संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| ५६ ते ६० चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - ५६ ते ६० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५६ ते ६० Translation - भाषांतर प्रेता जयता नर उग्रा व: सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्वनाधृष्या यथासथ ॥१॥उद्धर्षन्तां मघवन्नायुधान्युत सत्वनां मामकानां मनांसि ।उद्धर्षन्तां वाजिनां वाजिनान्युद्वीराणां जयतामेतु घोष: ॥२॥पृथग् घोषा उलुलय: केतुमन्त उदीरताम् ।देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥३॥अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।जयामित्रान् प्र पद्यस्व मामीषां कञ्चनोच्छिषः ॥४॥५७दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥१॥स्रक्त्योसि प्रतिसरोसि पुन:सरोसि प्रत्यभिचरणोसि।आप्नुहि श्रेयांसमति समं क्राम ॥२॥प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्म: ।आप्नुहि श्रेयांसमति समं क्राम ॥३॥सूरिरसि वर्चाधास्तनूपानायुष्यः कृत्यादूषणः ।आप्नुहि श्रेयांसमति समं क्राम ॥४॥शुक्रोसि भ्राजोसि ज्योतिरसि स्वरसि ।आप्नुहि श्रेयांसमति समं क्राम ॥५॥५८विष्कन्धस्य काबवस्य कर्दमस्थोलूक्या: ।अपस्थानस्थ कृत्या यास्तेषां त्वं खृगले जहि ॥१॥प्र मृणीह्युपहत्यां कर्दमं नीलशाक्यम् ।अधा सारमिव दारुण आयुष्कृणोम्यन्तरम् ॥२॥विविद्धस्यावतृण्णस्य हृदस्य चाहृदस्य च ।त्रिपर्णी विश्वभेषजीदं कृणोतु भेषजम् ॥३॥काबवस्य विष्कन्धस्यापस्थापनभेषजम् ।इदं कृणोमि भेषजं यथायमगदोसति ॥४॥५९यस्मादङ्गात् संसुस्राव यद् बभूव गलन्त्यशः ।गावो वत्समिव जानानास्तत् परैतु यथायथम् ॥१॥ना सृगस्ति पतङ्गस्य तर्दस्य मशकाद्याः ।वेणोः पुतुद्रोर्नास्त्यसृङ् मास्य ग्लौर्मापचिद्भुवत् ॥२॥अहं वेद यथासिथ गुर्विका नाम वा असि ।अमुं त्वं तमितो गच्छ यमहं द्वेष्मि पुरुषम् ॥३॥तस्यापि मध्य आ सीद नील ग्रीवासु सीदता ।वातस्यानु प्रवां मशकस्यानु संविदम् ॥४॥प्रेतो यन्त्वग्रुवो निरितो यन्त्वग्रुवः ।अधराचीमितः परः ॥५॥प्राहं ग्लावमध्मासं निरहं ग्लावमध्मासम् ।अधराचीरित: पर: ॥६॥६०अभि त्वामहमोजसेन्द्रो दस्यूनिवाभुवम् ।सपत्नि नश्यतादितो दूरं गच्छाध्योकसः ॥१॥सासहा इदहं पतिं सासहै श्वशुरा उभौ ।अथो सपत्नीं सासहै यथा नश्यात्योकसः ॥२॥अभिभूरहमागमं विश्वकर्मा महावदात् ।अहं मित्रस्य कल्पन् येषु गृहेषु दुष्टरात् ॥३॥उतिष्ठ मम वा इदं न तवेहापि किं चन ।माञ्चैव पश्यन्नायत्यमुञ्च दिवि सूर्यम् ॥४॥(इति चतुर्चनाम प्रथमकाण्डे द्वादशो अनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP