संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|पूर्व भागः| अध्यायः १७ पूर्व भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ विषयानुक्रमणिका वायवीयसंहिता पूर्वभागः - अध्यायः १७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १७ Translation - भाषांतर वायुरुवाचएवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥१॥स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥२॥विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥३॥सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥४॥तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥५॥कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥६॥स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥७॥आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥८॥स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥९॥श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥१०॥पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥११॥ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥१२॥भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥१३॥ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥१४॥धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥१५॥निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥१६॥स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥१७॥भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥१८॥सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥१९॥यथासृजदसंख्यातांस्तथा कथितमेव च ॥भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥२०॥देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥२१॥स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥मरीचेरपि संभूतिः पौर्णमासमसूयत ॥२२॥कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥२३॥स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥२४॥तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽ तरे ॥२५॥तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥२६॥कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥२७॥क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥२८॥षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥२९॥अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥३०॥सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥३१॥तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥३२॥ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥३३॥रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥३४॥गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥३५॥इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥३६॥यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥३७॥पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥३८॥सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥३९॥त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥४०॥काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥४१॥सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥४२॥तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥४३॥नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥४४॥ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥४५॥तस्मादेते पितर आर्तवा इति च श्रुतम् ॥एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥४६॥आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥४७॥अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥४८॥मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥४९॥मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥५०॥मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥५१॥स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥५२॥सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥५३॥आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥५४॥सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥५५॥सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥५६॥येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥५७॥इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥५८॥वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥५९॥प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥६०॥राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥६१॥इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥६२॥अन्ये च राजऋषयो नानावीर्यसमन्विता ॥किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥६३॥किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥६४॥प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥६५॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP