वायवीयसंहिता उत्तर भागः - अध्यायः २५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


उपमन्युरुवाच
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥१॥
यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥१॥
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥२॥
कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥२॥
तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥३॥
शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥३॥
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥४॥
पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥४॥
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥५॥
गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥५॥
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥६॥
तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥६॥
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥७॥
ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥७
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥८॥
बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥८
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥९॥
देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥९॥
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥१०॥
सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥१०॥
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥११॥
गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥११॥
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥१२॥
हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥१२॥
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥१३॥
एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥१३॥
गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥१४॥
भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥१४॥
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥१५॥
मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥१५॥
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥१६॥
गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥१६॥
शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥१६॥
कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥१७॥
आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥१७॥
कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥१८॥
पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥१८
निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥१९॥
स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥१९॥
वासांसि च मृदून्येव तपनीयमयानि च ॥२०॥
विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥२०॥
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥२१॥
आधूपितानि पुष्पौघैर्वासितानि समंततः ॥२१॥
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥२२॥
घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥२२॥
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥२३॥
नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥२३॥
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥२४॥
कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥२४॥
आसनानि च भद्राणि गजदंतमयानि च ॥२५॥
सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥२५॥
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥२६॥
उच्चावचानि रम्याणि शयनानि सुखानि च ॥२६॥
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥२७॥
शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥२७॥
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥२८॥
नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥२८॥
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥२९॥
राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥२९॥
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥३०॥
समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥३०॥
गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥३१॥
आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥३१॥
काहलानि च रम्याणि नानानादकराणि च ॥३२॥
सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥३२॥
भेरीमृदंगमुरजतिमिच्छपटहादयः ॥३३॥
समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥३३
भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥३४॥
तदाधाराणि १ सर्वाणि सौवर्णान्येव साधयेत् ॥३४॥
आलयं च महेशस्य शिवस्य परमात्मनः ॥३५॥
राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥३५॥
उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥३६॥
अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥३६॥
तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥३७॥
मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥३७॥
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥३८॥
अलंकृतशिरोभागमस्त्र २ आजेन चिह्नितम् ॥३८॥
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥३९॥
प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥३९॥
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥४०॥
अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥४०॥
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥४१॥
वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥४१॥
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥४२॥
अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥४२॥
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥४३॥॥॥॥
वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥४३॥
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥४४॥
शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥४४॥
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥४५॥
एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥४५॥
स्थाने शिलामये दांते दारवे चेष्टकामये ॥४६॥
केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥४६॥
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥४७॥
आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥४७॥
द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥४७॥
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥४८॥
न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥४८॥
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥४९॥
न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥४९॥
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥५०॥
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥५०॥
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥५१॥
महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥५१॥
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥५२॥
न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥५२॥
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥५३॥
गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥५३॥
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥५४॥
शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥५४॥
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥५५॥
दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥५५॥
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥५६॥
भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥५६॥
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥५७॥
मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥५७॥
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥५८॥
तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥५८॥
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥५९॥
राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥५९॥
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥६०॥
ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥६०॥
तामसं राजसं वापि सात्त्विकं भावमेव च ॥६१॥
आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥६१॥
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥६२॥
तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥६२॥
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥६३॥
शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥६३॥
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥६४॥
अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥६४॥
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥६५॥
वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥६५

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP