संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः| अध्यायः ३१ स्वर्गखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ स्वर्गखण्डः - अध्यायः ३१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३१ Translation - भाषांतर नारदउवाच-ततो हृष्टमनाः सोऽथ दूतं पप्रच्छ तं पथिसंदेहं हृदि कृत्वा तु विस्मयं परमं गतःविचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ॥१॥विकुंडल उवाच-हे दूतवर पृच्छामि संशयं त्वामहं परम्आवां जातौ कुले तुल्ये तुल्यं कर्म तथा कृतम् ॥२॥दुर्मृत्युरपि तुल्योभूत्तुल्यो दृष्टो यमस्तथाकथं स नरके क्षिप्तस्तुल्यकर्म्मा ममाग्रजः ॥३॥ममाभवत्कथं नाकमिति मे छिंधि संशयम्देवदूत न पश्यामि मम स्वर्गस्य कारणम् ॥४॥देवदूत उवाच-माता पिता सुतो जाया स्वसा भ्राता विकुंडलजन्महेतोरियं संज्ञा जंतोः कर्म्मोपभुक्तये ॥५॥एकस्मिन्पादपे यद्वच्छकुनानां समागमःयद्यत्समीहितं कर्म कुरुते पूर्वभावितः ॥६॥तस्य तस्य फलं भुंक्ते कर्म्मणः पुरुषः सदासत्यं वदामि ते प्रीत्या नरैः कर्म्म शुभाशुभम् ॥७॥स्वकृतं भुज्यते वैश्य कालेकाले पुनःपुनःएकः करोति कर्माणि एकस्तत्फलमश्नुते ॥८॥अन्यो न लिप्यते वैश्य कर्मणान्यस्य कुत्रचित्अपतन्नरके पापैस्तवभ्राता सुदारुणैःत्वं च धर्मेण धर्मज्ञ स्वर्गं प्राप्नोषि शाश्वतम् ॥९॥विकुंडल उवाच-आबाल्यान्मम पापेषु न पुण्येषु रतं मनःअस्मिञ्जन्मनि हे दूत दुष्कृतं हि कृतं मया ॥१०॥देवदूत न जानामि सुकृतं कर्म चात्मनःयदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ॥११॥देवदूत उवाच-शृणु वैश्य प्रवक्ष्यामि यत्त्वया पुण्यमर्जितम्जानामि तदहं सर्वं न त्वं वेत्सि सुनिश्चितम् ॥१२॥हरिमित्रसुतो विप्रः सुमित्रो वेदपारगःआसीत्तस्याश्रमः पुण्यो यमुना दक्षिणेतटे ॥१३॥तेन सख्यं वने तस्मिंस्तव जातं विशांवरतत्संगेन त्वया स्नातं माघमासद्वयं तथा ॥१४॥कालिंदी पुण्यपानीये सर्वपापहरे वरेतत्तीर्थे लोकविख्याते नाम्ना पापप्रणाशने ॥१५॥एकेन सर्वपापेभ्यो विमुक्तस्त्वं विशांपतेद्वितीयमाघपुण्येन प्राप्तः स्वर्गस्त्वयानघ ॥१६॥त्वं तत्पुण्यप्रभावेण मोदस्व सततं दिविनरकेषु तव भ्राता महतीं पापयातनाम् ॥१७॥छिद्यमानोऽसिपत्रैश्च भिद्यमानस्तु मुद्गरैःचूर्ण्यमानः शिलापृष्ठे तप्तांगारेषु भर्जितः ॥१८॥इति दूतवचः श्रुत्वा भ्रातृदुःखेन दुःखितःपुलकांकित सर्वांगो दीनोऽसौ विनयान्वितः ॥१९॥उवाच तं देवदूतं मधुरं निपुणं वचःमैत्री सप्तपदी साधो सतां भवति सत्फला ॥२०॥मित्रभावं विचिंत्य त्वं मामुपाकर्तुमर्हसिततो हि श्रोतुमिच्छामि सर्वज्ञस्त्वं मतो मम ॥२१॥यमलोकं न पश्यंति कर्मणा केन मानवाःगच्छंति निरयं येन तन्मे त्वं कृपया वद ॥२२॥देवदूत उवाच-सम्यक्पृष्टं त्वया वैश्य नष्टपापोऽसि सांप्रतम्विशुद्धे हृदये पुंसां बुद्धिः श्रेयसि जायते ॥२३॥यद्यप्यवसरोनास्ति मम सेवापरस्य वैतथापि च तव स्नेहात्प्रवक्ष्यामि यथामति ॥२४॥कर्मणा मनसा वाचा सर्वावस्थासु सर्वदापरपीडां न कुर्वंति न ते यांति यमालयम् ॥२५॥न वेदैर्न च दानैश्च न तपोभिर्न चाध्वरैःकथंचित्स्वर्गतिं यांति पुरुषाः प्राणिहिंसकाः ॥२६॥अहिंसा परमो धर्मो ह्यहिंसैव परं तपःअहिंसा परमं दानमित्याहुर्मुनयः सदा ॥२७॥मशकान्सरीसृपान्दंशान्यूकाद्यान्मानवांस्तथाआत्मौपम्येन पश्यंति मानवा ये दयालवः ॥२८॥तप्तांगारमयस्कीलं मादंप्रेतरंगिणीम्दुर्गतिं नैव गच्छंति कृतांतस्य च ते नराः ॥२९॥भूतानि येऽत्र हिंसंति जलस्थलचराणि चजीवनार्थं च ते यांति कालसूत्रं च दुर्गतिम् ॥३०॥श्वमांसभोजनास्तत्र पूयशोणितपायिनःमज्जंतश्च वसापंके दष्टाः कीटैरधोमुखैः ॥३१॥परस्परं च खादंतो ध्वांते चान्योन्य घातिनःवसंति कल्पानेकांस्ते रुदंतो दारुणं रवम् ॥३२॥कृमियोनि शतं गत्वा स्थावराः स्युश्चिरं तु तेततोच्छंति ते क्रूरास्तिर्यग्योनि शतेषु च ॥३३॥पश्चाद्भवंति जातांधाः काणाः कुब्जाश्च पंगवःदरिद्राश्चांगहीनाश्च मानुषाः प्राणिहिंसकाः ॥३४॥तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरालोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ॥३५॥लोकद्वयेन विंदंति सुखानि प्राणिहिंसकाःयेन हिंसन्ति भूतानि न ते बिभ्यति कुत्रचित् ॥३६॥प्रविशंति यथा नद्यः समुद्रमृजुवक्रगाःसर्वे धर्मा अहिंसायां प्रविशंति तथा दृढम् ॥३७॥स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितःअभयं येन भूतेभ्यो दत्तमत्र विंशांवर ॥३८॥ये नियोगांश्च शास्त्रोक्तान्धर्माधर्म विमिश्रितान्पालयंतीह ये वैश्य न ते यांति यमालयम् ॥३९॥ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथास्वधर्मनिरताः सर्वे नाकपृष्ठे वसंति ते ॥४०॥यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताःनरा जितेंद्रिया यांति ब्रह्मलोकं तु शाश्वतम् ॥४१॥इष्टापूर्तरता ये च पंचयज्ञरताश्च येदयान्विताश्च ये नित्यं नेक्षंते ते यमालयम् ॥४२॥इंद्रियार्थनिवृत्ता ये समर्था वेदवादिनःअग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥४३॥अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताःआहवेषु विपन्ना ये तेषां मार्गो दिवाकरः ॥४४॥अनाथ स्त्री द्विजार्थे च शरणागतपालनेप्राणांस्त्यजंति ये वैश्य न च्यवंति दिवस्तु ते ॥४५॥पंग्वंधबालवृद्धांश्च रोग्यनाथदरिद्रितान्ये पुष्णंति सदा वैश्य ते मोदंति सदा दिवि ॥४६॥गां दृष्ट्वा पंकनिर्मग्नां रोगमग्नं द्विजं तथाउद्धरंति नरा ये च तेषां लोकोऽश्वमेधिनाम् ॥४७॥गोग्रासं ये प्रयच्छंति ये शुश्रूषंति गाः सदायेनारोहंति गोपृष्ठे ते स्वर्लोकनिवासिनः ॥४८॥गर्तमात्रं तु ये चक्रुर्यत्र गौरतृषा भवेत्यमलोकमदृष्ट्वैव ते यांति स्वर्गतिं नराः ॥४९॥अग्निपूजा देवपूजा गुरुपूजा रताश्च येद्विजपूजा रता नित्यं ते विप्राः स्वर्गगामिनः ॥५०॥वापीकूपतडागादौ धर्मस्यांतो न विद्यतेपिबंति स्वेच्छया यत्र जलस्थल चरास्तदा ॥५१॥नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपियथायथा च पानीयं पिबंति प्राणिनो भृशम् ॥५२॥तथातथाऽक्षयः स्वर्गो धर्मबुद्ध्या विशां वरप्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः ॥५३॥नित्यस्नानेन पूयंते येऽपि पातकिनो नराःप्रातःस्नानं हरेद्वैश्य बाह्माभ्यंतरजं मलम् ॥५४॥प्रातःस्नानेन निष्पापो नरो न निरयं व्रजेत्स्नानं विना तु यो भुंक्ते मलाशी स सदा नरः ॥५५॥अस्नायी यो नरस्तस्य विमुखा पितृदेवताःस्नानहीनो नरः पापः स्नानहीनो नरोऽशुचिः ॥५६॥अस्नायी नरकं भुंक्ते पुंस्कीटादिषु जायतेये पुनः स्रोतसि स्नानमाचरंतीह पर्वणि ॥५७॥ते नैव नरकं यांति न जायंते कुयोनिषुदुःस्वप्ना दुष्टचिंताश्च वंध्या भवंति सर्वदा ॥५८॥प्रातःस्नानेन शुद्धानां पुरुषाणां विशांवरतिलांश्च तिलपात्रांश्च तिलप्रस्थं यथाविधि ॥५९॥दत्त्वा प्रेतपतेर्भूमौ न व्रजंति नराः क्वचित्पृथिवीं कांचनं गां च दत्वा दानानि षोडश ॥६०॥गत्वा न विनिवर्तंते स्वर्गलोकाद्विकुंडलपुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे ॥६१॥स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौनैवाक्रामंति दातारो दारुणं रौरवं पथम्इहलोके न जायंते कुले धनविवर्जिते ॥६२॥सत्यवादी सदा मौनी प्रियवादी च यो नरःअक्रोधनः समाचारो नातिवाद्यनसूयकः ॥६३॥सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितःगोप्ता च परमर्माणां वक्ता परगुणस्य च ॥६४॥परस्वं तृणमात्रं च मनसापि न यो हरेत्न पश्यंति विशांश्रेष्ठ ह्येते नरकयातनाम् ॥६५॥परापवादी पाखंडः पापेभ्योऽपि मतोऽधिकःपच्यते नरके तावद्यावदाभूतसंप्लवम् ॥६६॥वक्ता परुषवाक्यानां मंतव्यो नरकागतःसंदेहो न विशांश्रेष्ठ पुनर्याति च दुर्गतिम् ॥६७॥न तीर्थैर्न तपोभिश्च कृतघ्नस्यास्ति निष्कृतिःसहते यातनां घोरां स नरो नरके चिरम् ॥६८॥पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरःजितेंद्रियो जिताहारो न स याति यमालयम् ॥६९॥न तीर्थे पातकं कुर्यान्न च तीर्थोपजीवनम्तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥७०॥दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहःतीर्थे च दुर्जरं सर्वमेतत्किन्नरकं व्रजेत् ॥७१॥सकृद्गंगांभसि स्नातः पूतो गांगेयवारिणान नरो नरकं याति अपि पातकराशिकृत् ॥७२॥व्रतदानतपो यज्ञाः पवित्राणीतराणि चगंगाबिंद्वभिषिक्तस्य न समा इति नः श्रुतम् ॥७३॥अन्यतीर्थसमां गंगां यो ब्रवीति नराधमःस याति नरकं वैश्य दारुणं रौरवं महत् ॥७४॥धर्मद्रवं ह्यपां बीजं वैकुंठचरणच्युतम्धृतं मूर्ध्नि महेशेन यद्गांगममलं जलम् ॥७५॥तद्ब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम्तेन किं समतां गच्छेदपि ब्रह्मांडगोचरे ॥७६॥गंगागंगेति यो ब्रूयाद्योजनानां शतैरपिनरो न नरकं याति किं तया सदृशं भवेत्नान्येन दह्यते सद्यः क्रिया नरकदायिनी ॥७७॥गंगांभसि प्रयत्नेन स्नातव्यं तेन मानवैःप्रतिगृह निवृत्तो यः प्रतिग्रहक्षमोऽपि सन्स द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ॥७८॥गामुद्धरंति ये पंकाद्ये रक्षंति च रोगिणःम्रियंते गोगृहे ये च तेषां नभसि तारकाःयमलोकं न पश्यंति प्राणायामपरायणाः ॥७९॥अपि दुष्कृतकर्माणस्तैरेव हतकिल्बिषाःदिवसे दिवसे वैश्य प्राणायामास्तु षोडशअपि ब्रह्महणं साक्षात्पुनंत्यहरहः कृताः ॥८०॥तपांसि यानि तप्यंते व्रतानि नियमाश्च येगोसहस्रप्रदानं च प्राणायामस्तु तत्समः ॥८१॥अब्बिंदुं यः कुशाग्रेण मासेमासे नरः पिबेत्संवत्सरशतं साग्रं प्राणायामस्तु तत्समः ॥८२॥पातकं तु महद्यच्च तथा क्षुद्रोपपातकम्प्राणायामैः क्षणात्सर्वं भस्मसात्कुरुते नरः ॥८३मातृवत्परदारान्ये मन्यंते वै नरोत्तमाःन ते यांति नरश्रेष्ठ कदाचिद्यम यातनाम् ॥८४॥मनसापि परेषां यः कलत्राणि न सेवतेसह लोकद्वये नास्ति तेन वैश्य धरा धृता ॥८५॥तस्माद्धर्म्मान्वितैस्त्याज्यं परदारोपसेवनम्नयंति परदारास्तु नरकानेकविंशतिम् ॥८६॥लोभो न जायते येषां परदारेषु मानसेते यांति देवलोकं तु न यमं वैश्यसत्तम ॥८७॥शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयतेजितस्वर्गः स मंतव्यः पुरुषोऽक्रोधनो भुवि ॥८८॥मातरं पितरं पुत्र आराधयति देववत्अप्राप्ते वार्द्धके काले न याति च यमालयम् ॥८९॥पितुश्चाधिकभावेन येऽर्चयंति गुरुं नराःभवंत्यतिथयो लोके ब्रह्मणस्ते विशांवर ॥९०॥इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात्शीलभंगे च नारीणां यमलोकः सुदारुणः ॥९१॥शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसंगविवर्जनात्शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥९२॥शूद्रस्य पाकयज्ञेन निषिद्धाचरणेन चदुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः ॥९३॥विचारयंति ये शास्त्रं वेदाभ्यासरताश्च येपुराणं संहितां ये च श्रावयंति पठंति च ॥९४॥व्याकुर्वंति स्मृतिर्ये च ये धर्मप्रतिबोधकाःवेदांतेषु निषण्णा ये तैरियं जगती धृता ॥९५॥तत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्बिषाःगच्छंति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥९६॥ज्ञानमज्ञाय यो दद्याद्वेदशास्त्रसमुद्भवम्अपि वेदास्तमर्चंति भवबंधविदारणम् ॥९७॥श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तमसम्मतं धर्मराजस्य सर्वलोकामृतप्रदम् ॥९८॥न यमं यमलोकं च न भूतान्घोरदर्शनान्पश्यंति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥९९॥प्राहास्मान्यमुना भ्राता सदैव हि पुनःपुनःभवद्भिर्वैष्णवास्त्याज्या न ते स्युर्ममगोचराः ॥१००॥स्मरंति ये सकृद्भूताः प्रसंगेनापि केशवम्ते विध्वस्ताखिलाघौघा यांति विष्णोः परं पदम् ॥१०१॥दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यःभवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः ॥१०२॥वैष्णवो यद्गृहे भुंक्ते येषां वैष्णवसंगतिःतेऽपि वः परिवार्याः स्युस्तत्संगहतकिल्बिषाः ॥१०३॥इत्थं वैश्यानुशास्त्यस्मान्देवो दंडधरः सदाअतो नो वैष्णवा यांति राजधानीं यमस्य तु ॥१०४॥विष्णुभक्तिं विना नॄणां पापिष्ठानां विशां वर॥उपायो नास्ति नास्त्यन्यः संतर्तुं नरकांबुधिम् ॥१०५श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम्वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥१०६॥एतावता लमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्मनाम्नाम्विक्रुश्य पुत्र मघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥१०७॥नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वयेतदैव यांति ते स्वर्गं यदार्चंति मुदा हरिम् ॥१०८॥विष्णुभक्तस्य ये दासा वैष्णवान्न भुजश्च येते तु क्रतुभुजां वैश्य गतिं यांति निराकुलाः ॥१०९॥प्रार्थर्यद्वैष्णवस्यान्नं प्रयत्नेन विचक्षणःसर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ॥११०॥गोविंदेति जपन्मंत्रं कुत्रचिन्म्रियते यदिस नरो न यमं पश्येत्तं च नेक्षामहे वयम् ॥१११॥सांगं समुद्रं सध्यानं सऋषिः छंददैवतम्दीक्षयाविधिवन्मंत्रं जपेद्वै द्वादशाक्षरम् ॥११२॥अष्टाक्षरं च मंत्रेशं ये जपंति नरोत्तमाःतान्दृष्ट्वा ब्रह्महा शुद्ध्यद्भ्राजते विष्णुवत्स्वयम् ॥११३॥शंखिनश्चक्रिणो भूत्वा ब्रह्माभ्यंतरगामिनःवसंति वैष्णवे लोके विष्णुरूपेण ते नराः ॥११४॥हृदि सूर्ये जले वाथ प्रतिमा स्थंडिलेपि चसमभ्यर्च्य हरिं यांति नरास्तद्वैष्णवं पदम् ॥११५॥अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिःशालग्रामे मणौ चक्रे वज्रकीटविनिर्मिते ॥११६॥अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम्सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ॥११७॥यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवेराजसूयसहस्रेण तेनेष्टं प्रतिवासरे ॥११८॥सदामनंति वेदांता ब्रह्मनिर्वाणमच्युतम्तत्प्रसादो भवेन्नॄणां शालग्रामशिलार्चनात् ॥११९॥महाकाष्ठस्थितो वह्निर्मखस्थाने प्रकाशतेयथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥१२०॥अपि पापसमाचाराः कर्म्मण्यनधिकारिणःशालग्रामार्चका वैश्य नैव यांति यमालयम् ॥१२१॥न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिःशालग्रामशिलाचक्रे यथा स रमते सदा ॥१२२॥अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरायेनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ॥१२३॥शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाःविधिवत्पूजिता येन तस्य पुण्यं वदामि ते ॥१२४॥कोटिद्वादशलिंगैस्तु पूजितैः स्वर्णपंकजैःयत्स्याद्द्वादशकालेषु दिनेनैकेन तद्भवेत् ॥१२५॥यः पुनः पूजयेद्भक्त्या शालग्रामशिला शतम्उषित्वा स हरेर्लोके चक्रवर्त्तीह जायते ॥१२६॥कामैः क्रोधैः प्रलोभैश्च व्याप्तो यत्र नराधमःसोऽपि याति हरेर्लोकं शालग्रामशिलार्चनात् ॥१२७॥यः पूजयेच्च गोविंदं शालग्रामे मुदा नरःआभूतसंप्लवं यावन्न स प्रच्यवते दिवः ॥१२८॥विना तीर्थैर्विना दानैर्विना यज्ञैर्विना मतिम्मुक्तिं यांति नरा वैश्य शालग्रामशिलार्चनात् ॥१२९॥नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम्न याति वैश्य पापोऽपि शालग्रामशिलार्चकः ॥१३०॥दीक्षाविधान मंत्रज्ञो यश्चक्रे बलिमाहरेत्गंगा गोदावरी रेवा नद्यो मुक्तिप्रदाश्च याः ॥१३१॥निवसंति हिताः सर्वाः शालग्रामशिला जलेनैवेद्यैर्विविधैः पुष्पैर्धूपदीपैर्विलेपनैः ॥१३२॥गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम्कुरुते मानवो यस्तु कलौ भक्तिपरायणः ॥१३३॥कल्पकोटिसहस्राणि रमते सन्निधौ हरेःलिंगैस्तु कोटिभिर्दृष्टैर्यत्फलं पूजितैस्तु तैः ॥१३४॥शालग्रामशिलायास्तु ह्येकेनाह्ना हि तत्फलम्सकृदभ्यर्चिते लिंगे शालग्रामशिलोद्भवे ॥१३५॥मुक्तिं प्रयांति मनुजा नूनं सांख्येन वर्जिताःशालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥१३६॥तत्र देवाः सुरा यक्षा भुवनानि चतुर्दशशालग्रामशिलायां तु यः श्राद्धं कुरुते नरः ॥१३७॥पितरस्तस्य तिष्ठंति तृप्ताः कल्पशतं दिविये पिबंति नरा नित्यं शालग्रामशिलाजलम् ॥१३८॥पंचगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम्कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥१३९॥तोयं यदि पिबेत्पुण्यं शालग्रामशिलांगजम्शालग्राम शिला यत्र तत्तीर्थं योजनत्रयम् ॥१४०॥तत्र दानं च होमं च सर्वं कोटिगुणं भवेत्शालग्रामशिला तोयं यः पिबेद्बिंदुना समम् ॥१४१॥मातृस्तन्यं पुनर्नैव स पिबेद्विष्णुभाङ्नरःशालग्राम समीपे तु क्रोशमात्रं समंततः ॥१४२॥कीटकोपि मृतो याति वैकुंठं भवनं परम्शालग्रामशिलाचक्रं यो दद्याद्दानमुत्तमम् ॥१४३॥भूचक्रं तेन दत्तं स्यात्सशैलवनकाननम्शालग्रामशिलाया यो मूल्यमुत्पादयेन्नरः ॥१४४॥विक्रेता चानुमंता यः परीक्षासु च मोदतेते सर्वे नरकं यांति यावदाभूतसंप्लवम् ॥१४५॥ततः संवर्जयेद्वैश्य चक्रस्य क्रयविक्रयम्बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा ॥१४६॥स्मरणं वासुदेवस्य सर्वपापहरं हरेःतपस्तप्त्वा नरो घोरमरण्ये नियतेंद्रियः ॥१४७॥यत्फलं समवाप्नोति तन्नत्वा गरुडध्वजम्कृत्वापि बहुशः पापं नरो मोहसमन्वितः ॥१४८॥न याति नरकं गत्वा सर्वपापहरं हरिम्पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥१४९॥तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्तनात्देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः ॥१५०॥न तेषां यमसालोक्यं न ते स्युर्नरकौकसःवैष्णवः पुरुषो वैश्य शिवनिंदां करोति यः ॥१५१॥न विंदेद्वैष्णवं लोकं स याति नरकं महत्उपोष्यैकादशीमेकां प्रसंगेनापि मानवः ॥१५२॥न याति यातनां यामीमिति लोमशतः श्रुतम्नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते ॥१५३॥उभयं पद्मनाभस्य दिनं पातकनाशनम्तावत्पापानि देहेऽस्मिन्वसंतीह विशांवर ॥१५४॥यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम्अश्वमेधसहस्राणि राजसूयशतानि च ॥१५५॥एकादश्युपवासस्य कलां नार्हंति षोडशीम्एकादशेंद्रियैः पापं यत्कृतं वैश्य मानवैः ॥१५६॥एकादश्युपवासेन तत्सर्वं विलयं व्रजेत्एकादशीसमं किंचित्पुण्यं लोके न विद्यते ॥१५७॥व्याजेनापि कृता यैस्तु वशं यांति न भास्करेःस्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी ॥१५८॥सुकलत्रप्रदा ह्येषा जीवत्पुत्रप्रदायिनीन गंगा न गया वैश्य न काशी न च पुष्करम् ॥१५९॥न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तुयमुना चन्द्रभागा न तुल्या हरिदिनेन तु ॥१६०॥अनायासेन येनात्र प्राप्यते वैष्णवं पदम्रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिने ॥१६१॥दश वै पैतृके पक्षे मातृके दश पूर्वजाःप्रियाया दश ये वैश्य तानुद्धरति निश्चितम् ॥१६२॥द्वंद्वसंग परित्यक्ता नागारि कृतकेतनाःस्रग्विणः पीतवसनाः प्रयांति हरिमंदिरम् ॥१६३॥बालत्वे यौवने वापि वार्द्धके वा विशांवरउपोष्यैकादशीं नूनं नैति पापोऽतिदुर्गतिम् ॥१६४॥उपोष्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम्दत्वा हेमतिलान्गाश्च स्वर्गं यांतीह मानवाः ॥१६५॥तीर्थे स्नांति न ये वैश्य न दत्तं कांचनं च यैःनैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः ॥१६६॥संक्षिप्य कथितं धर्म्मं नरकस्य निरूपणम्अद्रोहः सर्वभूतेषु वाङ्मनः काय कर्मभिः ॥१६७॥इंद्रियाणां निरोधश्च दानं च हरिसेवनम्वर्णाश्रमक्रियाणां च पालनं विधितः सदा ॥१६८॥स्वर्गार्थी सर्वदा वैश्य तपोदानं न कीर्तयेत्यथाशक्ति तथा दद्यादात्मनो हितकाम्यया ॥१६९॥उपानद्वस्त्रमन्नानि पत्रं मूलं फलं जलम्अवंध्यं दिवसं कार्य्यं दरिद्रेणापि वैश्यक ॥१७०॥इहलोके परे चैव न दत्तं नोपतिष्ठतेदातारो नैव पश्यंति तां तां वै यमयातनाम् ॥१७१॥दीर्घायुषो धनाढ्याश्च भवंतीह पुनःपुनःकिमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् ॥१७२॥आरोहंति दिवं धर्म्मे नराः सर्वत्र सर्वदा ॥१७३॥तेन बालत्वमारभ्य कर्तव्यो धर्मसंग्रहःइति ते कथितं सर्वं किमन्यच्छ्रोतुमिच्छसि ॥१७४॥विकुंडल उवाच-श्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मेगंगोदं पापहं सद्यः पापहारि सतां वचः ॥१७५॥उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम्शीतांशुः क्रियते केन शीतलोऽमृतमंडलः ॥१७६॥देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतःनरकान्निष्कृतिः सद्यो भ्रातुर्मे जायते कथम् ॥१७७॥इति तस्य वचः श्रुत्वा देवदूतो जगाद हध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्री रज्जुबन्धनः ॥१७८॥यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम्तद्भ्रात्रे दीयतां सर्वं स्वर्गं तस्य यदीच्छसि ॥१७९॥विकुंडल उवाच-किं तत्पुण्यं कथं जातं किं जन्म च पुरातनम्तत्सर्वं कथ्यतां दूत ततो दास्यामि सत्वरम् ॥१८०॥देवदूत उवाच-शृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम्पुरा मधुवने पुण्ये ऋषिरासीच्च शाकुनिः ॥१८१॥तपोऽध्ययन संपन्नस्तेजसां ब्रह्मणा समःजज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव ॥१८२॥ध्रुवः शीलो बुधस्तारो ज्योतिष्मानुत पंचमःअग्निहोत्ररता ह्येते गृहधर्मेषु रेमिरे ॥१८३॥निर्मोहो जितकामश्च ध्यानकोशो गुणाधिकःएते गृहविरक्ताश्च चत्वारो द्विजसूनवः ॥१८४॥चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाःग्रामैकवासिनः सर्वे निःसंगा निष्परिग्रहाः ॥१८५॥निराशा निष्प्रयत्नाश्च सम लोष्टाश्मकांचनाःयेनकेनचिदाच्छन्ना येनकेनचिदाशिताः ॥१८६॥सायंग्रहास्तथा नित्यं विष्णुध्यानपरायणाःजितनिद्रा जिताहारा वातशीतसहिष्णवः ॥१८७॥पश्यंतो विष्णुरूपेण जगत्सर्वं चराचरम्चरंति लीलया पृथ्वद्यंतेऽन्योन्यं मौनमास्थिताः ॥१८८न कुर्वंति क्रियां कांचिदर्थमात्रं हि योगिनःदृष्टज्ञाना असंदेहाश्चिद्विकार विशारदाः ॥१८९॥एवं ते तव विप्रस्य पूर्वमष्टमजन्मनितिष्ठतो मध्यदेशेषु पुत्रदारकुटुंबिनः ॥१९०॥गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताःवैश्वदेवांतरे काले त्वया दृष्टा गृहांगणे ॥१९१॥सगद्गदं साश्रुनेत्रं सहर्षं च ससंभ्रमम्दंडवत्प्रणिपातेन बहुमानपुरःसरम् ॥१९२॥प्रणम्य चरणौ मूर्ध्ना कृत्वा पाणियुगाञ्जलिम्तदाभिनन्दिताः सर्वे तया सूनृतया गिरा ॥१९३॥अद्य मे सफलं जन्म जीवितं सफलं तथाअद्य विष्णुः प्रसन्नो मे सनाथोऽद्यास्मि पावनः ॥१९४॥धन्योऽस्म्यद्य गृहं धन्यं धन्या अद्य कुटुंबिनःममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् ॥१९५॥यद्दृष्टौ भवतां पादौ तापत्रयहरौ मयाभवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव ॥१९६॥एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथाधृतं मूर्ध्नि विशांश्रेष्ठ श्रद्धया परया तदा ॥१९७॥यत्र पादोदकं वैश्य श्रद्धया शिरसा धृतम्गंधपुष्पाक्षतैर्धूपैर्दीपैर्भावपुरःसरम् ॥१९८॥संपूज्य सुंदरान्नेन भोजिता यतयस्तथातृप्ताः परमहंसास्ते विश्रांता मंदिरे निशि ॥१९९॥ध्यायंतश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम्तेषामातिथ्यजं पुण्यं जातं यत्ते विशांवर ॥२००॥न तद्वक्त्रसहस्रेण वक्तुं शक्नोम्यहं खलुभूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ॥२०१॥मतिमत्सु सुराः श्रेष्ठा नरेषु ब्रह्मजातयःब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ॥२०२॥कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनःअतएव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्त्रये ॥२०३॥तत्संगतिर्विशांश्रेष्ठ महापातकनाशिनीविश्रांता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः ॥२०४॥आजन्मसंचितं पापं नाशयंतीक्षणेन वैसंचितं यद्गृहस्थस्य पापमामरणांतिकम् ॥२०५॥विनिर्दहति तत्सर्वमेकरात्रोषितो यतिःस्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते ॥२०६॥इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम्हृष्टेन चेतसा भ्राता निरयात्सोऽपि निर्गतः ॥२०७॥देवैस्तु पुष्पवर्षेण पूजितौ च दिवंगतौताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः ॥२०८॥अखिलभुवनबोधं देवदूतस्यवाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्यस्वकृतसुकृतदानाद्भ्रातरं तारयित्वा सुरपतिवरलोकं तेन सार्द्धं जगाम ॥२०९॥इतिहासमिमं राजन्यः पठेच्छृणुयादपिस गोसहस्रदानस्य विशोको लभते फलम् ॥२१०॥इति श्रीपाद्मे महापुराणे स्वर्गखंडे एकत्रिंशोऽध्यायः ॥३१ N/A References : N/A Last Updated : November 03, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP