संस्कृत सूची|संस्कृत साहित्य|सूक्तः| ॐ भूमिर्भूम्नाद्यौर्वरिणा... सूक्तः हिरण्यशृङ्गं वरुणं प्रपद्... भूमि-र्धेनुर्धरिणी लोकधार... सहस्रपरमा देवी शतमूला शता... मेधासूक्तम् ऋग्वेद-संहिताः ( मण्डलम् ... ॐ प्रातरग्निं प्रातरिन्द्... यो ब्रह्मा ब्रह्मण उज्जहा... ॐ ॥ जातवेदसे सुनवाम सोममर... ॐ॥ हिरण्यवर्णां हरिणीं स... ॐ भूमिर्भूम्नाद्यौर्वरिणा... ॐ विष्णोर्नुकं वीर्याणि प... तैत्तिरीयारण्यकम् प्रपाठक... तैत्तिरीयारण्यकम् तृतीय प... भूसूक्तम् - ॐ भूमिर्भूम्नाद्यौर्वरिणा... सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ. Tags : sooktavedवेदसूक्त भूसूक्तम् Translation - भाषांतर ॐ भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नाद-मन्नाद्यायादधे । आऽयङ्गौः प्रूश्निरक्रमी दसनन्मातरं पुनः । पितरं च प्रयन्त्सुवः । त्रिंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः । अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन् महिषः सुवः । यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या । सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि । यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे । आदित्या विश्वे- तद्देवा वसवश्च समाभरन् ।मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ॥ ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः । देवी हिरण्यगर्भिणी देवी प्रसूवरी ।सदने सत्यायने सीद ।समुद्रवती सावित्रीह नो देवी मह्यङ्गी ।महीधरणी महोव्यथिष्ठा श्शृङ्गेशृङ्गे यज्ञे यज्ञे विभीषिणी । इन्द्रपत्नी व्यापिनी सुरसरिदिह । वायुमती जलशयनीश्रियंधराजा सत्यन्धो परिमेदिनी ।श्वोपरिधत्तम् परिगाय ।विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् । लक्ष्मीप्रियसखीं देवीं नमाम्यच्युत वल्लभाम् ।ॐ धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि । तन्नो धरा प्रचोदयात् ।महीं देवीं विष्णुपत्नी मजूर्याम् । प्रतीची मेनां हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । महीं देवीं पृथिवीमन्तरिक्षम् । तच्छ्रोणैति श्रव इच्छमाना । पुण्यं श्लोकं यजमानाय कृण्वती ॥ॐ शान्तिः शान्तिः शान्तिः N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP