स्वर्गखण्डः - अध्यायः ४०
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
एवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः
एषामन्यतमा संगान्मुक्तो भवति मानवः ॥१॥
तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम्
पापराशिनिपाताय नान्योपायः कलौयुगे ॥२॥
वासं कुर्यामहं तीर्थे तीर्थस्पर्शमहं तथा
एवं योऽनुदिनं ब्रूते स याति परमं महत् ॥३॥
पापानि तस्य नश्यंति तीर्थालापनमात्रतः
तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ॥४॥
तीर्थानां सेवनादेव सेवितो भवति प्रभुः
नारायणो जगत्कर्ता नास्ति तीर्थात्परं पदम् ॥५॥
ब्राह्मणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः
विष्णुश्च परमेशानः सेव्य एव सदा नृभिः ॥६॥
ब्राह्मणानां विशेषेण सेवनं मुनिपुंगवाः
सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ॥७॥
तस्माद्द्विजपदं साक्षात्सर्वतीर्थमयं शुभम्
भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ॥८॥
अश्वत्थस्य तुलस्याश्च गवां कुर्यात्प्रदक्षिणम्
सर्वतीर्थफलंप्राप्य विष्णुलोके महीयते ॥९॥
तस्माद्दुष्कृतकर्माणि नाशयेत्तीर्थसेवनात्
अन्यथा नरकं याति कर्म्मभोगाद्धि शाम्यति ॥१०॥
पापिनां नरके वासः सुकृती स्वर्गमश्नुते
तस्मात्पुण्यं निषेवेत तीर्थं खलु विचक्षणः ॥११॥
ऋषय ऊचुः-
श्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत
इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम् ॥१२॥
प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया
विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति ॥१३॥
सूत उवाच-
साधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः
हंताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् ॥१४॥
मार्कंडेयेन कथितं यत्पुरा पांडुसूनवे
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते ॥१५॥
एतस्मिन्नंतरे राजा कुंतीपुत्रो युधिष्ठिरः
भ्रातृशोकेन संतप्तः चिंतयंस्तु पुनः पुनः ॥१६॥
आसीद्दुर्योधनो राजा एकादशचमूपतिः
अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः ॥१७॥
वासुदेवं समाश्रित्य पंचशेषास्तु पांडवाः
कथं द्रोणं च भीष्मं च कर्णं चैव महाबलम् ॥१८॥
दुर्योधनं च राजानं भ्रातृपुत्रसमन्वितम्
राजानो निहताः सर्वे ये चान्ये शूरमानिनः ॥१९॥
विना राज्येन कर्तव्यं किं भोगैर्जीवितेनवा
धिक्कष्टमिति संचिंत्य राजा विह्वलतां गतः ॥२०॥
निश्चेष्टोऽथ निरुत्साहः किं चित्तिष्ठत्यधोमुखः
लब्धसंज्ञो यदा राजा चिंतयानः पुनः पुनः ॥२१॥
कं चरे विधिना योगं नियमं तीर्थमेव वा
येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् ॥२२॥
यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम्
कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् ॥२३॥
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम्
व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः ॥२४॥
एवं वैक्लव्यमापन्नो धर्मपुत्रो युधिष्ठिरः
रुदंतः पांडवाः सर्वे भ्रातृशोकपरिप्लुताः ॥२५॥
ये च तत्र महात्मानः समेताः पांडवाश्रिताः
कुंती च द्रौपदी चैव ये च तत्र समागताः ॥२६॥
भूमौ निपतिताः सर्वे रोदमानाः समंततः
वाराणस्यां तु मार्कंडस्तेन ज्ञातो युधिष्ठरः ॥२७॥
यथाविक्लवमापन्नो रोदमानः सुदुःखितः
अचिरेणैव कालेन मार्कंडस्तु महातपाः ॥२८॥
हस्तिनापुर संप्राप्तो राजद्वारे स तिष्ठति
द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् ॥२९॥
त्वां द्रष्टुकामो मार्कंडो द्वारे तिष्ठत्यसौ मुनिः
त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परः ॥३०॥
युधिष्ठिर उवाच-
स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने
अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ॥३१॥
अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने
सिंहासन उपस्थाप्य पादशौचार्चनादिभिः ॥३२॥
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्
ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो ॥३३॥
आख्याहि त्वरितो राजन्किमर्थं त्वरितं त्वया
केन वा विक्लवीभूतः कथयस्व ममाग्रतः ॥३४॥
युधिष्ठिर उवाच-
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने
एतत्सर्वं विदित्वा तु भगवानिह चागतः ॥३५॥
मार्कंडेय उवाच-
शृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः
नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥३६॥
किं पुना राजधर्मेण क्षत्रियस्य विशेषतः
तदेवं हृदये कृत्वा तस्मात्पापं न चिंतयेत् ॥३७॥
ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम्
पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम्
कथयस्व समासेन मुच्येऽहं येन किल्बिषात् ॥३८॥
मार्कंडेय उवाच-
शृणु राजन्महाभाग यन्मां पृच्छसि भारत
एवं सांख्यं च योगं च तीर्थं चैव युधिष्ठिर ॥३९॥
किं पुनर्ब्राह्मणैः पुण्यैः कीर्तितं वै पुरा विभो
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥४०॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP