संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| २१ ते २५ चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१नासन्न सन् स्वयं स्रसन्नसतीभ्यो असत्तराः । सेहोररसतरा लवणाद्विक्लेदीयसी: ॥१॥अपचित: प्र पततः सुपर्णो वसतेरिव ।सूर्यः कृणोतु भेषजं चन्द्रमा वोपोच्छतु ॥२॥एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।सर्वासामग्रभं नामावीरघ्नीरपेतन ॥३॥असूतिका रामायण्यपचित् प्र पतिष्यति ।ग्लौरित: प्र पतिष्यति स गलन्तो न शिष्यति ॥४॥अपेतो अपचित्वरीरिन्द्रः पूषा च चिक्यतुः ।अपेत्वस्य ग्रीवाभ्यो अप पद्भ्यां विजामतः ॥५॥२२आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्य: । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥य आशानामाशापालाश्चत्वार स्थन देवाः ।ते नो निर्ऋत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥अश्लोणस्ते हविषा विधेयमस्रामस्ते घृतेना जुहोमि ।य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत् ॥३॥स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्य उत पूरुषेभ्य: ।विश्वं सुभूतं सुविदत्रमस्तु नो ज्योगेव दृशेम सूर्यम् ॥४॥२३इदं जनासो विदथं महद् ब्रह्म वदिष्यति । न तत् पृथिव्यां नो दिवि यतः प्राणन्ति वीरुधः ॥१॥अन्तरिक्षे समहासां स्थानं श्रान्तसदामवि।आस्थानमस्य भूतस्य विदुष्टद्वेधसो जनाः ॥२॥यद्रोदसी रेजमाने भूमिश्च निरतक्षताम् ।आर्द्रं तदद्य सर्वदा भिदुरस्येव वर्तसी ॥३॥विश्वमन्याभि ववार विश्वमन्यस्यामधि श्रितम् ।दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥२४सं सं स्रवन्तु सिन्धवः सं वाता दिव्या उत । तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥१॥ये संस्रावा: संस्रवन्ति क्षीरस्य चोदकस्य च ।तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥२॥ये नदीभ्यः संस्रवन्त्युत्सासः सदमक्षिताः ।तेभिर्मे सर्वै: संस्रावैर्धनं सं स्रावयामसि ॥३॥इदं हव्या उपेतनेदं संस्रावणा उत ।इहैतु सर्वो यः पशुरस्य वर्धयता रयिम् ॥४॥२५हिरण्यवर्ण्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।या अग्निं गर्भ दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।घृतश्चुतः शुचयो या: पावकास्ता न आपः शं स्योना भवन्तु ॥४॥(इति चतुर्चनामप्रथमकाण्डे पञ्चमो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP