्षुष्मदस्तु मे चक्षुराधेहि मे अक्ष्योः ॥१९॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे अष्टमो ऽनुवाक: )
३३
सोमो राजा सविता च राजा भगो राजा भुवनं च राजा।
शर्वो राजा शर्म च राजा त उ नः शर्म यच्छन्तु देवाः ॥१॥
आदित्यैनों बृहस्पतिर्भग: सोमेन नः सह ।
विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यच्छन्तु देवाः ॥२॥
उतारुद्धां निष्खिदताथो ऽस्रथ्नि यथायथम् ।
मा नो विश्वे देवा मरुतो हेतिमस्यन्ताम् ॥३॥
अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहा: पराचीना मुखा कृधि ॥४॥
उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥५॥
हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
शीतह्रदा हि नो भुवो ऽग्निर्ददातु भेषजम् ॥६॥
अयं दर्भ विमन्युक: स्वाय चारणाय च ।
मन्योर्विमन्युको मन्युशमनो ऽस्तु ते ॥७॥
अयं यो भूरिमूलः समुद्रमवगच्छति ।
दर्भ: पृथिव्या निष्ठित: स ते अस्तु विमन्युक: ॥८॥
वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
यथावशो न वादिषो मम चित्तमुपायसि ॥९॥
येभिः पाशैः परिवित्तो विबद्धः परौपरावार्पितो अङ्गेअङ्गे !
वि ते चृत्यन्तां विचृतो हि सन्ति भ्रूणघ्नि पूषन् दूरितानि मृष्टा: ॥१०॥
त्रिते देवा अमृजतैन एतत् त्रित एनान्मनुष्वेष्वमृष्ट: ।
ततो जहि त्वा मध्येन आहरत्तदहं त्वद् ब्रह्मणाप करोमि ॥११॥
मरीचीर्धूमं प्र विशानु वातामुदारान् गच्छोत वा नीहारान् ।
नदीनां फेनमनुतद्विनश्यतु भ्रूणघ्नि पूषन् दुरितानि मृष्टा: ॥१२॥
अग्ने रक्षः प्रतिदह यत् कुम्भ्याभिराभृतम् ।
अनाधृष्यस्य यास्यत्यभूज्जीवातवेयम् ! ॥१३॥
यन्नखवद्यच्छपवत् प्रसुमत् किं च पुष्पवत्।
उर्वामत्स्यो मधूलकं तस्य प्रास्यत्ययमनास्रावमरोगणम् ॥१४॥
या समुद्रात् प्रस्रवन्ति देवीर्हिमवतस्परि ।
आपो या विश्वशंभुवस्ता इहा यान्तु भेषजी: ॥१५॥संभू
३४
त्वचापिधाने सुभगे यत् परिस्तरणे कवे ।
एकामिव व्रजेगां परि त्वा वर्चसा सिचम् ॥१॥
अग्रेणीरिव हंसानां प्रपश्यन्ती पुरस्पथम् ।
जिह्वे मा विव्यथो मा यथा पूर्वं त्वं वद: ॥२॥
वर्चस्वदहमुद्यासं ब्रह्मराजन्याभ्यां शूद्राय चार्याय च।
यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥३॥
अर्वाञ्चौ पादौ प्र हराम्य ऽर्वाचीनं मनस्तव ।
अर्वाचीनं नश्यतेतः पराङ् मन्युर्नि वर्तताम् ॥४॥
यश्च छागलादे भगवो ऽर्वाग् ज्योतिः परस्तमः ।
आ त्वा खले ऽग्निकात्तस्मात् पुनरा वर्त्तयामसि ॥५॥
यथा व्रीहिन् व्रीहिखले समाकुर्वन्ति तूलिभि: । ब्रीहि
एवा ते निष्ठितं मन: समा करोमि मामुभे ॥६॥
त्वमुत्तमं सुराधसां माध्यमं हुवतोरसि । राघ
त्वया विदुर्वि जङ्गहे तं त्वा वर्चस आ ददे ॥७॥
मूर्ध्न्यस्ते मूर्ध्न्योभ्यो ऽग्रुवः प्रतिविद्याः ।
यक्ष्मं शीर्षत आ ददे ॥८॥
यश्च स्फामा ते अङ्गेषु यः प्रेमा हृदये च ते ।
तं त्वदा वेशयामहे मयि भ्राजातिदीद्यत ॥९॥
वातरंहा वाजिन् भव युज्यमान इन्द्रस्य याहि प्रसवे मनोजवाः।
युञ्जन्तु त्वा मरुतो दैव्यास आ ते त्वष्टा पत्सु जवं दधातु ॥१०॥
जवस्ते अर्वन निहितो गुहा य: श्येने चरति यश्च वाते ।
तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने पारयिष्णुः ॥११॥
आसीयानो ऽधि मनसा आसीयानो ऽधि चक्षुषा ।
आसीयान: सवाचाभूत्वाजिं जय समने पारयिष्णुः ॥१२॥
तनूस्ते वाजिन् तन्वं वहन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् ।
अविह्वतो महो धरुणाय देवा दिव्यमिव ज्योतिः स्वरा मिमीयात् ॥१३॥
इन्द्रो माव वक्षति वृत्रहा यो वृत्रञ्जयः ।
स मे रथ्यं सुसारथि सो ऽश्वान् मधु मे नयात् ॥१४॥
इन्द्रो मा तेन नयतु पन्था य उभयः सुगः ।
दक्षिणा पारयाति वा मा रिषन् समरे युध: ॥१५॥
हृत्सु के परिणोनमा पारिषं तन्वं कृधि ।
यूयं तु पर्णिनं शिरमुतापर्ण रिषादिति ॥१६॥
३५
विश्वे देवा इदं हविरादित्यासः सपर्यत ।
अस्मिन् यज्ञे माव्यथिष्वमृताय हविष्कृतम् ॥१॥
अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया । विलं
ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥२॥
यस्मात् कोशादुद्भराम वेदं तस्मिन्नन्तरव दध्म एनम् ।
कृतमिष्टं ब्रह्मणी वीर्येण तेन मा देवास्तपसावतेह ॥३॥
वैश्वानरो अजीजनदग्निर्नव्यां सुमतिः ।
क्ष्मया वृधान ओजसा ॥४॥
स न: पावक दीदिह्यग्ने वैश्वानरद्युमत् ।
जमदग्निभिराहुत: ॥५॥
दिवि पृष्टो ऽरोचताग्निर्वैश्वानरो बृहन् ।
ज्योतिषा बाधते तमः ॥६॥
हरिणस्य पतत्रिणः शीर्ष्णो भेषजमाभृतम् ।
तल्लोकवद् यल्लोकवत् तदस्तु क्षेत्रियनाशनम् ॥७॥
अन्नपो ऽस्त्वन्नपतिरन्नं मंस्थ वृषा यो वाः ।
कीनाशां अन्व मंसतं अनुगावोर्ण मंसत ॥८॥
नमो ऽस्त्वायाविभ्यो निविभ्यो हृदयाय च ।
नमः क्षेत्रस्य पतये नमः क्षेत्रस्य पत्न्यै ॥९॥
तत् ते हृदयं शोचयामि हस्तेनाभिमरीमृशत् ।
केशिन् वृषण्यया तव मुष्कौ मूर्धा न शुष्यताम् ॥१०॥
अग्निष्ट्वा तपतु सूर्यस्त्वा तपतु वातस्वा युड्क्तां मरुतश्च युञ्जताम् ।
युञ्च मृगान्मरीचीरप्येतु ते मनः ॥११॥
उत्वा हन्मि निपतनादुत्वा हन्मि गृहेभ्यः ।
मा स्पृक्षथा निशदनाय साधव उतिष्ठ प्रेहि सभाम्॥१२॥
उत्तद् अस्मिदावत्यथो उल्वावतीं कुरु ।
पत्ये स्वसुराय च ॥१३॥
विबर्हो हराशयो रसं ज्ञानमति भूज्ज: ।
साकमृष्टा वि नाशय ॥१४॥
साकं वातस्य ध्राज्या साकं सूर्यस्य रश्मिभिः ।
साकं सूर्यणोद्यता सपत्नीं नाशयामसि ॥१५॥
N/A
References : N/A
Last Updated : May 13, 2021
TOP