निदानस्थानम् - द्वादशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथात उदरनिदानं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ॥१॥
ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः
प्राणाग्न्यपानान् सन्दूष्य कुर्युस्त्वङ्मांससन्धिगाः ॥२॥
आध्माप्य कुक्षिमुदरम् अष्टधा तच्च भिद्यते
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ॥३॥
तेनार्ताः शुष्कताल्वोष्ठाः शूनपादकरोदराः
नष्टचेष्टाबलाहाराः कृशाः प्रध्मातकुक्षयः ॥४॥
स्युः प्रेतरूपाः पुरुषाः भाविनस्तस्य लक्षणम्
क्षुन्नाशोऽन्न चिरात्सर्वं सविदाहं च पच्यते ॥५॥
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते ॥६॥
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः
रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि ॥७॥
राजीजन्म वलीनाशो जठरे जठरेषु तु
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता ॥८॥
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः
सर्वं त्वतोयमरुणमसोफं नातिभारिकम् ॥९॥
गवाक्षितं सिराजालैः सदा गुडगुडायते
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥१०॥
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः
सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम् ॥११॥
नातिमन्दोऽनलो लौल्यं न च स्याद्विरसं मुखम्
तत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु ॥१२॥
कुक्षिपार्श्वोदरकटी पृष्ठरुक् पर्वभेदनम्
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः ॥१३॥
श्यावारुणत्वगादित्व मकस्माद्वृद्धिह्रासवत्
सतोदभेदमुदरं तनुकृष्णसिराततम् ॥१४॥
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः ॥१५॥
पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ॥१६॥
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ॥१७॥
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्
निद्रो त्क्लेशारुचिश्वासकासशुक्लत्वगादिता ॥१८॥
उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत्
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम् ॥१९॥
त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः ॥२०॥
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्च्छाभ्रमान्वितम्
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम् ॥२१॥
बाधते तच्च सुतरां शीतवाताभ्रदर्शने
अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः ॥२२॥
अतिव्यवायकर्माध्व वमनव्याधिकर्शनैः
वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्द्धते ॥२३॥
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्
सोऽष्ठीलेवातिकठिनः प्राक् ततः कूर्मपृष्ठवत् ॥२४॥
क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्
श्वासकासपिपासास्यवैर स्याध्मानरुग्ज्वरैः ॥२५॥
पाण्डुत्वमूर्च्छाछर्दीभिर्दाहमोहैश्च संयुतम्
अरुणाभं विवर्णं वा नीलहारिद्र राजिमत् ॥२६॥
उदावर्तरुजाना हैर्मोहतृड्दहनज्वरैः
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ॥२७॥
प्लीहवद्दक्षिणात्पार्श्वात् कुर्याद्यकृदपि च्युतम्
पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे ॥२८॥
दुर्नामभिरुदावर्तैरन्यैर्वाऽन्त्रो पलोपिभिः
वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः ॥२९॥
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक् ॥३०॥
मलसङ्गोऽरुचिश्च्छर्दिरुदरं मूढमारुतम्
स्थिरं नीलारुणसिराराजिनद्धमराजि वा ॥३१॥
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते
अस्थ्यादिशल्यैः सान्नैश्चेद्भुक्तैरत्यशनेन वा ॥३२॥
भिद्यते पच्यते वाऽन्त्र तच्छिद्रै श्च स्रवन्बहिः
आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः ॥३३॥
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः
शेषश्चापूर्य जठरं जठरं घोरमावहेत् ॥३४॥
वर्द्धयेत्तदधो नाभेराशु चैति जलात्मताम्
उद्रि क्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः ॥३५॥
छिद्रो दरमिदं प्राहुः परिस्रावीति चापरे
प्रवृत्तस्नेहपानादेः सहसाऽमाम्बुपायिनः ॥३६॥
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा
रुद्ध्वाऽम्बुमार्गाननिलः कफश्च जलमूर्च्छितः ॥३७॥
वर्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम् ॥३८॥
कासश्वासारुचियुतं नानावर्णसिराततम्
तोयपूर्णदृतिस्पर्श शब्दप्रक्षोभवेपथु ॥३९॥
दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभि तत्
उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः ॥४०॥
पाकाद्द्र वा द्र वीकुर्युः सन्धिस्रोतोमुखान्यपि
स्वेदश्च बाह्यस्रोतःसु विहतस्तिर्यगास्थितः ॥४१॥
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत् ॥४२॥
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति
तदनूदकजन्मास्मिन्कुक्षिवृद्धिस्ततोऽधिकम् ॥४३॥
सिरान्तर्धानमुदकजठरोक्तं च लक्षणम्
वातपित्तकफप्लीहसन्निपातोदकोदरम् ॥४४॥
कृच्छ्रं यथोत्तरम् पक्षात्परं प्रायोऽपरे हतः
सर्वं च जातसलिलं रिष्टोक्तोपद्र वान्वितम् ॥४५॥
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम्
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥४६॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
तृतीये निदानस्थानेउदरनिदानं नाम द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP