वायवीयसंहिता उत्तर भागः - अध्यायः १४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ईश्वर उवाच
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥१॥
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥
एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥२॥
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥
जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥३॥
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥
वाचा च मनसा चैव कायेन द्रविणेन च ॥४॥
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥५॥
भूषणानि च वासांसि धान्यानि च धनानि च ॥
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥६॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥७॥
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥
आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥८॥
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥
शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥९॥
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥१०॥
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥११॥
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥१२॥
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥१३॥
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥
उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥१४॥
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥
एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥१५॥
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥
संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥१६॥
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥
अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥१७॥
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥
नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥१८॥
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥
तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥१९॥
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥
त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥२०॥
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥
विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥२१॥
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥२२॥
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥
बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥२३॥
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥
अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥२४॥
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥२५॥
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥
मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥२६॥
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥
अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥२७॥
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥
शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥२८॥
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥
साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥२९॥
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥
आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥३०॥
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥
मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥३१॥
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥
अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥३२॥
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥
एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥३३॥
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥
रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥३४॥
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥
स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥३५॥
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥
कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥३६॥
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥
सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥३७॥
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥
अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥३८॥
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥
मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥३९॥
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥
शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥४०॥
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥
इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥४१॥
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥
अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥४२॥
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥
गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥४३॥
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥
अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥४४॥
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥
सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥४५॥
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥
तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥४६॥
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥
सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥४७॥
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥
उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥४८॥
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥
क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥४९॥
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥
आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥५०॥
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥
अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥५१॥
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥
प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥५२॥
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥
शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥५३॥
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥
सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥५४॥
आचारः परमो धर्म आचारः परमं धनं ॥
आचारः परमा विद्या आचारः परमा गतिः ॥५५॥
आचारहीनः पुरुषो लोके भवति निंदितः ॥
परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥५६॥
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥
तस्य तेन समाचारः सदाचारो न चेतरः ॥५७॥
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥
सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥५८॥
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥
न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥५९॥
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥
तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥६०॥
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥
न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥६१॥
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥
पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥६२॥
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥
अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥६३॥
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥
अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥६४॥
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥
निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥६५॥
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥
सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥६६॥
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥
अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥६७॥
न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥
सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥६८॥
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥
असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥६९॥
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥
श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥७०॥
तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् १ धिकारतः ॥
आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥७१॥
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥
सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥७२॥
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥
मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥७३॥
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥
अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥७४॥
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥
सहसा विनियुंजीत तस्मादेष महाबलः ॥७५॥
उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥
हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥७६॥
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥७७॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP