संस्कृत सूची|संस्कृत साहित्य|सूक्तः| तैत्तिरीयारण्यकम् प्रपाठक... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... नारायणसूक्तम् - तैत्तिरीयारण्यकम् प्रपाठक... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : narayansooktavedनारायणवेदसूक्त नारायणसूक्तम् Translation - भाषांतर तैत्तिरीयारण्यकम् प्रपाठकः १० अनुवाकः १३सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।विश्वं नारायणं देवमक्षरं परमं पदं । विश्वतः परमान्नित्यं विश्वं नारायणँ हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।पतिं विश्वस्यात्मेश्वरँ शाश्वतँ शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणं । नारायण परोज्योतिरात्मा नारायणः परः ।नारायण परंब्रह्म तत्त्वं नारायण: परः । नारायणपरो ध्याता ध्यानं नारायणः परः । यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायाणः स्थित: । अनन्तमव्ययं कविँ समुद्रेऽन्तं विश्वशंभुवम् । पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपरि तिष्ठति । ज्वालमालाकुलं भाती विश्वस्यायतनं महत् । सन्ततँ शिलाभिस्तु लम्बत्याकोशसन्निभम् । तस्यान्ते सुषिरँ सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् । तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः । सोऽग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ।तिर्यगूर्ध्वमधश्शायी रश्मयस्तस्य सन्तता । सन्तापयति स्वं देहमापादतलमस्तकः ।तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः । नीलतोयद मध्यस्था विद्युल्लेखेव भास्वरा । नीवारशूकवत्तन्वी पीता भास्यत्यणूपमा । तस्याः शिखायाः मध्ये परमात्मा व्यवस्थितः । स ब्रह्म स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय ते नमो नमो नमः ॥नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP