संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|त्र्यृचनाम ऊनविंशति काण्डः| १ ते ५ त्र्यृचनाम ऊनविंशति काण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५६ ऊनविंशति काण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १दोषो गाय बृहद् गाय द्युमद् गाय आथर्वण ।स्तुहि देवं सवितारम् ॥१॥तमु स्तुहि यो अन्तः सिन्धुं सूनुं सत्यस्य युवानम् ।अद्रोघवाचं सुशेवम् ॥२॥स घा नो देवः सविता साविषद् वसुपतिर्वसूनि ।उभे सुष्टुती सुगातुम् ॥३॥इन्द्राय सोममृत्विजः सुनोतु नाव धावत ।स्तोतुर्यो हवं श्रृणवद्धवं च न: ॥४॥सुनोता सोमपाव्ने सोममिन्द्राय वजिणे । पाब्नेयुवा जेतेशानः स पुरुष्टुतः ॥५॥आ त्वा विशन्त्वीन्दवो वयो न वृक्षमन्धस: ।विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥६॥आरे ऽसावस्मदस्तु हेतिर्देवासो असत् ।आरे मर्त्तानामशस्तिः ॥७॥सखैव नो रातिरस्तु सखेन्द्र: सखा सविता ।सखा भगः सत्य धर्मा नो अस्तु ॥८॥अभि नो देवीरवसा महश्शर्मणा नृपत्नी: ।अच्छिन्नपत्राः सचन्ताम् ॥९॥इडे अग्निं भवं शर्वं रक्ष उपब्जदहिं । व्जदहिंबलासमुत सेधिमुग्राम् ॥१०॥आरे अस्मद् दधते दैव्यं भयं सुवीर्यम् ।मरुत: शर्म यच्छत॥११॥ईडे द्यावापृथिवी पर्वता अपश्च सूर्यमुर्वन्तरिक्षम् ।वनस्पतीनोषधीर्गा उतर्च ऋतस्य नः पतयो मृडयन्तु ॥१२॥हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये।इह सोमो वरुणो वायुरग्निर्भग उग्रा अवसे नो गमन्तु ॥१३॥पातं न इन्द्रापूषणा वरुणः पान्तु मरुत: ।अपां नपात् सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१४॥पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।पातु नो देवी सुहवा सरस्वती पात्वग्निर्ये शिवा अस्य पायवः ॥१५॥पातां नो देवाश्विना सुदंससोषासानक्तोत न उरुष्यताम् ।अपां नपादविह्वृती कयस्य तच्चिद्देवो मूर्धं नदिते शर्म यच्छ नः ॥१६॥२त्वष्टा मे दैव्यं वचः पर्यन्यो ब्रह्मणस्पतिः ।पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणे शवः ॥१॥अंशो भगो वरुणो मित्रो अर्यमादितिः पात्वंहसः ।अप तस्य द्वेषो गमेदविहृतो यावयच्छत्रुमन्तितम् ॥२॥देवत्वष्टर्वर्धय सर्वतातये धिये समुश्रिये प्रावतां नः ।उरुष्या न उरुतरः प्रयुच्छन् द्यौष्पितर्यावय दुच्छुनामितः ॥३॥यो नो वचो ऽभिरुदति सनाभिस्तं नः सोम पलिता अप यन्ति ।नीचैस्तान् वृश्चन् यथा विरुक्षन् मा ते दृशन् सूर्यमुच्चरन्तम् ॥४॥त्वयेष्टया त्वया सोम धन्वना त्वया मुष्टिघ्ना शाशद्महे वयम्।तं त्वा वृश्च य इदं न आदृशा कत्वं ह नामदण्डै रुदितं सनाभिः ॥५॥पदेन तान् पदव्य नयन्तु वधैरेनान् पितरो दोषयन्तु ।यथा न जीवाति कतमश्चनैषाम् ॥६॥येन समादितिः पथा मित्रा वा यन्त्यद्रुहः॥तेना नोविता भुवः ॥७॥यो नः सोम सुशंसिनो दु:शंसो अभिदासति ।वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥८॥यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्य: ।अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥९॥पुनरघमघकृतमेतु देवा: पुनरेनै नमस्कृतं विजानत् ।पुनः पुत्र: पितरमेतु विद्वान् हुतमुताद्यदस्यश्वमस्ति ॥१o॥येन चासौ शपति येन चैनं शपामसि ।उभौ सं वृज्यतौ तस्मादन्तिकाद्धेतिमस्यताम् ॥११॥ये पार्थिवास: शपथा य उरावन्तरिक्षे ।ये वातस्य प्रभर्मणि तेभिष्टं वर्त्तयामसि यो ऽस्मान् द्वेष्टि यं वयम् दिष्म:॥१२॥योस्मान् परि मा सृप: कुल्लिपयानि बिभ्रत: ।उद्देवस्तेषां वृश्चतु मूलमुर्वावा यथा ॥१३॥यो देवा अघधामघमन्यस्मिन्नशे संगति ।भारो अघस्य दुःसह प्रत्यक् कर्त्तारमृच्छतु ॥१४॥पुनरेवाघधामघं द्युम्नमिवैतु वर्षतु।आदित्या दुर्यमाहिषी महीं सिन्धोरिवावनिः ॥१५॥३शश्वद् विद्युत् क्रीयमाणा प्रतीचीन हि पप्त च ।प्रत्यक् कर्तारमृच्छतु ॥१॥शश्वन्तमिच्छसदानमन्यस्मा ईषूर्दिहानम् ।प्रतीचीः शरुर्ऋच्छतु ॥२॥यदेतद्भूरिशासद प्रतीचीनमुपोहसे ।विषादिव विषमद्धि तत् ॥३॥नमस्ते प्रवतो नपाद्यतस्तप: समूहसे ।मृडया नस्तनूभ्य: शं नस्तोकेभ्यष्कृधि ॥४॥प्रवतो नपान्नमो अस्तु तुभ्यं नमस्ते हेतये तपुष्यै: ।विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर्निहितासि नाभिः ॥५॥यां त्वा देवा अजनयन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।सा नो मृड विदथे गृणाना मित्रस्य च वरुणस्य प्रसृष्टौ ॥६॥यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।शर्म यच्छाथ सप्रथाः ॥७॥सुमृडत सुषूदत मृडया नो अघ्नाभ्यः ।स्तोकाय तन्वे च ॥८॥नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥९॥यो ऽस्मान् ब्रह्मणस्पते देवो अभिदासति ।सर्वं तं रीरधासि न: ॥१०॥येभिः सोमः साहन्त्यासुरान् रन्धयासि ।तेभिर्नोविता भुव: ॥११॥येन देवा असुराणामोजांस्यवृष्णीध्वम् ।तेभिर्नो अधि वोचत ॥१२॥उदेनमुत्तरं नयाग्ने घृतेभिराहुत: ।समेनं वर्चसा सृज देवानां भागधा असत् ॥१३॥इन्द्रेमं प्रतरं कृधि सजातानामसद् वशी ।रायस्पोषेण सं सृज प्रजया च बहुं कृधि ॥१४॥यस्य कृण्मो गृहे हविस्तमग्ने वर्धया त्वम् ।तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥१५॥४ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।अजस्रं घर्ममीमहे ॥१॥स इदं प्रति यः पृथग् यज्ञस्य स्वरुत्तिरन् ।ऋतूंरुत् सूजते वशी ॥२॥अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य !सम्राडेको वि राजति ॥३॥परि द्यामिव सूर्योहीना जनिमागमम् ।रात्री जगदिवान्यद्धंसादवारीरिमं विषम् ॥४॥यद् ब्रह्मभिर्यदृषिभिर्यद् देवैरुदितं पुरा ।यद् भूतं भव्यमासन्वत् तेन ते वारये विषम् ॥५॥मधुना पृञ्चे नद्यः पर्वता गिरयो मधु ।मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥६॥यथेयमूर्वी पृथिवी दाधार विष्टितं जगत् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥७॥यथेयमूर्वी पृथिवी दाधारेमान् वनस्पतीन् ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥८॥यथेयमूर्वी पृथिवी दाधार पर्वताङ् अपः ।एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥९॥सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।वरेण्यक्रतुरहमपो देवीरुप ब्रुवे ॥१०॥ओता आप: कर्मण्या मुञ्चन्त्वित: प्रणीतये ।सद्यो भवन्त्वेतवे ॥११॥देवस्य सवितुः सवे कर्म कृण्वन्ति मानुषा: ।शं नो भवन्त्वप ओषधीरिमा: ॥१२॥शतस्य ते धमनीनां सहस्रस्य हिराणाम् ।अस्थुर्मध्यमा याः साकमन्ता अरंसत ॥१३॥परि वः सिकतामयी धनूस्थिराश्चिदस्थिरम् ।तिष्ठतेलयता सु कम् ॥१४॥अमूर्या यन्ति यामयः सर्वा लोहितवाससः ।अभ्रातर इव योषितस्तिष्ठन्ति हतवर्चसः ॥१५॥तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।कनिष्ठिका च तिष्ठाति तिष्ठादिद्धमनिर्मही ॥१६॥इत्यृचनाम ऊनविंशतिकाण्डे प्रथमोऽनुवाकः.५नमो देववधेभ्यो नमो राजवधेभ्यः ।अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमो ऽस्तु ते ॥१॥नमस्ते अधिवाकाय परावाकाय ते नम: ।सुमत्यै मृत्यो ते नमो दुर्मत्यै त इदं नमः ॥२ ॥ईदंनमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।मूलेभ्यो मृत्यो ते नमो ब्राह्मणेभ्य ईदं नमः ॥३॥नव च या नवतिश्च संयन्ति मन्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥४॥ईतसप्त च या: सप्ततिश्च संयन्ति स्कन्ध्या अभि ।इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥५॥ईतपञ्च च याः पञ्चाशच्च संयन्ति ग्रैव्या अभि ।इतस्ता: सर्वा नश्यन्तु वाका अपचितामिव ॥६॥ईतआबयो अनाबयो रसस्त उग्र आबयो ।आ ते करम्भमद् इमहि ॥७॥स हि न त्वमसि यस्त्वमात्मानमावय: । माबबभ्रुश्च बभ्रुकर्णश्च नीलागलसालाः शिवः पश्य ॥८॥तौ विलिकेवेलयावायमैलब ऐलयीत् ।वीहि स्वामाहुतिं जुषाणो मनसा स्वाहा ॥९॥स्वाहा मनसा यदिदं कृणोमि यस्यास्त आसनि जुहोमि घोरे ।एषां बद्धानामवसर्जनाय कम् ॥१o॥भूमिरिति त्वाभिप्रमन्वते जना निर्ऋतिरिति त्वाहं परि वेद विश्वत: ।भूते हविष्मत्यस्यैष ते भागस्तेन ते विधेयं स्वाहा ॥११॥एवो ष्वस्मत्त्वं निर्ऋते विश्ववारे अयस्मयान् प्र मुमुग्धि पाशान् ।यमेन त्वं यम्या संविदानो यो ऽस्मान् द्वेष्टि यं वयं द्विष्म स्तस्मिन् तान् पाशान् प्रति मुञ्चन्तु सर्वान् ॥१२॥उत्तमो अस्योषधीनां तव वृक्षा उपस्तय: ।उपस्तिरस्माकं भूयाद् यो अस्माङ् अभिदासति ॥१३॥सबन्धुश्चासबन्धुश्च यो अस्माङ् अभिदासति।सबन्धून् सर्वांस्तीर्त्वाहं भूयासमुत्तमः ॥१४॥बन्धुयथा सोम ओषधीनामुत्तमं हविरुच्यते ।एवा त्वमिव वृक्षाणामहं भूयासमुत्तमः ॥१५॥ N/A References : N/A Last Updated : May 13, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP