संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|वाग्भटसंहिता|निदानस्थानम्| एकादशोऽध्यायः निदानस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः निदानस्थानम् - एकादशोऽध्यायः हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता. Tags : Ayurvedsamhitasanskritvagbhat samhitaआयुर्वेदवाग्भट संहितासंस्कृतसंहिता एकादशोऽध्यायः Translation - भाषांतर अथातो विद्र धिवृद्धिगुल्मनिदानं व्याख्यास्यामःइति ह स्माहुरात्रेयादयो महर्षयःभुक्तैः पर्युषितात्युष्ण रूक्षशुष्कविदाहिभिःजिह्मशय्याविचेष्टाभिस्तैस्तैश्चा सृक्प्रदूषणैः ॥१॥दुष्टत्वङ्मांसमेदोस्थिस्नाय्व सृक्कण्डराश्रयःयः शोफो बहिरन्तर्वा महामूलो महारुजः ॥२॥वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्र धिःदोषैः पृथक्समुदितैः शोणितेन क्षतेन च ॥३॥बाह्योऽत्र तत्रतत्राङ्गे दारुणो ग्रथितोन्नतःआन्तरो दारुणतरो गम्भीरो गुल्मवद्घनः ॥४॥वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्नाभिबस्तियकृत्प्लीह क्लोमहृत्कुक्षिवङ्क्षणे ॥५॥स्याद्वृक्कयोरपाने च वातात्तत्रातितीव्ररुक्श्यावारुणश्चिरोरत्थानपाको विषमसंस्थितिः ॥६॥व्यधच्छेदभ्रमानाहस्पन्द सर्पणशब्दवान्रक्तताम्रासितः पित्तात्तृण्मोहज्वरदाहवान् ॥७॥क्षिप्रोत्थानप्रपाकश्च पाण्डुः कण्डूयुतः कफात्सोत्क्लेशशीतकस्तम्भजृम्भा रोचकगौरवः ॥८॥चिरोत्थानविपाकश्च सङ्कीर्णः सन्निपाततःसामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम् ॥९॥कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरःपित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथाऽन्तरः ॥१०॥शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणःक्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन् ॥११॥पित्तासृग्लक्षणं कुर्याद्विद्र धिं भूर्युपद्र वम्तेषूपद्र वभेदश्च स्मृतोऽधिष्ठानभेदतः ॥१२॥नाभ्यां हिध्मा भयेद्बस्तौ मूत्रं कृच्छ्रेण पूति चश्वासो यकृति रोधस्तु प्लीह्न्युच्छ्वासस्य तृट् पुनः ॥१३॥गलग्रहश्च क्लोम्नि स्यात्सर्वाङ्गप्रग्रहो हृदिप्रमोहस्तमकः कासो हृदये घट्टनं व्यथा ॥१४॥कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म चसक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः ॥१५॥पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्आमपक्वविदग्धत्वं तेषां शोफवदादिशेत् ॥१६॥नाभेरूर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात्गुदास्यान्नाभिजो विद्याद्दोषं क्लेदाच्च विद्र धौ ॥१७॥यथास्वं व्रणवत् तत्र विवर्ज्यः सन्निपातजःपक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा ॥१८॥पक्वश्चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्र वान्वितःएवमेव स्तनसिरा विवृताः प्राप्य योषिताम् ॥१९॥सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर्घनःस्तने सदुग्धेऽदुग्धे वा बाह्यविद्र धिलक्षणः ॥२०॥नाडीनां सूक्ष्मवक्त्रत्वात्कन्यानां न स जायतेइति विद्र धिनिदानम्अथ वृद्धिनिदानम्क्रुद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन् ॥२१॥मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीःप्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः ॥२२॥दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदःमूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम् ॥२३॥वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ॥२४॥कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक्कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः ॥२५॥कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमःमूत्रधारणशीलस्य मूत्रजः स तु गच्छतः ॥२६॥अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुःमूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः ॥२७॥वातकोपिभिराहारैः शीततोयावगाहनैःधारणेरणभाराध्वविषमाङ्ग प्रवर्तनैः ॥२८॥क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रा न्त्रावयवं यदापवनो विगुणीकृत्य स्वनिवेशादधो नयेत् ॥२९॥कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदाउपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुःप्रपीडितोऽन्त स्वनवान् प्रयातिप्रध्मापयन्नेति पुनश्च मुक्तः ॥३०॥अन्त्रवृद्धिरसाध्योऽय वातवृद्धिसमाकृतिः ॥३१॥इति वृद्धिनिदानम्अथ गुल्मनिदानम्रूक्षकृष्णारुणसिरातन्तु जालगवाक्षितःगुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः ॥३२॥आर्तवस्य च दोषेण नरीणां जायतेऽष्टमःज्वरच्छर्द्यतिसाराद्यैर्वमनाद्यैश्च कर्मभिः ॥३३॥कर्शितो वातलान्यत्ति शीतं वाऽम्बु बुभुक्षितःयः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम् ॥३४॥सेवते देहसङ्क्षोभि छर्दिं वा समुदीरयेत्अनुदीर्णामुदीर्णान्वा वातादीन्न विमुञ्चति ॥३५॥स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवतेशुद्धो वाऽशुविदाहीनि भजते स्यन्दनानि वा ॥३६॥वातोल्बणास्तस्य मलाः पृथक् क्रुद्धा द्विशोऽथवासर्वे वा रक्तयुक्ता वा महास्रोतोनुशायिनः ॥३७॥ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम्स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम् ॥३८॥कर्शनात्कफविट्पित्तैर्मार्गस्यावरणेन वावायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः ॥३९॥स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रयेपिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः ॥४०॥गुल्म इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयःवातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम् ॥४१॥व्यधः सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुःस्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता ॥४२॥रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्य चअनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः ॥४३॥पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यतेपित्ताद्दाहोऽम्लको मूर्च्छाविड्भेदस्वेदतृड्ज्वराः ॥४४॥हारिद्र त्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहःदूयते दीप्यते सोष्मा स्वस्थानं दहतीव च ॥४५॥कफात्स्तैमित्यमरुचिः सदनं शिशिरज्वरःपीनसालस्यहृल्लासकासशुक्लत्वगादिताः ॥४६॥गुल्मोऽवगाढः कठिनो गुरुः सुप्तः स्थिरोऽल्परुक्स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः ॥४७॥प्रायः त्रयस्तु द्वन्द्वोत्था गुल्माः संसृष्टलक्षणाःसर्वजस्तीव्ररुग्दाहः शीघ्रपाकी घनोन्नतः ॥४८॥सोऽसाध्यो रक्तगुल्मस्तु स्त्रिया एव प्रजायतेऋतौ वा नवसूता वा यदि वा योनिरोगिणी ॥४९॥सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणःनिरुणर्द्ध्य्तावं योन्यां प्रतिमासमवस्थितम् ॥५०॥कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति चहृल्लासदौहृदस्तन्यदर्शनक्षामतादिकम् ॥५१॥क्रमेण वायुसंसर्गात्पित्तयोनितया च तत्शोणितं कुरुते तस्या वातपित्तोत्थगुल्मजान् ॥५२॥रुक्स्तम्भदाहातीसारतृड् ज्वरादीनुपद्र वान्गर्भाशये च सुतरां शूलं दुष्टासृगाश्रये ॥५३॥योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाःन चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान् ॥५४॥पिण्डीभूतः स एवास्याः कदाचित्स्पन्दते चिरात्न चास्या वर्द्धते कुक्षिर्गुल्म एव तु वर्द्धते ॥५५॥स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सःपाकं चिरेण भजते नैव वा विद्र धिः पुनः ॥५६॥पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयत्वतःअतःशीघ्रविदाहित्वाद्विद्र धिः सोऽभिधीयते ॥५७॥गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाःअग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम् ॥५८॥अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्वैवर्ण्यमवकाशस्य बहिरुन्नतताऽधिकम् ॥५९॥इति गुल्मनिदानम्साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते ॥६०॥घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतःआनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तदाकृतिः ॥६१॥पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजः प्रयान्तूनी प्रतूनी तु भवेत्स एवातो विपर्यये ॥६२॥उद्गारबाहुल्य पुरीषबन्ध तृप्त्यक्षमत्वान्त्र विकूजनानिआटोपमाध्मान मपक्तिशक्ति मासन्नगुल्मस्य वदन्ति चिह्नम् ॥६३॥इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयंसहितायां तृतीये निदानस्थानेविद्र धिवृद्धिगुल्मनिदानं नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : March 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP