संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|पूर्व भागः| अध्यायः ४ पूर्व भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ विषयानुक्रमणिका वायवीयसंहिता पूर्वभागः - अध्यायः ४ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ४ Translation - भाषांतर सूत उवाचतत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥१॥प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥१॥नैमिषीया ऊचुःभवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥२॥कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥२॥वायुरुवाचएकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥३॥तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥३॥तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥४॥दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥४॥श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥५॥दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥५॥तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥६॥प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥६॥ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥७॥असृजत्सर्वभूतानि स्थावराणि चराणि च ॥७॥यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥८॥ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥८॥मुनय ऊचुःकिं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥९॥यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥९॥वयुरुवाचपशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥१०॥तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥१०॥अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥११॥ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥११॥अजडं च जडं चैव नियंतृ च तयोरपि ॥१२॥पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥१२॥अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥१३॥तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥१३॥अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥१४॥क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥१४॥मुनय ऊचुःकिं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥१५॥तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥१५॥वायुरुवाचप्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥१६॥ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥१६॥मुनय ऊचुःकैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥१७॥अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥१७॥वायुरुवाचमाया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥१८॥संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥१८॥मुनय ऊचुःकेयं माया समा ख्याता किंरूपो मायया वृतः ॥१९॥मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥१९॥वायुरुवाच॥माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥२०॥मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥२०॥मुनय ऊचुःआवृणोति कथं माया व्यापिनं केन हेतुना ॥२१॥किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥२१॥वायुरुवाचआवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥२२॥हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥२२॥मुनय ऊचुःकलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥२३॥तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥२३॥कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥२४॥मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥२४॥वायुरुवाचकला विद्या च रागश्च कालो नियतिरेव च ॥२५॥कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥२५॥पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥२६॥अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥२६॥भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥२७॥बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥२७॥भावातिशयलब्धेन प्रसादेन मलक्षयः ॥२८॥क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥२८॥मुनय ऊचुःकलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥२९॥भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥२९॥किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥३०॥किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥३०॥वायुरुवाचदिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥३१॥कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥३१॥अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥३२॥प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥३२॥कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥३३॥सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥३३॥सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥३४॥प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥३४॥सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥३५॥राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥३५॥सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥३६॥मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥३६॥तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥३७॥ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥३७॥प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥३८॥समासादेवमव्यक्तं सविकारमुदाहृतम् ॥३८॥तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥३९॥व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥३९॥यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥४०॥शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥४०॥तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥४१॥शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥४१॥मुनय ऊचुःबुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥४२॥आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥४२॥वायुरुवाचबुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥४३॥अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥४३॥बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥४४॥स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥४४॥अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥४५॥अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥४५॥सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥४६॥तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥४६॥नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥४७॥मनसैव प्रदीप्तेन महानात्मावसीयते १॥४७॥न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥४८॥नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥४८॥अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥४९॥सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥४९॥किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥५०॥अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥५०॥यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥५१॥अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥५१॥विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥५२॥सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥५२॥अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥५३॥आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥५३॥अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥५४॥अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥५४॥आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥५५॥अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥५५॥छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥५६॥चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥५६॥अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥५७॥अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥५७॥नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥५८॥पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥५८॥यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥५९॥समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥५९॥स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥६०॥तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥६०॥ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥६१॥पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥६१॥स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥६२॥लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥६२॥अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥६३॥ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥६३॥सूत उवाचइत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥६४॥प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥६४॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP