प्रथमकाण्ड - १०७ ते ११२

पैप्पलादसंहिता


१०७
वातस्य नु महिमा रथस्यारुजन्नेति स्तनयन्नस्य घोषः ।
दिवस्पृगेत्यरुणानि कृण्वन्नथो एति पृथिव्या रेणुमस्यन् ॥१॥
सं प्रेरते अनुवातस्य विष्ठामैनं गच्छन्ति समनेव योषा: ।
ताभिर्विद्वान् सरथं देव ईयते पतिविश्वस्य भुवनस्य गोपाः ॥२॥
आत्मा देवानां भुवनस्य गोपा यथावशं चरति देव एषः ।
घोष इदस्य श्रयते न रूपं तस्मै देवाय हविषा विधेम ॥३॥
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाह: ।
अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव ॥४॥
अन्तरिक्षे पतयन्तं वात त्वामाशुमाशुभि: ।
पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥५॥
उपत्रिकं संचविचं त्रिर्यमं चतुरेकजम् ।
तं मातरिश्वानं देवं दिवो देवा अवासृजन ॥६॥

१०८
अप न्यधुः पौरुषेयं वधं मदिन्द्राग्नी धाता सविता बृहस्पतिः।
सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।
प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
यत् तनुष्वनह्यन्त देवा द्विराजयोधिनः ।
इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
वर्म मे विश्वे देवाः क्रन्मा मा प्रापत् प्रतीचिका ॥४॥

१०९
सोमारुद्रा वि बृहतं विषूचीममीवा या नो गयमाविवेश ।
बाधेथां द्वेषो निर्ऋतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् ॥१॥
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ।
प्र णो मुञ्चतं दुरितादवद्याद् गोपायतं नः सुमनस्यमानौ ॥२॥
सोमारुद्रा धारयेथां वसुवीर्यं प्र वामिष्ट्वा वरमश्नवातै ।
युवं नो धत्तमिह भेषजानि प्र यच्छतं वृषणा जेत्वानि ॥३॥
सोमारुद्रा युवमस्मास्वन्तस्तनूषु विश्वा भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं किञ्चिदेनो अङ्गेषु बद्धमुत यद् दृषत् ते ॥४॥

११०
घृतस्य जूतिः समना सदेवाः संवत्सरं हविषा वर्धयन्ती ।
श्रोत्रं चक्षुः प्राणो ऽच्छिन्नो नो अस्त्वच्छिन्ना वयमायुषो वर्चसः ॥१॥
उपास्मान् प्राणो ह्वयतामुप वयं प्राणं हवामहे ।
वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधर्ता ॥२॥
वर्चसो द्यावापृथिवी संग्रहणी बभूवतुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम।
यशसा गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥
व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
पुर: कृणुध्वमायसीरधृष्टा मा व: सुस्रोच्चमसो दृंहता तम् ॥४॥

१११
न्यग्वातो वाति न्यक्तपति सूर्यः ।
नीचीनमघ्न्या दुहे न्यग् भवतु ते विषम् ॥१॥
नि गावो गोष्ठे असदन्नि वत्सा अधि तन्त्याम् ।
न्यूर्मयो नदीनां नि शुष्मा अरसानाम् ॥२॥
अहीनामहिकानां सं हि शीर्षाण्यग्रभम्।
हृदं सहस्रबाहुः परेत्य व्यनिजमहेर्विषम् ॥३॥
तुराणामतुराणां विशामुरुक्षितामुत ।
कृणोमि तुभ्यं भेषजमाहेयमरसं विषम् ॥४॥

११२
इमा ऊरू सवासिनौ वर्चसाञ्जे अहं मम ।
नाम होनयोर्वेद यथा न बहवो विदुः ॥१॥
वर्चसा पीना पृथिवी सूर्येणोत्तभिता द्यौः ।
त्विषिं यां पश्यामो वाते तां नि यच्छे ममोर्वो: ॥२॥
वेद वै वां नामधेयं जिगीवाङ् अपराजितम् ।
प्रजां च बह्वीमा शासे राष्ट्रं चेन्द्राभिरक्षितम् ॥३॥
विदुषी वां नामधेयमश्विना सारघं मधु ।
सूर्य इव चक्षुर्भूतानां प्रजां धारयतं मयि रयिं धारयतं मयि ॥४॥
शतपाशां वि तनोम्यूरुभ्यां जघनेन च ।
तस्मिन् यो बध्यते बन्धे स मे अस्त्वन्यक्षकः ॥५॥
(इति चतुर्चनामप्रथमकाण्डे द्वाविंशोऽनुवाक:)
इत्यथर्ववेदे पैप्पलाद संहितायां चतुर्चनामप्रथम: काण्डः समाप्तः

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP