वायवीयसंहिता उत्तर भागः - अध्यायः ८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


कृष्ण उवाच
भगवञ्छ्रोतुमिच्छामि शिवेन परिभाषितम् ॥१॥
वेदसारे शिवज्ञानं स्वाश्रितानां विमुक्तये ॥१॥
अभक्तानामबुद्धीनामयुक्तानामगोचरम् ॥२॥
अर्थैर्दशर्धैः संयुक्तं गूढमप्राज्ञनिंदितम् ॥२॥
वर्णाश्रमकृतैर्धर्मैर्विपरीतं क्वचित्समम् ॥३॥
वेदात्षडंगादुद्धृत्य सांख्याद्योगाच्च कृत्स्नशः ॥३॥
शतकोटिप्रमाणेन विस्तीर्णं ग्रंथसंख्यया ॥४॥
कथितं परमेशेन तत्र पूजा कथं प्रभोः ॥४॥
कस्याधिकारः पूजादौ ज्ञानयोगादयः कथम् ॥५॥
तत्सर्वं विस्तरादेव वक्तुमर्हसि सुव्रत ॥५॥
उपमन्युरुवाच
शैवं संक्षिप्य वेदोक्तं शिवेन परिभाषितम् ॥६॥
स्तुतिनिंदादिरहितं सद्यः प्रत्ययकारणम् ॥६॥
गुरुप्रसादजं दिव्यमनायासेन मुक्तिदम् ॥७॥
कथयिष्ये समासेन तस्य शक्यो न विस्तरः ॥७॥
सिसृक्षया पुराव्यक्ताच्छिवः स्थाणुर्महेश्वरः ॥८॥
सत्कार्यकारणोपेतस्स्वयमाविरभूत्प्रभुः ॥८॥
जनयामास च तदा ऋषिर्विश्वाधिकः प्रभुः ॥९॥
देवानां प्रथमं देवं ब्रह्माणं ब्रह्मणस्पतिम् ॥९॥
ब्रह्मापि पितरं देवं जायमानं न्यवैक्षत ॥१०॥
तं जायमानं जनको देवः प्रापश्यदाज्ञया ॥१०॥
दृष्टो रुद्रेण देवो ऽसावसृजद्विश्वमीश्वरः ॥११॥
वर्णाश्रमव्यवस्थां च चकार स पृथक्पृथक् ॥११॥
सोमं ससर्ज यज्ञार्थे सोमाद्द्यौस्समजायत ॥१२॥
धरा च वह्निः सूर्यश्च यज्ञो विष्णुश्शचीपतिः ॥१२॥
ते चान्ये च सुरा रुद्रं रुद्राध्यायेन तुष्टुवुः ॥१३॥
प्रसन्नवदनस्तस्थौ देवानामग्रतः प्रभुः ॥१३॥
अपहृत्य स्वलीलार्थं तेषां ज्ञानं महेश्वरः ॥१४॥
तमपृच्छंस्ततो देवाः को भवानिति मोहिताः ॥१४॥
सो ऽब्रवीद्भगवान्रुद्रो ह्यहमेकः पुरातनः ॥१५॥
आसं प्रथममेवाहं वर्तामि १ च सुरोत्तमाः ॥१५॥
भविष्यामि च मत्तोन्यो व्यतिरिक्तो न कश्चन ॥१६॥
अहमेव जगत्सर्वं तर्पयामि स्वतेजसा ॥१६॥
मत्तो ऽधिकः समो नास्ति मां यो वेद स मुच्यते ॥१७॥
इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधत्त स ॥१७॥
अपश्यंतस्तमीशानं स्तुवंतश्चैव सामभिः ॥१७॥
व्रतं पाशुपतं कृत्वा त्वथर्वशिरसि स्थितम् ॥१८॥
भस्मसंछन्नसर्वांगा बभूवुरमरास्तदा ॥१८॥
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥१९॥
सगणश्चोमया सार्धं सान्निध्यमकरोत्प्रभुः ॥२०॥
यं विनिद्रा जितश्वासा योगिनो दग्धकिल्बिषाः ॥२०॥
हृदि पश्यंति तं देवं ददृशुर्देवपुंगवाः ॥२१॥
यामाहुः परमां शक्तिमीश्वरेच्छानुवर्तिनीम् ॥२१॥
तामपश्यन्महेशस्य वामतो वामलोचनाम् ॥२२॥
ये विनिर्धूतसंसाराः प्राप्ताः शैवं परं पदम् ॥२२॥
नित्यसिद्धाश्च ये वान्यं ते च दृष्टा गणेश्वराः ॥२३॥
अथ तं तुष्टुवुर्देवा देव्या सह महेश्वरम् ॥२३॥
स्तोत्रैर्माहेश्वरैर्दिव्यैः श्रोतैः पौराणिकैरपि ॥२४॥
देवो ऽपि देवानालोक्य घृणया वृषभध्वजः ॥२४॥
तुष्टो ऽस्मीत्याह सुप्रीतस्स्वभावमधुरां गिरम् ॥२५॥
अथ सुप्रीतमनसं प्रणिपत्य वृषध्वजम् ॥२५॥
अर्थमहत्तमं देवाः पप्रच्छुरिममादरात् ॥२५॥
देवा ऊचुः
भगवन्केन मार्गेण पूजनीयो ऽसि भूतले ॥२६॥
कस्याधिकारः पूजायां वक्तुमर्हसि तत्त्वतः ॥२६॥
ततः सस्मितमालोक्य देवीं देववरोहरः ॥२७॥
स्वरूपं दर्शयामास घोरं सूर्यात्मकं परम् ॥२७॥
सर्वैश्वर्यगुणोपेतं सर्वतेजोमयं परम् ॥२८॥
शक्तिभिर्मूर्तिभिश्चांगैर्ग्रहैर्देवैश्च संवृतम् ॥२८॥
अष्टबाहुं चतुर्वक्त्रमर्धनारीकमद्भुतम् ॥२९॥
दृष्ट्वैवमद्भुताकारं देवा विष्णुपुरोगमाः ॥२९॥
बुद्ध्वा दिवाकरं देवं देवीं चैव निशाकरम् ॥३०॥
पञ्चभूतानि शेषाणि तन्मयं च चराचरम् ॥३०॥
एवमुक्त्वा नमश्चक्रुस्तस्मै चार्घ्यं प्रदाय वै ॥३१॥
सिंदूरवर्णाय सुमण्डलाय सुवर्णवर्णाभरणाय तुभ्यम् ॥३२॥
पद्माभनेत्राय सपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥३२॥
सुरत्नपूर्णं ससुवर्णतोयं सुकुंकुमाद्यं सकुशं सपुष्पम् ॥३३॥
प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥३३॥
नमश्शिवाय शांताय सगणायादिहेतवे ॥३४॥
रुद्राय विष्णवे तुभ्यं ब्रह्मणे सूर्यमूर्तये ॥३४॥
यश्शिवं मण्डले सौरे संपूज्यैव समाहितः ॥३५॥
प्रातर्मध्याह्नसायाह्ने प्रदद्यादर्घ्यमुत्तमम् ॥३५॥
प्रणमेद्वा पठेदेताञ्छ्लोकाञ्छ्रुतिमुखानिमान् ॥३६॥
न तस्य दुर्ल्लभं किंचिद्भक्तश्चेन्मुच्यते दृढम् ॥३६॥
तस्मादभ्यर्चयेनित्यं शिवमादित्यरूपिणम् ॥३७॥
धर्मकामार्थमुक्त्यर्थं मनसा कर्मणा गिरा ॥३७॥
अथ देवान्समालोक्य मण्डलस्थो महेश्वरः ॥३८॥
सर्वागमोत्तरं दत्त्वा शास्त्रमंतरधाद्धरः ॥३८॥
तत्र पूजाधिकारो ऽयं ब्रह्मक्षत्रविशामिति ॥३९॥
ज्ञात्वा प्रणम्य देवेशं देवा जग्मुर्यथागतम् ॥३९
अथ कालेन महता तस्मिञ्छास्त्रे तिरोहिते ॥४०॥
भर्तारं परिपप्रच्छ तदंकस्था महेश्वरी ॥४०॥
तया स चोदितो देवो देव्या चन्द्रविभूषणः ॥४१॥
अवदत्करमुद्धृत्य शास्त्रं सर्वागमोत्तरम् ॥४१॥
प्रवर्तितं च तल्लोके नियोगात्परमेष्ठिनः ॥४२॥
मयागस्त्येन गुरुणा दधीचेन महर्षिणा ॥४२॥
स्वयमप्यवतीर्योर्व्यां युगावर्तेषु शूलधृक् ॥४३॥
स्वाश्रितानां विमुक्त्यर्थं कुरुते ज्ञानसंततिम् ॥४३॥
ऋभुस्सत्यो भार्गवश्च ह्यंगिराः सविता द्विजाः ॥४४॥
मृत्युः शतक्रतुर्धीमान्वसिष्ठो मुनिपुंगवः ॥४४॥
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥४५॥
शततेजास्स्वयं धर्मो नारायण इति श्रुतः ॥४५॥
स्वरक्षश्चारुणिर्धीमांस्तथा चैव कृतंजयः ॥४६॥
कृतंजयो भरद्वाजो गौतमः कविरुत्तमः ॥४६॥
वाचःस्रवा मुनिस्साक्षात्तथा सूक्ष्मायणिः शुचिः ॥४७॥
तृणबिंदुर्मुनिः कृष्णः शक्तिः शाक्तेय उत्तरः ॥४७॥
जातूकर्ण्यो हरिस्साक्षात्कृष्णद्वैपायनो मुनिः ॥४८॥
व्यासावताराञ्छृण्वंतु कल्पयोगेश्वरान्क्रमात् ॥४८॥
लैंगे व्यासावतारा हि द्वापरां तेषु सुव्रताः ॥४९॥
योगाचार्यावताराश्च तथा शिष्येषु शूलिनः ॥४९॥
तत्र तत्र विभोः शिष्याश्चत्वारः स्युर्महौजसः ॥५०॥
शिष्यास्तेषां प्रशिष्याश्च शतशो ऽथ सहस्रशः ॥५०॥
तेषां संभावनाल्लोके शैवाज्ञाकरणादिभिः ॥५१॥
भाग्यवंतो विमुच्यंते भक्त्या चात्यंतभाविताः ॥५१॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वज्ञाने व्यासावतारवर्णनं नामाष्टमो ऽध्यायः

N/A

References : N/A
Last Updated : October 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP