वायवीयसंहिता पूर्वभागः - अध्यायः १८

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥१॥
कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥१॥
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥२॥
निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥२॥
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥३॥
चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥३॥
वायुरुवाव
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥४॥
वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥४॥
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥५॥
कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥५॥
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥६॥
दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥६॥
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥७॥
जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥७॥
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥८॥
देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥८॥
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥९॥
पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥९॥
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥१०॥
नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥१०॥
अन्याञ्१ आमातरस्सर्वानाहूय स यथाक्रमम् ॥११॥
शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥११॥
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥१२॥
ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥१२॥
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥१३॥
लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥१३॥
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥१४॥
मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥१४॥
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥१५॥
वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥१५॥
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥१६॥
वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥१६॥
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥१७॥
अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥१७॥
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥१८॥
अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥१८॥
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥१९॥
विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥१९॥
आरुरोह महादेवी सह प्रियसखीजनैः ॥२०॥
चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥२०॥
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥२१॥
तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥२१॥
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥२२॥
छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥२२॥
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥२३॥
तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥२३॥
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥२४॥
अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥२४॥
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥२५॥
सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥२५॥
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥२६॥
अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥२६॥
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥२७॥
काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥२७॥
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥२८॥
काचिदाभरणाधारं बभार कमलेक्षणा ॥२८॥
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥२९॥
अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥२९॥
आवृत्त्या तां महादेवीमसेवंत समंततः ॥३०॥
अतीव शुशुभे तासामंतरे परमेश्वरी ॥३०॥
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥३१॥
ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥३१॥
प्रास्थानिको महानादः पटहः समताड्यत ॥३२॥
ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥३२॥
अनाहतानि सन्नेदुः काहलानां शतानि च ॥३३॥
सायुधानां गणेशानां महेशसमतेजसाम् ॥३३॥
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥३४॥
तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥३४॥
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥३५॥
देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥३५॥
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥३६
ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥३६॥
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥३७॥
क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥३७॥
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥३८॥
तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥३८॥
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥३९॥
अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥३९॥
देव्युवाच
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥४०॥
स देवस्सांप्रतं तात विधिना नार्चितः किल ॥४०॥
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥४१॥
असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥४१॥
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥४२॥
त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥४२॥
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥४३॥
गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥४३॥
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥४४॥
तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥४४॥
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥४५॥
शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥४५॥
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥४६॥
वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥४६॥
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥४७॥
त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥४७॥
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥४८॥
सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥४८॥
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥४९॥
तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥४९॥
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥५०॥
तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥५०॥
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥५१॥
तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥५१॥
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥५२॥
स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥५२॥
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥५३॥
तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥५३॥
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥५४॥
दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥५४॥
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥५५॥
पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥५५॥
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥५६॥
उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥५६॥
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥५७॥
प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥५७॥
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥५८॥
धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥५८॥
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥५९॥
स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥५९॥
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥६०॥
प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥६०॥
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥६१॥
अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥६१॥
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥६२॥
महेशः कृतवान्विघ्नं मना ववस्वते सति ॥६२॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP