१६
अस्थाद् द्यौरस्थात् पृथिव्यस्थाद् विश्वमिदं जगत्।
तिष्ठन्ति पर्वता इमे स्थामन्नश्वा अरंसत ॥१॥
य उदानड्यायने य उदानट् परायणे।
आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
आवृत्तोन्यावृतो ऽभ्यावर्तनमायनम् ।
अग्निश्चतस्र आवृतस्ताभिष्ट्वा तर्पयामसि ॥३॥
जातवेदो नि वर्तय शतं ते शान्त्वावृत: ।
सहस्रं त उपावृत: ताभिरेनं नि वर्तय ॥४॥
अदारसृग् भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता न: ।
मा नो विददभिभा मो अशस्तिर्मा न: प्रापद दुच्छुना द्वेष्या या ॥५॥
यो ऽद्य दैव्यो वध जिघांसन् न उपायति ।
युवं तं मित्रावरुणावस्मद्यावयतं परि ॥६॥
इतश्चामुतश्चाघं वरुण यावय ।
वि महच्छर्म यच्छ वरीयो यावया वधम् ॥७॥वरियो
अपेन्द्रो प्राची मघवन्नमित्रानपापाचो अभिभूते नुदस्व |
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥८॥
तेन भूतस्य हविषा पुनरा प्यायतामयम् ।
जायां यामस्मा आविदन् सा रसेनाभि वर्धताम् ॥९॥
अभि वर्धतां प्रजया अभि राष्ट्रेण वर्धताम् ।
इषा सहस्रवीर्याविमौ स्तामनुपक्षिती ॥१०॥
त्वष्टा जायामजनयत् त्वष्टासै त्वां पतिं दधौ ।
त्वष्टा सहस्रमायूंषि दीर्घमायुष्कृणोतु वाम् ! ॥११॥
अन्तरिक्षेण पतति विश्वा भूतावचाकशत् ।
शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ॥१२॥
अप्सु ते जन्म दिवि ते सधस्थं समुद्रं आत्मा महिमा ते पृथिव्याम् ।
शुनो दिव्योस्यैतन्महस्तस्मा एतेन हविषा जुहोमि ॥१३॥
ये त्रय: कालकाञ्जा दिवि देवा इव श्रिताः ।
तान् सर्वानह्व उतये ऽस्मा अरिष्टतातये ॥१४॥
य: पुरुषं हविरिच्छयसि श्वा दिव्यै अवीरहा ।
तं त्वाहं ब्रह्मणा नुदे पुरुषं मा परा वधी: ॥१५॥बधीः
यः पिशङ्गो अयोदंष्ट्रा: श्वा दिव्यः परिप्लवः ।
तस्याहं नामजग्रभास्मा अरिष्टतातये अयं नो जीवतादिति ॥१६॥
अयं नो नभसस्पतिः संस्फानो ऽभिरक्षतु ।
असमातिं गृहेषु न: ॥१७॥
त्वं नो नभसस्पतिरूर्जं गृहेषु धारय ।
आ पुष्टमेत्वा वसु ॥१८॥
देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो धेहि तस्य ते भक्षीमहि तस्य ते भक्तिवांसो भूयास्म स्वाहा ॥१९॥
(इति त्र्यृचनाम उनविंशतिकाण्डे चतुर्थो ऽनुवाकः )

१७
यन्तासि यच्छसे हस्तावप रक्षांसि सेधसि ।
प्रजां धनं च गृह्णान: परिहस्तो अभूदयम् ॥१॥
परिहस्त वि धारय योनिं गर्भाय कर्तवे ।
मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
यं परिहस्तमबिभरददितिः पुत्रकाम्या । रदितिः
त्वष्टा तमस्या आ बध्नाद् यथा पुत्रं सुवादिति ॥३॥
आगच्छत आगतस्य नाम गृह्णाम्यायत: ।
इन्द्रस्य वृत्रघ्नो राज्ञो वासवस्य शतक्रतो: ॥४॥
येन सूर्यां सावित्रीमश्विनोहतु: पथा ।
तेन मामब्रवीद् भगो जायामा वहतादिति ॥५॥
यस्ते अङ्कुशो वसुदानो बृहन्निन्द्र हिरण्ययः ।
तेना जनीयते जायां त्वं धेहि शतक्रतो: ॥६ ।
त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।
त्वं सूर्यस्य रश्मिषु त्वं नो वसुदा यज्ञिया ॥७॥
मेधामहं प्रथमा ब्रह्मण्वतीमृषिष्टुतां । व्रह्म
प्रपीतां ब्रह्मचारिभि: देवानामवसा वृणे ॥८॥ व्रह्म
मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।
मेधां सूर्येणोद्यतोदीराणा उत्तुष्टुमः ॥९॥
पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
आयुरस्मै सोमो वर्च आा धाद् बृहस्पति: ॥१०॥
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेह्योन: ।
रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥११॥
आशीर्ण ऊर्जमुत सुप्रजास्त्वं दक्षं दधातु द्रविणं सुवर्चसम्।
सं जयन् क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥१२॥
आयमगन् सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
आदित्या रुद्रा वसव: सचेतस: सोमस्य राज्ञो वपत प्रचेतसः ॥१३॥
येनावपत् सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदमस्यायुष्मान् दीर्घायुरयमस्तु वीरः ॥१४॥युस्मा
अदितिः शमश्रु वपत्वाप उन्दन्तु वर्चसा ।
धारयतु प्रजापति: पुन: पुन: सुवप्तवे ॥१५॥

१८
यास्ते हिरा धमनयो ऽङ्गान्यनु विष्ठिताः ।
तासां ते सर्वासां साकं निर्विषाणि ह्वयामसि ॥१॥
यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।
इमां तामद्य ते वयं विषूचीं वि वृहामसि ॥२॥
नमस्ते रुद्रास्यते नम: प्रतिहिताभ्य: ।
नमो विसृज्यमानाभ्यो नमस्त्रायताभ्यः ॥३॥
अवाची: परिमूर्धन्या यास्ते धमनयः शतम् ।
तास्ते प्रभद्यन्तां पृथगनु त्वं लोहितावटम् ॥४॥
स्यन्दतां रोदनावतीरनु त्वं लोहितावटम् ।
यथास्यामन्त्रं नरस्यन् नानुकूलमिवोदकम् ॥५॥
प्रतीचीन: सूर्य एतु प्रतीची: स्रवत: कृता: ।
अवाचीस्ते अस्न: कुल्या इयं तृणत्वोषधी: ॥६॥
इमं यवमष्टायोगै: षड्योगेभिरचर्कृषुः ।
स घा ते तन्वो रपः प्रतीचीनमपि व्ययत् ॥७॥
न्यग् वातो वाति न्यक्तपति सूर्यः ।
नीचीनमघ्न्या दुहे न्यग् भवतु ते रपः ॥८॥नग्
आप इद् वा उ भेषजीरापो अमीवचातनी: ।
आप: समुद्रार्था यती: परा वहन्तु ते रप: ॥९॥
अमी ये युधमायन्ति केतून् कृत्वानीकश: ।
इन्द्रस्तान पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥१०॥
यावतीः सिञ्च आयन्त्विनीका नियतिष्ठन् ।
इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥११॥
सं परमान् समवमानथो सं द्यामि मध्यमाम् ।
इन्द्रस्तान् पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥१२॥
संदानं वो बृहस्पतिः संदानं सविता करत् ।
संदानमिन्द्रश्चाग्निश्च संदानं भगो अश्विना ॥१३॥
यास्ते रुचो देव सूर्ये या अतो दिव्यातताः ।
ताभिर्मामद्यसर्वाभिर्मनुष्येभ्यो रुचे कृणु ॥१४॥
रुचे मा धेहि ब्रह्मसु रुचे राजसु धेहि माम् ।
रुचे विश्येषु शूद्रेषु मयि धेहि रुचेरुचम् ॥१५॥
या रुचो हिरण्यये याग्नौ याश्च सूर्ये ।
इन्द्राग्नी म एता रुचो रुचो धेहि बृहस्पते ॥१६॥

१९
अव मा पाप्मन् सृज वशी सन्मृडयासि नः।
आ मा भद्रेषु धामसु त्वं धेह्यविह्रुतम् ॥१॥
यो मा पाप्मन् न जहासि तमु त्वा जहिमो वयम्।
अन्यत्रास्मन् न्युच्यतु सहस्राक्षो ऽमर्त्य ॥२॥
पथोर्वयं व्यावर्तने निष्पाप्मन् सुवामसि।
यो नो द्वेष्टि तं गच्छ यं द्विष्मस्तं जहि ॥३॥
स वा इवासि संन्नद्धो न भोगमविदं त्वयि ।
शिरो भिनद्मि ते पाप्मन् यथा न पुनरायसि ॥४॥
इन्द्रो अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।
द्यौर्न मध्यतः पातु भूमिराज्ञी स्वस्तये ॥५॥
सूर्य अस्मान्दिवा पातु मृत्योः पाशात् स्वस्तये।
वातो नो मध्यत: पान्त्वहोरात्री स्वस्तये ॥६॥
सोमो अस्मान्दिवा पातु मृत्योः पाशाद् स्वस्तये । स्तस्त
आपो नो मध्यतः पान्तु मानो निर्ऋति रिशत् ॥७॥
सं वा चक्षुः सं हृदयं सं मनसावीवनम् ।
अस्या: सरूपवत्साया घृते होमेन सर्पिषा ॥८॥
यत् कक्षिवां संवननं पुत्रो अङ्गिरसामवेत् ।
तेन मामद्य देवा: संप्रियो समवीवनन् ॥९॥
संवननं वाङ् मनसो अथो संवननं हृद: ।
अथो भगस्य यच्छ्रान्तं तेन संवनयामि व: ॥१०॥
अहं ते मनसा मनश्चक्षुर्गृह्णामि चक्षुसा ।
एवा परि षजस्व मा यथासन् मयि ते मन: ॥११॥
आा रथस्येव चक्रे अभि आवर्ततामसौ ।
रेष्मच्छिन्नं यथा तृणं वेष्टासौ मनसा मयि ॥१२॥
परि त्वा पान्तुरसरं परि मातुः परि स्वसुः ।
परि त्वानाभ्यस्तरीभ्यो न यौध्यासरम् ॥१३॥
य इन्द्रस्य सभाधानो यस्मिन् समितिमासते ।
हिरण्या यस्य पर्णानि तस्मा अश्वत्थ ते नमः ॥१४॥
यः शाखाभिरन्तरिक्षमापूरयति निष्ट्यः । रएति
छन्दांसि यस्य पर्णानि तस्मै अश्वत्थ ते नम: ॥१५॥
यं मृगो न समाप्नोति पक्षाभ्यां शकुनिष्पथम् ।
दिवं यः सर्वास्तम्नाति तस्मा अश्वत्थ ते नमः ॥१६॥
अश्वत्थोपरि टिप्पणी

२०
ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मायं हिंसीः पितरौ वर्धमान: ।
स्योनी व्याघ्रावुत तौ शिवौ स्तामतित्वा नेषं दुरितानि विश्वा ॥१॥
व्याघ्रे अह्न्यजनिष्ठवीरो नक्षत्रजा: सर्ववीर: सुवीर: ।
स मा हिंसीः पितरौ वर्धमानस्तस्य ते देवाः प्रतिगृह्णन्तु होमम् ॥२॥
या रोहिणीर्देवपत्या प्र धेनुरिव पिन्वते ।
तत्र तिस्रो व्यष्टकाः सर्वाङ् अधि ब्रुवन्तु प्रजायै जगते च वाम् ॥३॥
यदार्द्राभ्यामणिभ्यां देवा: शक्रा अमन्तं पुरुषेण पुरुषम् ।
अत्रा पुष्यतं मिथुना सयोनि जीवां प्रजां जरदष्टिं सुतेजसा ॥४॥
हतं पतङ्गमुततर्दमाखुमश्विना भिन्तं शिरो मृणतं हनू दत: ।
यथा न: शस्यं नघवासं व्यद्धरा एवाभयं कृणुतं धान्याय नः ॥५॥
तर्द है पतङ्ग है जभ्य हा उपक्वस ।
अनदन्त इदं धान्यमहिंसन्तो अपोदित ॥६॥
तर्दापते वघापते तृष्टजम्भा शृणोत न: ।
होत्रेवा प्राशितं हविर्वृक्णजिह्वां उपाध्वम् ॥७॥
तर्दा द्यामोपजिह्वया यद् इमं दिव्यं पीयुषं प्रथमस्ति तृप्सात् ।
तं प्रत्यञ्चमर्चिषा विध्व मर्मन् ॥८॥
ये अभ्रजा ये वातजा ये दिवस्परि यज्ञिरे ।
मरिच्याः पुत्राणा वयमपिनह्याम्यास्यम् ॥९॥
ये अर्जुना ये हरिता ये कृष्णा ये च रोहिता: ।
कबन्धस्य प्रशासने शलभ्यां जम्भयामसि ॥१o॥
अन्तरिक्षेण पततमासस्यमभि मध्वम् ।
गिरिणां सानुषु सीदति तृणं कपालमुत्तम: शलभास्तद् दिशामिव ॥११॥
यथाश्वासो यथा धुरं युक्ता वहन्ति साधुया । धूरं
एवा मूत्र प्र भिद्यस्व वि वस्तेरा सं सृज ॥१२॥
विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
प्र ते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव ॥१३॥
या: समुद्रादुच्चरन्ति जरतीरुपजिह्विका: । रूप
प्रमेहणस्य ता विदुरुभयोर्मेहनस्य च ॥१४॥
शीर्ष्णोबलीरास्नोबलीरङ्गादङ्गान् मुखाद बली: ।
सर्वास्ता इन्द्राणी बलीरप माष्ट्रधि त्वच: ॥१५॥
यास्त्चचो बलयो जाता या जातास्तन्वस्परि ।
सर्वास्ता इन्द्राणी बली: शमीशाखास्वा सजात् ॥१६॥
आशमी मामकी बलीरुरोहाति जहाति माम् ।
एताविन्द्रस्य जाया बलि धानीमकृण्वत ॥१७॥
( इति त्र्यृचनाम ऊनविंशतिकाण्डे पञ्चमो अनुवाकः)

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP