संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|तत्वमुक्ताकलापे| अद्रव्यसर: तत्वमुक्ताकलापे जडद्रव्यसर: जोवसर: नायकसर: बुद्धिसर: अद्रव्यसर: तत्वमुक्ताकलापे - अद्रव्यसर: वेदान्त देशिक उर्फ वेंकटनाथ (१२६८-१३७०) हे वैष्णव गुरू, कवि, भक्त, दार्शनिक आणि आचार्य सुद्धां होते. Tags : sanskritvedant deshikवेदान्त देशिकसंस्कृत अद्रव्यसर: Translation - भाषांतर तत्तद्द्रव्येषु दृष्टं नियतिमदपृक्सिद्धमद्रव्यजातंतद्वद्विश्वं परस्य व्यवधिनियमनात्र स्वरुपेऽस्य दोष: इत्थं निर्धायं भाग्ये भगवति विविधोदाहृतिव्यक्तिसिद्धये निर्बाधान् द्रव्यधर्मान्निरनुगतिअलद्दुर्नयान्निर्णयाम्: ॥१॥व्याख्यातं द्रव्यषटक् व्यतिभिदुरमथाद्रव्यक्तिन्ताऽस्य सत्ताधीमेदादे: पुरोक्ता निजगदुरनृपादानतां तस्य लक्ष्म ।द्रव्यादत्यन्तभिन्नं त्विदमनुपधिकं तद्विशिंष्यात् स्वभावात् दृष्टे न ह्यस्त्ययुक्तं न कथमितरथा विश्वत्तत्त्वापलाप: ॥२॥अद्रव्यं द्रव्यसिद्धौ तदुपहिततया तच्च लक्ष्येत तस्मा-देकासिद्धो द्वयं नेत्यपि न सदुभयान्योन्यवैशिष्ट्यदृष्टे: ।आधारे द्रव्यशब्दस्तदधिकरणकेऽनाश्रये त्वन्यदित्यं व्युत्पत्तिर्विश्वहृद्या न तदपलपति स्वर्गकर्णीसुतोऽपि ॥३॥सामान्यात्मा विशेषाकृतिरपि यदि न स्वीकृतो धर्मवर्ग: स्यातां न भ्रान्तिबाधौ न किमपि कथकास्साधयेयु: स्वसाध्यम् ।यस्मिन् बाधानवस्थे क्वचन न खलु तन्नीतिरन्यत्र दृष्टे नो चेन्निश्शेषकुक्षिम्भरिरुपनिपतन् दुस्तरस्शून्यपक्ष: ॥४॥चादीनां वृत्तियोग्यं यदुत पदविदोऽसत्त्वमद्रव्यमाहु-र्नेतावत्तन्मृषात्वं गमयति न च तद्बाधकं किंचिदस्ति ।तात्पर्यं चान्यदत्र स्फुटविदितमतस्तत्र सत्त्वेतरत्वा-दन्य: कश्चिन्नत्रर्थ: परमिह निपुणैर्द्योतकत्वादि चिन्त्यम् ॥५॥आहुर्द्रव्येषु धर्मान् कतिचन गुणपर्यायवेषम्यभिन्नान् पर्यायाणां गुणत्वे स्थितवति सहजागन्तुतामात्रमेतत् ।मिथ्याभूतान् विकारानभिदघति परे सत्यरुपान् स्वभावान् तानेकद्व्यादिरुपानभिदधतु कथं निर्गुणानां क्षणानाम् ॥६॥बाह्येर्थे बौद्धतोका: किल जननजराभड्गरुपान् विकारा-नाद्यन्तो चित्तचेत्तेष्वपि जगदुरमी तत्त्स्वरुपं न वा स्यु: ।पूर्वस्मिन्नक्रम: स्यादुपरि तु न कथं तस्य धर्मास्तु एते तन्मिथ्यात्वे तु नित्यं निखिलमपि भवेत्तुच्छमेवान्यदा स्यात् ॥७॥आदावैक्येन बुद्धिर्द्वयमपि मिलितं गृह्यती व्यक्तिजात्यो-र्भेदाभेदाविरोधं दिशति यदि न तत्तद्विशिर्ष्टंक्यबुद्धे: ।इत्थंत्वेदंत्वशून्यं न हि किमपि कदाऽप्यर्भंकोऽपि प्रतीया-त्तद्वेशिष्ट्यप्रतितिर्निरुपधिरपृथक्सिद्धिमात्रेण सिध्येत् ॥८॥व्यक्त्या जातेरमेदं यदि वदसि पृथकसिद्ध्यभावादिलिड्गै-र्भेदाभावोऽक्षबाध्यस्तव च न हि मतो नान्यथाऽत्रास्य मुक्ति: ।धर्म्येक्यादेकवाक्स्यान्न तु भवति ततो धर्मंधर्म्येक्यबुद्धि-स्तद्वोधश्चाप्युपाधिर्न स इह भवता दृश्य इत्यभ्युपेते ॥९॥सत्त्वान्नैकान्तमाहुर्विमतमितरवत् केऽपि तद्धोविरुद्धं न ह्यत्राकारभेदात् परिहृतिरनवस्थानदोषप्रसड्गात् ।स्वव्यापारोक्तिचयर्यासमयनियतयोऽप्येवमेवाकुला: स्यु-र्दृष्टान्तेऽपि ह्य पाधिद्वयवति नियतस्थौल्यसौक्ष्म्यादियोग: ॥१०॥सिद्धे वस्तुन्यशेषै: स्वमतमुभयथा वर्ण्यते तत्रतत्र स्यादर्थस्यैकरुप्ये कथमिदमिति चेत्तन्न भिन्नाशयोक्तै: ।मन्तव्या वैभवोक्ति: क्वचिदनभिमते संशयोक्ति: क्वचिद्वा भाग (द्वन्वा) द्वैतान्नूसिंहभूतिषु घटते चित्रसंस्थानयोग: ॥११॥स्यादस्ति स्याच्च नास्ति द्वितयमनुभयं स्यात्तिभिश्चान्तिमं त्रि-स्सैषोक्ता सप्तभड्गो जिनसमयजडैर्द्रव्यपर्यायवर्गे ।इष्टां सार्वत्रिकीं तां स्वपरमतकथातत्फलादौ विविक्षन् कक्षीकुर्वीत धूत: कथकपरिषदा कां दिशं कान्दिशीक: ॥१२॥भेदे वस्तुस्वरुपे भ्रम इह न भवेद्धर्मपक्षेऽनवस्था स्याद्वाऽन्योन्याश्रयादिस्तदयमनृत इत्युक्तिबाधादिदु:स्थम् ।धर्म: क्वापि स्वरुपं क्वचिदिति च यथादृष्टि नोक्तप्रसड्गौ यद्दृष्ट्या यत्र यस्याध्यसनपरिह्यतिस्सोऽस्य तस्मात्तु भेद: ॥१३॥भेदो गृह्येत बुद्धध्वाऽधिकरणमवधिं चेति न ह्यक्रमोऽस्मिन् प्रत्यक्षस्य क्रमोऽपि क्षणभिदुरतया नेति तुल्यं भ्रमेऽपि ।अक्षान्धादिव्यवस्थाक्षतिरपि युगपद्योग्यधर्मेर्ग्रहोऽत-स्तद्युक्ते भिन्नशब्द: कथिततदुपधिज्ञप्त्यपेक्ष: क्रमात्स्यात् ॥१४॥अद्रव्ये नैकरुपे ह्यगणिषत गुणा: सत्त्वमुख्या द्विधाऽऽद्यं शुद्धं तन्नित्यभूतौ त्रितयमिह चतुर्विंशतौ व्याप्तित: स्यात् ।पञ्चान्ये शब्दपूर्वा अपि परिगणिता भूतवर्गेष्वथान्य: संख्यानादिश्च भेद: परिणमति यथासंभवं द्रव्यवर्गे ॥१५॥स्थित्युत्पत्त्यन्तलीलाविधिषु भगवताऽधिष्ठिता: शास्त्रवेद्या: सत्वाद्या: स्थूलसूक्ष्मप्रकृतिगतगुणा हेतुभूतास्सुखादे: ।साम्ये तेषां त्रयाणां सदृशपरिणति: स्यादिहान्यान्यश्चात्वे क्लृप्ताऽन्यैर्द्रव्यतैषां श्रुतिपथविहता कुत्रचित्तूपचार: ॥१६॥बुद्धित्वादि: प्रधाने समपरिणतिरित्येवमागन्तुधर्मा: द्रव्येष्वनेषु चान्ये कतिचन कथिता: केचिदध्यक्षसिद्धा: ।आनन्त्यादर्थमान्द्याद् दुरवगमतया सूक्ष्मवैषम्यभेदे-रैकेकश्येन चिन्तामिह जहति बुधा निश्चितापेक्षितार्था: ॥१७॥शब्दाद्यास्तत्तदक्षप्रतिनियतिजुषस्सर्वंतन्त्रप्रसिद्धा-स्तैरेकद्वयादिसंख्यैर्द्युपवनहुतभुग्वारिभूभ्यस्समेता: ।पञ्चीकारादिनैषां विनिमितगुणता व्योमनैल्यादिबोधे तद्योगात्तत्र तत्तद्गुणजनिरिति चेन्नान्यथाऽत्रोपत्ते: ॥१८॥कस्तूरीचम्पकादौ समविषमतया सम्मतस्सौरभादि-स्तद्वच्छब्दादयोऽमी त्रिगुणतदधिकद्रव्यनिष्ठा गुणा: स्यु: ।निष्कृष्टे शास्त्रदृष्ट्या न कथमपि मिथस्संकरश्शड्कनीय: स्वाच्छन्द्याच्छड्कमान: स्वमिव सुरगुरुं किं न शड्केत मुग्धम् ॥१९॥शब्दो नैकेषु युक्त्याऽप्युचित इह पुन: पारिशेष्यं तु मन्दं वायुश्शब्दस्वभावश्श्रुतिशिरसि यत: स्मर्यते च स्वरात्मा ।गन्धालोकादिनीतिं यविह निजगदुर्यामुनाद्यास्ततोऽपि स्पष्टो भेर्यादिनिष्ठोऽयमिति गतिवचो गन्धवत्तद्वि (शेषे) शिष्टे ॥२०॥सत्यान् सत्यापयन्त: कतिचन चतुर: स्पर्शरुपादिधातून् शब्दं स्वार्हाक्षिसिद्धं चतुरधिकरणं प्राहुरेभ्यो न भिन्नम् ।किं तद् भेदाप्रतीते: प्रबलविहतितस्संमतैक्यप्रमात: स्वाच्छन्द्याद्देशनाया विभवत इति वा वीक्ष्य शिष्टा विजह्य: ॥२१॥शब्दोऽवस्थाविशेष: श्रुतिभिरभिहितस्तेन नैष स्वनिष्ठोव्योमादेश्चाविभुत्वात् क्वचिदपि न तु तत्सन्निधिस्तद्विदूरे ।साक्षादक्षाप्तिसाक्षात्कृत इति घटवद् द्रव्यमित्यप्यसारं साध्यात् प्राग्धेत्वसिद्धेर्नं हि परमतवन्नाभसं श्रोत्रमत्र ॥२२॥वर्णानां सध्वनीनामभिदधति हरिद्वासस: पुद्गलत्वंनाक्षादेस्सिद्वमेतन्न च तदबिमते शब्दित: शब्दशब्द: ।सूक्ष्मद्रव्ये हि धर्म: श्रुतिविषयदशालक्षणो दुस्त्यजस्तै-स्तस्मान्नास्मत्समीक्षामतिपर्तितुममी शक्तुयुस्तद्वदन्ये ॥२३॥वर्णे स्थैर्यं विरुद्धान्वयविरहवति प्रत्यभिज्ञा नियच्छे-त्तैव्र्यादिव्यञ्जकस्थं भ्रमवशघटितं तत्र कल्प्येत दिग्वत् ।एकाक्षग्राह्यसंवित्प्रतिनियतिरपि ह्यञ्जनादाविव स्या-द्व्यक्त्या स्यात् कार्यंताधीर्यदि न निगदितो नैगमैरस्य नाश: ॥२४॥ध्वन्यात्मा वायुभेद: श्रुतिविषयतयाऽपाठि तौतादिताद्यै: तद्वत् पञ्चाशदेते समकरणतया वर्णिता: किं न वर्णा: ।तैव्रयादिर्वर्णधर्मो नियत इति यथादर्शनं स्थापनीयं स्पर्शादौ चैवमिष्टं तदिह न सुलभा द्रव्यता नित्यता च ॥२५॥शब्दानित्यत्वतोऽपि श्रुतिषु न विलय: स्यात् क्रमव्यक्तिनीत्यातन्नित्यत्वे च काव्यादिकमपि न कथं नित्यमित्यभ्युपैषि ।तस्मानित्यैकरुपक्रमनियमवशान्नित्यभाव: श्रुतीना-मीशोऽप्यधापको न: पर (मि) मतिचकितैर्वर्णनित्यत्वमुक्तम् ॥२६॥नैष्वोष्णौ नापि शीतौ क्षितिसततगती तत्र तोयादियोगात् शीतत्वादिप्रतितिस्तदुपधिकतया तत्रतत्रैव दृष्टे: ।आयुर्वेदे तुषारो मरुदिति कथनं त्वद्भिराप्यायिकाभि-र्वृद्धिह्वसौ समाद्येर्भवत इति परं तच्चिकित्सानियत्यै ॥२७॥स्यादुष्ण: कृष्णवर्त्मा सलिलमपि तथा शीतमस्तु प्रकृत्या स्पर्शोऽन्योप्यत्र दृष्टस्य तु भवतु रुमाक्षिप्तलावण्यवच्चेत् ।मैवं संसृष्टवस्तूधिनियततया तद्विवेकस्य युक्ते: प्रायश्शीतो भवेतिप्रभृतिकमपि तद्दाहकत्वादिरोधात् ॥२८॥पीता भू: श्वेतमम्भो हुतवहपवनौ रक्तधूम्रौ तथा द्यौ-र्नीलेति क्वापि शिष्टं तदिह न नियतां वर्णसत्तां ब्रवीति ।ध्यानार्थं मन्त्रवर्णॊष्विव कथितमिदं व्योमवाती ह्यरुपौ पीतैकान्त्यं भुवोऽक्षश्रुतिहतमथ तत्प्राचुरी साऽस्तु मा वा ॥२९॥कृष्णामाम्नासिषु: क्ष्मां तदिह न विरहं वक्ति रुपान्तराणां प्रत्यक्षादेर्विरोधात्पचनविषमितं स्पर्शगन्धादि चास्या: ।पाश्चस्तैजोविशेषे स्फुरति वसुमति भागतो वर्णभेदो न ह्यम्भ: क्वापि दृष्टं विपरिणतगुणं पाकसंस्कारतोऽपि ॥३०॥आरब्धं रुपभेदेरवयवनियतैश्चित्रमन्यत्तु रुपंकाणादा: कल्पयन्त: क्व तदिति कथयन्त्वंशतस्तद्विकल्पे ।नांशेष्वेतत्तदिष्टं न च तदभिहित: कश्चिदंशीति तूक्तं स्वाधारव्यापकत्वं सुगममिह तथा स्पर्शगन्धादिचैत्र्यम् ॥३१॥स्नेह: प्रत्यक्षसिद्धो यदुपधिरुवके स्निग्धधीस्स द्रवत्वा-त्तोयत्वाच्चातिरिक्त: क्वचिदिह यदसौ भाति ताभ्यां विनाऽपि ।सौवर्णादिद्रवाणां न च भवति यत: पांसुसंग्राहकत्वंपर्यायानुक्तिरस्मिन् भवति विषमता चेति केचिद् गृणन्ति ॥३२॥अन्ये स्नेहं तु रुपं किमपि निजगदु: स्निग्धवर्णोक्त्यबाधात् इष्टवात् दुस्त्यजं तद्भवति खलु भिदा काऽपि गन्धादिकेऽपि ।अत्प्वादे: पांसुसड्गस्सुगममिदमयस्कान्तजात्यादिनीत्या न ह्यन्यत्तत्र क्लृप्तं न च न दृढमितं पार्थिवे पिच्छिलत्वम् ॥३३॥मासृण्यादिप्रभेदोपहितगुरुतयाऽबादिनिम्नाभिमुख्यं माषव्रीह्यादिराशौ भवति च पतने तादृशं ताततम्यम् ।किंचादृष्टान्यक्लृप्तिर्ज्वलनपवनयोर्न क्रियायां तथाऽस्मि-न्नित्येकेऽन्ये तु दृष्ट्वा गुणमधिकमुशन्त्यादिमस्यन्दहेतुम् ॥३४॥तोये दृष्टं स्वभावाद् घृतकनकमुखे पाकजन्यं द्रवत्वं तैलादौ नैव पाकानुगम इति भवेत्तादृशाबंशक्लृत्पि: ।भस्मीभावाद्यनर्हे यदुत कणभुजा सूत्रितं तेजसत्वं हैमादिश्लिष्टभौमावयवनयविदाम्त्थमेतन्न ह्यद्यम् ॥३५॥पातस्तुल्योऽम्बुभूम्यो: पवनदहनयोस्तिर्यगूर्ध्वप्रवृत्त्या पाते भेदात् पलादिप्रतिनियतिरपि ह्यंशवैषम्यत: स्यात् ।भागानां तारतम्याज्जलशिखिमरुतां स्यन्दनादे (र्भिदेष्टा) र्विशेष-स्तस्मात् सर्वोऽप्यदृष्टादिह भवतु न चेत् स्याद् गुणोऽन्योनलादौ ॥३६॥त्वकसंवेद्यं गुरुत्वं कतिचिदभिदधुस्तत्तु तेषां गुरुत्वंनोर्ध्वं स्पृष्टवा प्रतीमस्तविह परघृते नाप्यधस्तात्स्पृशन्त: ।न ह्यन्यालम्बितोऽर्थो भवति लघुतर: स्पर्शनं नोपरुद्धं तेनाक्रान्तौ प्रणुत्तिक्रम इति गुरुणा तर्कितस्तोलनाद्यै: ॥३७॥क्षित्यादौ सांख्यदृष्ट्या यदि किमपि तम (:) स्कार्यमिष्टं गुरुत्वं तद्वत् कल्प्येत वह्निप्रभृतिषु न कथं सत्त्वकार्यं लघुत्वम् ।यादृग्भूताद् गुणात्तद्वदसि च पतनं तादृशादस्तु तस्मात् क्लृप्तिस्त्वन्यस्य गुर्वी भवतु तदधिकं काममाप्तोपदेशात् ॥३८॥एकव्द्यादिप्रतीव्यवहृतिविषयो यो गुणस्सा तु संख्या क्वाप्यैक्यं नित्यसिद्धं क्वचिदवयवगैर्जन्यते तत्तदैक्यै: ।द्वित्रित्वाद्यं त्वनेकावगतिसहकृतैकेकनिष्ठैक्यजन्यं तत्तल्पुंमात्रदृश्य़ं क्षणिकमिति कथा काऽपि कौतस्कुतानाम् ॥३९॥तत्र द्वित्वाद्यपेक्षामतिविषभिदामात्रमेवास्त्वभीष्टं द्वित्वाद्युत्पत्तिमूलं यदभिलपसि तव्द्याह्रतेरस्तु मूलम् ।द्वित्वादिप्रागभावैध्रुवमिह हि विना धीविशेषोऽभ्युपेय: तन्मूलं निर्गुणानां विगणनमपि च स्थापनीयं गुणानाम् ॥४०॥केवल्यं नैकसंख्यापरविरहतया नापि मुख्यान्यभावौ सड्घातैक्यं तु राशिक्रममवयवि तु प्राडनिरुस्तं ततोऽन्यत् ।तेनासड्घातरुपे क्वचन निरुपधि: स्यादसावेकसंख्या स्वाधाकरेकायुरेषा परमुपचरिता सेयमद्रव्यवर्गे ॥४१॥ऐक्यं स्वाभेदमाहु: कतिचन न भिदाऽस्त्येकमेवेति दृष्टे-र्भेदादृष्ट्यैक्यमोहस्तदिति च वचनं तत्रतत्राभ्युपेतम् ।अन्ये त्वेतत्स्वसत्वं विदुरितरसमुच्चित्यवस्थातुवृत्तं तत्पक्षेऽपि स्वरुपादधिकमिदमिह द्वित्वमोहादिसिद्धे: ॥४२॥अन्यत् गृह्वात्यभिज्ञा तदिदमिति पुन: प्रत्यभिज्ञाऽन्यदेक्यं कालक्षेत्रादिभेदग्रहजनितभिदाभ्रान्तिशान्तिस्तत: स्यात् ।मोहस्तत्रैकताधीर्ज्वलन इव भवेत् प्रत्यभिज्ञा त्वतश्चेत् स्वव्याघातोऽनुमाया भ्रम इह निखिला स्यादभिज्ञाऽपि तद्वत् ॥४३॥अद्रव्येऽप्यस्ति संख्याव्यवहृतिबलतस्सा ततोऽन्या गुणादे: मैवं संख्यासु संख्याव्यवहृतिवदियं स्यात्त्विहोपाधिसाम्यात् ।नो चेत्प्राप्ताऽनवस्थाव्यवहृत्तिनियतिस्थापनं तुल्यचर्चं तस्मात् काणाकक्लृप्तिर्गुरुमतकथकेर्युक्तमत्रापि सोढुम् ॥४४॥देशाधिक्यादिसिद्धावपुधिभिरिह तद्युक्तसंयोगभेदात्देशव्यप्तिप्रभेद: परिमितिरिति चेन्नोपधीनां मितत्वात् ।देशैस्तन्न्यूनतादौ प्रसजति हि मिथस्संश्रयस्तत्स्वतस्सामन्तव्या क्वापि राशिप्रभृतिषु तु परं देशसंबन्धभेद: ॥४५॥बौद्धास्तुच्छामणूनामभिदधति परिच्छित्तिमाकाशधातुंवस्तुस्थित्या परिच्छित्त्यभवनशतस्स्यादमीषां विभुत्वम् ।अन्यत्रासत्त्वरुपा परिमितिरिति हि स्थापितं सा मृषा चेत्प्राप्तं सर्वत्र सत्त्वं प्रथमसरगता स्मर्यतां व्योम्नि युक्ति: ॥४६॥स्थूलाणुह्वस्वदीर्घेतदुपनिषदि स्थापितं ब्रह्म तस्मिन् सर्वोत्कृष्टं महत्वं श्रुतमपि तदिह स्थूलतान्या निषिद्धा ।अन्ये त्वाहुर्विभूनामपरिमितवच: प्रत्ययान्मित्यभावंभावैकात्मन्यभावे परिमितिविरहोऽप्यत्र भावान्तरं स्यात् ॥४७॥नात्यन्ताणोर्महत्ताऽस्त्यवयविनि हते मध्यमं क्वास्तु मानंतद्धेतुष्वेव तद्धीरपि तव घटते लाघवोत्कण्ठितस्य ।एवं त्यक्ते महत्त्वे परममहदपि त्याज्यमेवेति चेन्नत्यागाभावात्तदिष्टादधिकमनधिकं वाऽस्तु न क्वापि दोष: ॥४८॥द्रव्यं कृत्त्स्नं स्वभावात् परिमितिरहितं व्यापकैकत्वयुक्ते-रौपाधिक्यंशक्लृप्तिर्घटगगननयात्स्यादवस्था ह्युपाधि: ।स्वाभावैर्वेष्टितत्वं घट्त इह घटाद्याकृतौ द्रव्यधर्मेपार्श्वोक्तिस्तावता स्यादिति न सदवधेरन्यथाऽप्यत्र सिद्धे ॥४९॥अव्यक्ते स्यादणुत्वप्रभृतिपरिणति: स्तम्भकुम्भादिनीत्या नाणुक्तं पूर्वसिद्धं नरमृगरचनाद्यप्यवस्थाक्रमेण ।इत्युक्तं सांख्यशैवप्रभृतिसमयिभिस्तत्तथैवास्तु मा वानित्याणौ जीवतत्त्वे न कथमपि भवेदण्वस्थाप्रसूति: ॥५०॥चर्चा तुल्येव भिन्नं पृथगितरदिति प्रत्यये तत्पृथक्त्वंभेदाख्यो नीलपीतप्रभृतिरभिमत: मुधाऽन्यस्य क्लृप्ति: ।नाप्यज्ञातावधीनां पृथगिदमिति धोर्नापि भिन्नादिवाचांसाकं क्वापि प्रयोगो न च पृथगिति चोर्द्रव्यं एवेति सिद्धम् ॥५१॥तत्त्वादोनां पटादिव्यवहृतिनियता दृष्यते काऽप्यवस्था सा चेद् द्रव्यस्वरुपं भवति विफलता कारकव्यापृतीनाम् ।तत्रासंयुक्तबुद्धि: कथमिव च भवेत् स्थेर्यवादस्थितानां नैरन्तर्यं च भावो मम तदघटितं मध्यमेवान्तरं च ॥५२॥सर्वं द्र्व्यं सभागं न यदि कथमुपाध्यन्वयो भागत: स्यात् कात्सर्न्येनोपाधियोगे कथमणुविभुनोस्सूक्ष्मतादीति जैना: ।सामग्रीशक्तिभेदप्रजनितविविधोपाधियोगस्वभावा-दौपाधिर्क्यंशक्लृप्ति: कथमिव न भवेद् द्विष्ठसंबन्धदृष्टे: ॥५३॥नैरन्तर्यं विभूनामपि भवति ततोऽन्योन्ययोगोऽपि योग्य: केचित्, तं हेत्वभावाज्जहति विहतिकृन्नित्यधीकल्पने तत् ।स्याद्वा तत्सिद्व्यसिद्ध्योरनुमितिपटुबोधहानेर्विपक्षे शास्त्रैरन्यद्विभु: स्यात् परधृतमपृथक्सिद्धिरेवं तताऽस्य ॥५४॥संयोगाद्विश्वसृष्टि: प्रकृतिपुरुषयोस्तादृशेस्तद्विशेषै: ब्रह्मादिस्तम्बनिष्ठा जगति विषमता यन्त्रभेदादयश्च ।अक्षाणामर्थयोगाद्विविधमतिरबाद्यन्वयादड्कुरादि: शुद्धाशुद्धादियोगान्नियतमपि फलं न्यायतत्त्वे (स्य) न्यघोष: ॥५५॥संयुक्ते द्रव्ययुग्मे सति समुपनतो यस्तु संयोगनाश:संग्राह्योऽयं विभागव्यहृतिविषयस्सोऽपि तद्धेतुत: स्यात् ।त्वन्निर्दिष्टे विभागे गतवति च सतो: स्याद्विभक्तप्रतिति: भूयस्संयोगसिद्धो कथमिति तु यथा त्वद्विभागान्तरादौ ॥५६॥कोऽसौ संयोगनाशस्तव मत इति चेत् सोऽयमन्यत्र योग-स्तस्य प्राचा विरोधात् स तु मिषति तथाऽऽलाचितस्त (स्य) द्विनाश: ।अज्ञातप्राच्ययोग: परमभिमनुते सेन रुपेण चैनं सर्वोऽप्येवं ह्यभाव: स्फुटमिह न पुन: कश्चिदन्योऽस्ति दृष्ट ॥५७॥स्पन्दावृत्त्यादिभेदात् परमपरमिति प्रत्ययो तत्तदर्थे कालाधिक्यादिमात्रान्न खलु समधिकं शक्नुयातां विधातुम् ।दृष्टिर्नान्यस्य क्लृप्तिर्भवति गुरुतरातिप्रसड्गोऽन्यथा स्यात् किं न स्यातां गुणाद्यै: परतदितरते पूर्वभावादि चान्यत् ॥५८॥द्रव्यं प्राग् बुद्धिरुक्ता परमिह विषयैस्सड्गमादिर्निरुप्य-स्संयोगं भाष्यकारा: प्रथममकथयन्न्यायतत्त्वानुसारात् ।तत्संयोगे समेऽपि स्फुरति न निखिलं तेन योग्यत्वमन्यत् ग्राह्यं संबन्धसाम्ये नियतविषयता दृश्यते हिन्द्रियेषु ॥५९॥नित्यं नित्यादिबुद्धिर्निखिलविषयिणी तद्वदेव स्वभाव: शास्त्रे: क्षेत्रज्ञबुद्धेरपि समधिगत: कर्मभिस्तन्निरोध: ।संकोचोल्लासयोश्च प्रतिनियतिरिह स्यादुपाधिप्रभेदा-न्निश्शेषोपधिमोक्षे निखिलविषयतामश्नुवीत स्वभावात् ॥६०॥मुक्तानां धी: क्रमाच्चेत् प्रसरति न कदाप्यन्तमेषाऽधिगच्छेत् संक्षिप्तायाश्च दूरान्तिकपरिपतने योगपद्यं न शक्यम् ।संयोगो भूतभा (वि) व्येष्वपि न हि घटते तद्धि यस्सांप्रतिक्या इत्याद्येर्न क्षति: स्यात् श्रुतिमुखविदिते योग्यतावैभवेऽस्या: ॥६१॥वेगस्याचिन्त्यरुपो रविशशिनयनाद्यंशुवर्गेषु भूमा भागानन्त्येऽप्यणूनामतिपतनमतो ह्याहुरन्योन्यमेके ।इत्थं सर्वैरबाध्यां गतिमनुवदतां मुक्तबुद्धेर्विकासे युज्यन्ते यौगपद्यप्रभृतय इति तु श्रद्दधीध्वं श्रुतार्था: ॥६२॥यत्सूक्ष्मं विप्रकृष्टं व्यव्यहितमपि तद् गृह्नती योगिबुद्धि-र्भूयिष्ठादृष्टलब्धातिशयकरणवृत्त्यानुगुण्येन सिद्धा ।नष्टादिष्वक्षतो धी: कथमिति यदि न प्रत्यभिज्ञादिनीते-श्चित्रास्संबन्धभेदा: करणविषययोस्तत्र तत्राभ्युपेता: ॥६३॥नित्याया एव बुद्धेस्स्वयमभिदधत: केचिदद्रव्यभावं संबन्धं धर्मतोऽस्या: कृतकमकथयन् भूषणन्यायसक्ता: ।स्वाभीष्टद्रव्यलक्ष्मस्मृतिविरहकृतं नूनमेषां तदेतत् सौर्त्रं तल्लक्षणं तैरनुमतमिह च स्याद्धि कार्याश्रयत्वम् ॥६४॥प्राकट्यं नाम धर्मं कतिचन विषये बुद्धिसंबन्धजन्यं मन्यन्ते तन्न दृष्टं व्यवहरणविधावानुगुण्यं तु भानम् ।क्वापि स्वाभाविकं स्यात् क्वचन भवति धीर्गोचरत्वात्मकं तत्भातीत्यादिप्रयोग: स्वदत इति नयात्तत्र कर्मंत्वगर्भ: ॥६५॥इष्टद्विष्टप्रनष्टादिषु च परगतै: कथ्यतेऽन्यद्विशिष्टं ज्ञातत्वोक्तावपीत्थं व्यवहृतिनियमास्तावतैवोपपन्ना: ।प्राकट्येऽस्मिन् गुणादिष्वपि कथमधिकं भूतभव्येषु च स्यात् कर्मत्वं तु क्रियार्थे सति फल इति च प्रायिकव्याप्तिहाने: ॥६६॥आधत्ते धी: क्रियात्वात् किमपि गमनवत् कर्मंणीत्यप्य (सारं) युक्तंदत्तानेकोत्तरत्वान्न च फलमधिकं भाति हानादिमात्रात् ।हेतुर्धात्वर्थता चेदतिचरणमथ स्पन्दता स्यादसिद्धि-र्धीस्वारस्यानृशंस्यादनुमतमधिकं कैश्चिदस्मत्सयूथ्यै: ॥६७॥इच्छाद्वेषप्रयत्ना: सुखमितरदपि ज्ञानतो नातिरिक्ता या धीस्तद्धेतुरिष्टा न तदधिकतया कल्पने कोऽपि लाभ: ।पर्यायत्वं विशेषे न तु भवति यथा प्रत्यभिज्ञादिभेदे नो चेदीर्ष्याभ्यसूयाभयघृतिकरुणाद्यन्यदऽन्यच्च कल्प्यम् ॥६८॥चेतस्त्रोतस्स्त्रुतीनां चिदवधिकतया चैत्तसड्केतभाजांरागद्वेषादिकानामभिदधतु कथंभावमस्थेमभावा: ।एतेषां हेतुसाध्यक्रमनियतिमतां सर्वंचित्साक्षिकाणां कथ्येतातथ्यभावे कथमिव कथकद्वन्द्वयुद्धावतार: ॥६९॥तत्रेच्छैव द्वोधोक्ता विषयनियमतो रागविद्वेषनाम्ना पूर्वस्तीव्रस्तु काम: पर इह भजते तादृश: क्रोधसंज्ञाम् ।एकैवेच्छा सिसृक्षा भगवत उदिता संजीहीर्षेति चान्यै-स्तद्वल्लोके न किं स्यादधिकमिह तु चेल्कल्प्यतेऽतिप्रसक्ति: ॥७०॥इच्छात: कार्यसिद्धौ किमिह यतनमित्यन्तरा कल्प्यतऽन्य-त्तन्मोषत्वोपलब्धेरिति यदि यतने कल्पितेऽप्येतदेवम् ।मैवं व्यावर्तमानादनुगतमधिकं वर्ण्यते मानविद्ऽभि: वाञ्छन्तोऽपि ह्ययत्ना वयमिह पवनस्पन्दनेन्दूवयादौ ॥७१॥प्राणस्पन्दस्सुषुप्तिप्रभृतिषु घटते तादृशादृष्टमात्रात् यत्त्वं यत्ने निदानं वदसि भव (तु) ति तल्लाघवात् प्राणवृत्तौ ।धीवृत्तिश्चैव यत्न: स्थित इति स कथं काष्ठकल्पे सुषुप्ते नो चेद् बाह्यानलादेर्ज्वलनमपि तत: कल्प्यतां न त्वदृष्टात् ॥७२॥स्याद् दु:खाभावमात्रं सुखमभिदधतो वैपरीत्यप्रसक्ति: स्वापादौ दु:खसिद्धिर्नं यदि सुखमपि ह्यत्र नैवास्ति तादृक् ।शीतोष्णातीतनीतेर्द्वितयसमधिकावस्थितिर्दुस्त्यजाऽत-स्तत्तच्छब्दप्रयोगेष्वनियतिरुचितैस्संघटेतोपचारै: ॥७३॥भेदस्त्रेषा मतीनां ह्यपधिनियमितैरानुकूल्यादिधर्मे-स्तस्यैवात्यन्तहानेर्निरुपधिकसुखस्तादृशो धीविकास: ।निस्सीमब्रह्मतत्त्वानुभवभवमहाह्लाददुग्धार्णवेऽस्मिन् निश्शेषैश्वर्यंजीवानुभवरसभरो बिन्दुभावोपलभ्य: ॥७४॥संसारे नास्ति किञ्चित् सुखमिति कतिचित्तद्धेटेतोपचारा -न्नो चेद्व्युत्पत्तिहीनं सुखपदमधिकं तत्सुखं नाभिदध्यात् ।तस्माद् दु:खोत्तरत्वप्रभृतिभिरिह तद्दु:खमित्युक्तमाप्ते क्ष्र्वेलोपश्लेषदुष्टे मधुनि विषमिति व्याहृति: किं न दृष्टा ॥७५॥धर्मोऽधर्मश्च तत्तत्फलकरणतया शास्त्रसिद्धं क्रियादि-द्वारं त्वेतस्य कालान्तरनियतफले स्यादिहादृष्टमन्यत् ।आहुस्तत् केचिदन्त:करणपरिणतिं वासनां चेतसोऽन्ये पुंधर्मं केचिदेके विभु किमपि परे पुद्गलांस्तत्सय़ूथ्या: ॥७६॥तुल्ये सेवादिहेतो फलभिदुरतया साध्यते चेददृष्टं हेतोस्सूक्ष्मोऽस्तु भेदो न खलु समुचिता धर्मिणोऽन्यस्य क्लृप्ति: ।व्याख्यातं यत्तु बाह्यैर्विषयसमफाप्रापकत्वं क्रियाणां तत्सूतेऽतिप्रसक्तिं तदिह न निगमादन्यतोऽदृष्टिसिद्धि: ॥७७॥निस्संकोचान्निषेधात् क्वचन् फलतयाऽनूदितांहस्तु हिंसाअरुन्धे सामान्यभड्गे विधिरनुमितिरप्यत्र बाधादिदु:स्था ।स्वल्पो दोषो विमृष्टे सुपरिहर इह क्रत्वनुग्राहके स्या-दित्युक्तं सांख्यसक्तै: पशुहितवचनान्नेति शारीरकोक्तम् ॥७८॥सिध्येद्वा विश्ववृत्तेरनितरफलता स्थापनाद्यैरदृष्टं तत्सत्ताज्ञप्तिमात्रात्तदुचितनियतानुष्ठितिर्नेव सिध्येत् ।तस्माच्चर्याविशेषे श्रुतिरिह शरणं स्वर्गमोक्षादिहेतौ सेवादृष्टास्वरुपं प्रथयतु बहुधा तत्तदुक्ताद्विविक्तम् ॥७९॥शक्तिर्यागादिकस्य स्वफलवितरणे संभवे वा फलस्य स्थाप्या मध्ये तयोरित्यबहुमतिपदं सत्सु ततातिती वाक् ।शक्ताभावे हि शक्तिर्नं भवति शमितो धर्मधर्म्येक्यजल्प-स्तद्द्वारे शक्तिशब्दो यदि भवतु परं क्लृप्तिमस्य क्षिपाम: ॥८०॥द्वारं तत्तत्फलाप्ते: श्रुतिभिरवधृतौ देवताप्रीतिकोपौ व्याचक्रे देवपूजा यजनमिति न तन्न श्रुतं वाक्यविद्भि: ।आम्नातेऽपेक्षितेऽर्थे न च नयनिपुणैरश्रुतं कल्पनीयं नो चेत्स्याद्दत्ततोयाञ्जलिरिह भवतां रात्रिसत्रादिनीति ॥८१॥आराध्यादिप्रकाश: स्फुटमुपकुरुते मन्त्रसाध्यो विधीनां प्राशस्त्यादिप्रतीतिर्नं च भवति मषावर्णनैरर्थवादै: ।सत्येऽप्याकाड्क्शितेऽर्थे च भवति मूषावर्णनेरर्थवादै: ।सत्येऽप्याकाड्क्षितेऽर्थे तदुभयगमिते वाक्यभेदादि न स्या-ल्लोकेऽप्येवं हि दृष्टं तदनुगतिमुचां सर्वशास्त्रप्रकोप: ॥८२॥बुद्धिर्मन्त्रार्थवादैर्भवति दृढतरा देवतातद्गुणादौ बाधश्चातीन्द्रियेऽक्षैर्न हि भवति धियां मानता च स्वतो न: ।दु:खासंभिन्नदेशादिकमिव फलदा देवता तत्रतत्रप्राप्या च श्रूयतेऽत: कथय कथमियं शब्दमात्रादिरुपा ॥८३॥प्राचीनेन्द्राद्यपाये दिशतु कृतफलं को नु कल्पान्तरादा-वन्ये तत्तत्पदस्था न तदुपजनका: प्रागनाराधितत्वात् ।मेवं यस्य श्रुतिश्च स्मृतिरपि नियतादेशरुपे स एक-स्सर्वाराध्यान्तरात्मा न हि गलितपदो नापु सुप्तस्तदाऽपि ॥८४॥अस्त्वेवं कर्मवर्गे स्वयमिह फलदो हव्यकव्यैकभोक्ता तन्निध्नैस्तै: किमन्तर्गडुभिरिति च न स्वोक्तिबाधप्रसक्ते: ।कर्माराध्यत्वमेषां दिशति फलमसु पूर्वमाराधितस्तै: श्रद्धेया: श्राद्धभोक्तृद्विजवदत इमे निर्जरास्तस्य देहा: ॥८५॥विश्वेशाकूतभेदव्यवहितफलदे वैधघण्टापथेऽस्मिन् संस्काराणां गतार्थां सरणिरपि तथा मन्त्रणप्रोक्षणाद्यै: ।राजेच्छोपात्तभोग्यप्रभृतिनियमवत्तत्र कार्यान्तरादि-स्सत्तादीनां गुणानां विपरिणतिभिदां तत्फलं केचिदूचु: ॥८६॥कृष्यादौ मर्दनादावपि च न हि परप्रीतिमूला फलाप्ति-स्तद्वत् स्याच्छास्तसिद्धेष्विति न सदफलं ह्यत्र दृष्टान्तमात्रम् ।दृष्टौ चातस्समीची तदुपगतिरिह त्यक्तिरिष्टेऽपि वांशे ॥८७॥प्रध्वस्तं कर्मं कालान्तरभवितृफलासाधकं तल्लिडादे-र्वाच्योऽर्थं: स्थायि कार्यं न यदि कथमिबान्वेतु कामी नियोज्य: ।तच्चापूर्वं प्रधार्न फलजनकमपि स्यान्नियोज्यप्रसिद्ध्ये नित्ये नैष्फल्यमस्येत्यभिदधुरपरे तेऽपि निर्धूतकल्पा: ॥८८॥कृत्युद्देश्यं सुखादि स्वत इह न परं स्यादनन्यार्थवेद्यं क्लृप्तिश्चान्यस्य हेतोरपि च परिहृतं तत्परत्वं श्रुतीनाम् ।नित्ये चापूर्वतोऽन्यत् फलमनघगिरस्सस्मरुर्दुस्त्यजं तन्नो-चेत् स्वस्मिन्नियोगायुतमपि निपुणान्नैव शक्तं नियोक्तुम् ॥८९॥व्युत्पत्तिश्चेल्लिडादे: स्वयमवगमिते स्यान्मिथस्संश्रयादि-र्नान्यैरत्रानुभूति: स्मृतिरपि न च वस्तद्द्वयान्यो विमर्श: ।अर्थांपत्त्या मिते चेन्न गुरुमतमिदं मन्यसे तत्तथा चेत् कल्प्येत द्वारमात्रं तदिति न खलु तद्वाच्यभावादिकल्प्यम् ॥९०॥देवप्रीन्यादिकं वा विदितमिह विधिप्रत्ययस्यास्तु वाच्यं नात्रान्योन्याश्रयो न श्रुतपरिहरणं नापि क्लृप्तिर्गरिष्ठा ।प्राधान्यं स्याच्च किञ्चिन्नृपभजनयात् सिद्धमेतच्च शास्त्रे-रित्थं त्वर्थविरोधेऽप्यतिगरिमभयान्नेष्यते शब्दशक्ति: ॥९१॥सव्यापारं विशेष्ये स्वयमभिदधते नैव शब्दा: कदाचित् श्रुत्वा लिड्व्यापूतिं वा कुत इह यतनं स्वोपयोगाद्यबोधे ।तस्मादास्माकतत्तद्यतनकृदभिधा स्वस्य वाच्या लिड्गादे-रित्युक्तिं वह्ववद्याममनिषत बुधास्त्रस्तरीमात्ररुपाम् ॥९२॥न स्यात् पुंस: प्रवृत्यै विदितमपि गिरा स्वेष्टह्तुत्वमात्रं दुस्साधादावयोगादथ सहकुरुते साध्यतैकार्थयोग: ।इत्थं शक्तिर्द्वये स्याद्गरिमहतमिदं किञ्चिदत्रार्थतश्चे-दिष्टोपायत्वमर्थादुचितमिह तत: खण्डिता मण्डनोक्ति: ॥९३॥धात्वर्थस्यैव रुपं किमपि हि कथयन्त्यत्र सर्वे लकारा: कर्तृव्यपारसाध्यं त्वभिदधति विधिप्रत्ययास्तल्लिडाद्या: ।वैघट्यं द्वारसिद्धि: प्रशमयति तथा सन्ति लोकोक्तिभेदा-स्सिद्धं शब्दानुशशिष्ट्या त्विदमुचितमिति स्थापितं भाष्यकारै: ॥९४॥इष्टस्वर्गादिकस्य त्वितरदपि यदा साध्यमुक्तं तदाऽर्थात् सिद्धं तत्साधनत्वं सुगममिह तदाऽनर्थकत्वं निषेध्ये ।नित्यत्वेनोपदिष्टेष्वकरणमपि तत्तुल्यमेवार्थलब्धं सामान्यात् प्राप्तमेतत् फलन्यतिरपि व्यज्यते तत्तदुक्त्या ॥९५॥सन्ति ह्यन्ये लिडर्था: कथयित्रुपुरुषाकूतभेदास्तथाऽत्रा-प्याप्तस्याहुर्नियोगं हितमभिलषितं केऽपि भाष्याशयस्थम् ।शास्त्राज्ञाचेदनात्वं श्रुतिषु विविधपदेरन्वितत्वं नत्रोऽपि स्वादेशे चावधूते भवति समुचित: प्रत्यवाय: स्वतन्त्रात् ॥९६॥षाड्गुणस्यैव कुक्षौ गुणगण इतर: श्रीसखस्येव विश्वं षट्स्वन्ये ज्ञानशक्त्योर्विततय इति च व्यक्तमुक्तं हि तज्ज्ञै: ।निस्सीमानन्दभावस्थिरचरचिदचिच्छासनप्रेरणाद्या ऐशानज्ञानधर्मा: कतिचन नियता: केचिदागन्तवश्च ॥९७॥हेतो कार्योपयुक्तं यदिह भवति तच्छक्तिशब्दाभिलप्यं तच्चामुष्य स्वधर्मस्तवितरदपि वाऽपेक्षितत्वाविशेषात् ।विश्वं सर्वाद्भुतैकोदधिरगणि न सा तत्स्वरुपादिमात्रम् ॥९८॥यद्भ्रंशान्मन्त्ररुद्धो न दहति दहनश्शक्तिरेषाऽस्तु सोऽयं हेतुर्मन्त्राद्यभावस्स च गत इति तद्धेत्वभावाददाह: ।शक्तेर्नाशे किमस्या: पुनरिह जनकं वृत्तिरोधस्तु युक्तो वह्नेरित्यादिघोषो विरमति विदिते शब्दतश्शक्तितत्वे ॥९९॥शब्दादिष्वति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे सा चेन्नास्त्येषु कार्यं किमपि कथमित: स्यादितोदं न युक्तम् ।शक्तिश्शक्ता न वेति स्ययमवमृशत: स्वोक्तदोषप्रसड्गेनिस्तारश्चेत्स्वभावात् फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥१००॥बाह्याक्षादेरवृत्तौ चिरविदितमपि स्मर्यते येन सोऽयंसंस्कारास्तुल्यदृष्टिप्रभृतिसहकृतश्चेतसस्साह्यकारी ।नासौ पूर्वानुभूति: कथमुपक्रुरुतां सा पुरैव प्रनष्टा तुल्यादेर्नापि दृष्टि: कथमनवगते सा स्मृतिं नैव कुर्यात् ॥१०१॥यज्जन्यां संस्क्रियां यत् किमपि नियमतो बोधयिष्यत्यदृष्टं तत्तद्वेद्यावलम्बिस्मृतिमुपजनयेत् संमतं च द्वयोस्तत् ।न ह्यन्यद् दृश्यतेऽत्र क्वचन तदधिके कल्पिते गौरवं स्या-दित्युत्प्रेक्षा न युक्ता न हि परजनिते क्वापि तत्संस्क्रियोक्ति: ॥१०२॥बुद्धेरर्थेषु पूर्वप्रसरणजनितस्तेषु भूयोऽवगाहे संस्कार: कारणं तद्धीप्रसरजनकृताक्लृरौचित्यहीनाधीनिष्ठेनैव तेन ह्यचितमविकृतेरात्मन: कुण्ठतादि: ॥१०३॥शीघ्रं यातीति कर्मातिशयसमधिको दृश्यते कुत्र वेग-स्तद्भेदैर्वेगभेदं कथयसि च समस्तीव्रमन्दक्रमादि: ।तत्कर्मत्वाद्वितीते प्रथमवदुचिता तद्गुणोत्पन्नता चेत् बाधो नास्मिन्विपक्षे गुणपरिपदि वा कर्म सत्तत्त्वत: स्यात् ॥१०४॥शाखाकोदण्डचर्मप्रभृतिषु सति चाकर्षणादो कुतश्चिद् भूय: स्वस्थानयानं भवति स तु गुण: स्यात् स्थितस्थापकश्चेत् ।मेवं संस्थानयानं भवतु नियतो यद्विशिष्टे तवासौ तेन द्वौत्यं विलम्बो विरतिरपि परावर्तने जाघटीति ॥१०५॥प्राग्देशप्रापकोऽसौ किमिति नियमितो मेदिनीमात्रनिष्ठ-स्तोयाग्न्यादावदृष्टेरिति यदि न पृथिव्येकदेशेऽप्यदृष्टे: ।भूम्यंशे दृश्यते तत्फलमिति यदि नाबादिभेदेऽपि साम्यात् भूपृष्टम्भादिभेदादिदमिति च विपर्यासकल्पेऽप्यपायात् ॥१०६॥केचिद्देशान्तराप्तेर्जनिमभिदबधते कर्म वा कर्मजेष्ठा नेत्येकेऽम्भ: प्रवाहस्थिरवपुषि झषे तत्प्रतीतेरभावात् ।खादौ स्त्रोत:प्रदेशान्तरयुतिरुदके खादिदेशान्तरराप्ति-स्तुल्या तल्लौल्यदृष्टि: पयसि तदधिकं कर्म नालम्बते चेत् ॥१०७॥कर्मत्वान्नाक्षयोग्यं विमतमिति यदि व्याप्तिशून्यं तदेत-द्योग्यत्वेऽपि ह्यदृष्टिस्सहकृदपगमादर्यमादिक्रियाणाम् ।नो चेत्कर्मेव न स्यात् फलमपि हि भवेत्कर्महेतोस्त्वदिष्टात् द्विष्ठत्पाद्वा फलस्य द्वितयमपि भवेत्कर्मवत्सर्वदा व: ॥१०८॥केचित्कर्मादिरुपं जगदुरसमवाय्याह्युयं हेतुभेदं किं तैरेव निमित्ताश्रयमिह जनकं नानिमित्तं विभक्तम् ।तत्प्रत्यासत्तिमात्रं व्यभिचरति यदि स्वाकक्लृप्तेऽपि तुल्यं युक्त्या नैयत्यमत्रेत्यपि सममथवा स्वस्ति व: स्वैरवाग्भ्य: ॥१०९॥कर्मोत्क्षेपादिभेदात् कतिचिदकथयन् पञ्चधा तच्च मन्दं दिग्भेदात्तस्य भेदे दशविधमपि तत्कल्पनं सांप्रतं स्यात् ।यत्किञ्चिद्भेदकाच्चेदनवधिकभिदा कर्महेतुध्रुवाच्चे-दव्याप्तिर्बुद्धितश्चेदियमितरसमा संकरस्त्वत्र सह्य: ॥११०॥मुत्त्स्वर्णादिप्रसूते भवति हि घटधीर्नान्यदन्यद् घटत्वं नैकं बाध्यं समत्वात्तदिह परिहृति: कुत्रचित्क्वापि योग: ।पारापर्यं विरोध: परिहरणसमावेशनं चास्त्युपाधौतुल्यं चातिप्रसड्गादिकमिति न यथादृष्टभड्ग: क्वचित्स्यात् ॥१११॥जाति: प्राणप्रदात्री गुण इह तदनुप्राणिते भेद (क:) कं स्या-दित्याहु: केऽपि नेत्यं नियतिरुभयथाऽप्यर्थदृष्टेर्निशादौ ।तेनान्वेष्टव्यभेदप्रतिनियतिमता केनचिन्नित्यरुप्यं प्राप्ता यादृच्छिकीषु प्रमितिषु (तु) च यथादर्शनं तव्द्यवस्था ॥११२॥भिन्नेष्वेकावमर्शो न तु निरुपधिकस्तेषु चैक्यं विरुद्धं ज्ञानाकारोऽपि बाह्या न हि भवति न चासिद्धमारोपणीयम् ।तस्माद् गोत्वादिबुद्धिव्यवहुतिविषय: कोऽपि सत्योऽनुवृत्त-स्तत्य त्यागेऽनुमादे: क्षतिरिति कणभुक् तन्त्रभक्ता गृणन्ति ॥११३॥मध्ये यद्यस्ति जातिमंतिविहतमथो नास्ति भिन्ना भवेत् सातस्मादन्यत्र वृत्तिर्न च सकलमति: क्वापि कृत्सनांशवृत्त्यो: ।धर्मिध्वंसे तु धर्मस्थितिरपि न भवेन्नात्र गत्यादि च स्या-दित्याद्येर्बाह्यजल्पेरनितरगतिका संविदक्षोभणीया ॥११४॥अन्यापोहस्तु गोत्वप्रभृतिरिति तु नेदंतया तत्प्रतीते-रन्योन्यापोहबुद्या नियतिरिति मिथस्संश्रयस्तत्प्रतीतौ ।विध्याक्षेपक्षमत्वाद्विषमसमतया बुद्धिनैयत्यसिद्धे-श्शब्दार्थत्वादपोहो विमतिपदमिति व्याप्तिभड्गादि:दुस्थम् ॥११५॥युज्येतोपाधितश्चेनुगतधिषणा तत्र नेष्टाऽन्यक्लृप्ति-स्तस्मात् संघातवर्गेष्ववयवरचनाभेद्तोऽन्यत्र सिध्येत् ।सौसादृश्यात्तु जातिव्यवहृतिनियमस्तेन नातिप्रसवक्ति-र्नो चेत्मूर्तत्वमुख्येस्त्वदभिमतिनयाव्द्यज्यतां जातिरन्या ॥११६॥जातेर्यव्द्यञ्जकं ते तदपि यदि मतिं जातितस्संगृहीतंसाऽपि व्यड्गयान्यतस्स्यात्तदुपरि च भवेज्जातिसंस्थानमाला ।स्वेनैव व्यञ्जकस्याप्यनुगतिरिति चेत्तर्हि जाति: किमर्था व्यावृत्तानां स्वभावाद्यदि तदनुगतव्यञ्जकत्वं जितस्त्वम् ॥११७॥व्यावृत्तेर्व्यक्तिवन्न व्यवहृतिनियमस्साध्यता नानुवृत्तौ तद्धर्मस्यानुवृत्तौ तदभिमतमिह स्वीक्रियेतेति चेन्न ।केचित्संस्थानभेदा: क्वचन खलु मिथो भान्ति सादृश्यरुपा-स्तस्मादन्योन्यजेकस्मृतिविषयतया तत्तदेकावमर्श: ॥११८॥सादृश्यस्यानुवृत्तौ भवति परमता जातिरेवान्यथा चे-त्तन्मूला नानुवृत्तव्यवह्रुतिरुचितेत्येतदप्यात्तसारम् ।एकैकस्थं तु तैस्तैर्निरुपधिनियतैस्सप्रतिद्वन्द्विकं स्यात् धर्माभावप्रतीतिप्रभृतिनियमवद् दुस्स्यजेयं व्यवस्था ॥११९॥सादृश्यं शक्तिसंख्याप्रभृति च कतिचिद्भिन्नमूचुर्गुणादे: स्यादत्रातिप्रसक्ति: प्रतिगुणमगुणीकारलिड्गोपलब्धे: ।साधर्म्यात् संग्रहश्चेत् सममिदमुभर्योयेन केनापि यद्वाकिं दन्तादन्ति कृत्वा फलमिह बलिभुग्दन्तचिन्तान्तरेऽस्मिन् ॥१२०॥गन्धादौ सन्निदेशो न हि भवति न च द्रव्यभेदे निरंशेतस्माज्जात्याऽनुवृत्तव्यवहृतिरिति चेदुक्ततुल्योत्तरं तत् ।तत्तद्वस्तुस्वभावाद् घटत इह मिथस्सप्रतिद्वन्द्विकत्वंतज्जात्याधारतादेरपि तव नियतिस्तत्र न ह्यनत: स्यात् ॥१२१॥सत्तासामान्यमेके त्रिषु परिजगृहु: केऽपि जातावपीदंप्रख्यादीनां समत्वात्कथय न किमिदं सर्वनिष्ठं गृहीतम् ।किञ्च प्रामाणिकत्वप्रभृतिसमधिकं सत्वमन्यत्र दृष्टं तद्ब्रह्मेत्याश्रितं येर्ध्रुवमपलपितं तत्तृ तैर्धर्मतोक्ते: ॥१२२॥यज्जातीयं यदा यद्यदवधि गुणकं यत्र न ह्यन्यदीदृक् दृष्टेरित्यं विशेषैर्जगति विषमतां वक्ति वैशेषिकोऽपि ।नित्येष्वत्यन्ततुल्येष्वपि नियतदशाभेदयोगोऽस्ति शास्त्रात् प्राच्योपाध्यादयो वा विदुरतिभिदुरान् योगिवर्यादयस्तान् ॥१२३॥मुक्तास्त्वत्पक्षक्लृप्ता न हि निगम (दृशां) विदां तादृशाण्वादयो वायेषामन्योन्यभेदो गजतुरगनयात्कल्प्यतेऽन्य विशेष: ।जात्यैक्याद्व: पृथक्त्वैरिह न यदि फलं स्याद्विशेषै: कथं तत् तेषामप्यस्त्युपाधिस्सम इति न भिदाऽस्त्यत्र संरम्भमात्रात् ॥१२४॥नास्मद्दृश्या विशेषा: प्रणिहितमनसां तद्वियां क्वोपयोग-स्तत्तद्वस्तुप्रकाशस्सुलभ इह पुनर्भिन्नधीरस्तु मा वा ।वि (श्व) श्वं स्त्रष्टुर्विशिष्टप्रमितिमिह न ते कुर्वते नित्यसिद्धां तस्मात्तत्सिद्ध्यसिध्योर्न फलमनुमया नागमोऽप्यत्र तादृक् ॥१२५॥बन्धं नाध्यक्षयामस्समधिकमपृथक्सिद्धयोस्तत्स्वरुपात् कल्प्ये तस्यातिरेके तदुपरि च तथेत्यप्रकम्याऽनवस्था ।ताभ्यामेष स्वभावाद्धटित इति कृता भक्तिरस्त्वेतयोस्ते नो चेत् ज्ञानादिकानां विषयविषयिताद्यापतेदन्यदेवम् ॥१२६॥सम्बन्धे सर्वतुल्ये प्रसजति गुणजात्यादिसड्कीर्णभाव: तत्तद्द्वस्वभावादनियतिशमने निष्फलाऽन्यस्य क्लृप्ति: ।त्यक्ते तत्तद्विशेषे स्वयमुभयस मे चात्र संबन्धरुपे नानासम्बन्धपक्षेऽप्ययमधिकरणाधेयभेद: कथं स्यात् ॥१२७॥धर्मो धर्मो द्वयं वा कृतकमभिमतं यत्र सम्बन्धमत्र प्राहु: कार्यं स्वभावात्तदुभयघटितं केऽपि दत्तोत्तरं तत् ।सिद्धेऽसिद्धे समं वा तदुदय इति तु प्रेक्ष्य प्रक्षत्रयेऽपि प्रागुक्तेभ्योऽतिरिक्तान् प्रणिहितमनस: पश्यत प्रत्यवायान् ॥१२८॥सोऽभावो यु: स्वभावं नियमयति दशादेशकालादिभेदो नैवं सर्वाश्रितानां त्यजनमनितरस्थ्याप्यधीप्रातिपत्वात् ।तत्तत्प्रत्यर्थिभावस्फुरणसहकृतो नञ् प्रयोगक्षमोऽसौ नाभावानामभावं स्वमपि कलयसे भावभेदादितोऽन्यम् ॥१२९॥प्रध्वंसप्रागभावो द्वितनुरभिमत: प्रागभावात्ययश्चप्रागूर्ध्वानाद्यनन्तप्रतिनियतदशासन्तति: स्यात्तथा न: ।क्लृप्तेऽन्यस्मिन्नभावे परमपि च(पु)पराभावपारम्परीत-स्संपद्येतानवस्था स्वत उपरमणं दृष्ट एवास्त्वभीष्टे ॥१३०॥द्रव्येष्वेव ह्यवस्था क्रमत उपनता जन्मभड्गादिरुपा नावस्थानामवस्थान्वय इति न भवेत् कार्यतादीति चेन्न ।ता एवान्योन्यवैरव्यतिभिदुरतयाऽन्योन्यनाशादिरुपा-श्चिन्त्यो जमादिषट्कव्यहृतिविषयस्तत्तदर्थे यथार्हम् ॥१३१॥नाभाव: कारणानां कथमपि विषयो नि:स्वभावत्वयुक्ते: नाशोऽप्यस्यानपेक्ष्य: स्वयमसत इति प्रागभावादि नित्यम् ।स्वाभावग्रस्तमेतन्निखिलमपि जगन्नि:स्वभावं तत: स्यात् मैवं भावान्तरात्मन्यधिकवपुषि वा तत्स्वभावत्वदृष्टे: ॥१३२॥एतावन्त: पदार्था न तु पर इति तत्सिद्धयसिद्ध्योरयुक्तं मैवं योऽस्त्येष सिद्धान्त पर इति वचस्येष दोषो न तु स्यात् ।सत्येव स्यात्तवापि ह्याधिकमनधिकं वेति शड्कावकाशोनैवं चेन्नैव शड्का न च परिहरणं भित्तिलाभे हि चित्रम् ॥१३३॥इत्यं श्रीवेड्कटेश: श्रुतममत जगन्मूलकन्दं मुकुन्दंविस्तारो यस्य विश्वं मुनिभिरभिदधे विस्तरो वाड्मयं च ।यन्नास्मिन् क्वापि नैतत् क्षममिह कुहकैरिन्द्रजालं न तैस्ते-रेकं तत्सर्वसिद्ध्ये कलयत हृदये तत्त्वमुक्ताकलापम् ॥१३४॥निश्शेषां वस्तुवृत्तिं निपुणमिह मया न्यनस्ता क्वापि कोणेयत्रोदासि द्विधा वा समगणि गहने सम्मते सन्मतीनाम् ।निष्कष्टुं कश्चिदन्य: प्रभुरिह भगवल्लक्ष्मणाचार्यंमुद्रा-मक्षुद्राचार्यशिक्षाशतगुणितमतेरप्रमत्तान्न मत्त: ॥१३५॥दृष्टेऽपह्नु त्यभावादनुमितिविषये लाघवस्यानुरोधा-च्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् ।नाथोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धै: त्रातं सम्यग्यतीन्द्रैरिदमखिलतम: कर्शनं दर्शनं न: ॥१३६॥हृद्या हृत्पद्मसिंहासनरसिकहयग्रीवहेषोर्मिघोष-क्षिप्तप्रत्यर्थिदृप्तिर्जयति बहुगुणा पड्क्तिरस्मदुगुरुणाम् ।दिक्सौषाबद्धजैत्रध्वजपटपवनस्फातिनिर्धूततत्त-त्सिद्धान्तास्तोम्मतूलस्तबकविगमनव्यक्तसद्वर्तनीका ॥१३७॥अध्यक्षं यच्छु तं वा लघु भवति तदित्यादिमो वादिमोह-स्तत्तोदर्कां न तर्कास्तदिह जगति किं मेधया साधयामा ।तिष्ठत्वेतल्लधिष्ठा: कतिचन दधतो मानसे मानसेतुंहंहो सभ्यानसभ्यस्थपुट्मुखपुटा दुर्जना निर्जयन्ति ॥१३८॥स्यादित्थं शिक्षितार्थो य इह यतिपतिच्छात्रहस्ताग्रहनृत्य-न्नाराचन्यासरेखासहचरितमतिस्सर्वंतन्त्रस्वतन्त्र: शुष्कोपन्यासशिक्षापटिमकटुरत (द्भण्ड) द्वैरिविद्वत्करोटी-कुट्टाकक्रीडमष्टापदकटकमसौ वामपादे बिभर्तु ॥१३९॥गाथा ताथागतानां गलति गमनिका कापिलो क्वापि लीना क्षीणा काणादवाणी द्रुहिणहरगिरस्सौरभं नारभन्ते ।क्षामा कौमारिलोक्तिर्जंगति गुरुमतं गौरवाद् दूरवान्तंका शड्का शड्करादेर्भजति यतिपतो भद्रवेदीं त्रिवेदीम् ॥१४०॥॥ समाप्तश्चायं तत्त्वमुक्ताकलाप: ॥शुभमस्तु N/A References : N/A Last Updated : January 24, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP