मेधासूक्तम्

सूक्त चे चार भेद आहेत- देवता, ऋषि, छन्द आणि अर्थ.


ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्यो ऽध्यमृताथ्संबभूव ।

स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणॊ भूयासम् । शरीरं मे विचर्षणम् ।
जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ।

ॐ शान्तिः शान्तिः शान्तिः

ॐ मेधा देवी जुषमाणा न आगा - द्विश्वाची भद्रा सुमनस्य माना ।
त्वया जुष्टा नुदमाना दुरुक्तान्बृहद्वदेम विदथे सुवीराः ।
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया ।
त्वया जुष्ट-श्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥
मेधा म इन्द्रो ददातु मेधां देवी सरस्वती ।मेधां मे अश्विनावुभावाधत्तां
पुष्करस्रजा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः ।
देवी मेधा सरस्वती सा मां मेधा सुरभिर्जुषताँ स्वाहा ॥
आमामेधा सुरभिर्विश्वरूपा हिरण्य़वर्णा जगती जगम्या ।
ऊर्जस्वती पयसा पिन्वमाना सामां मेधा सुप्रतीका जुषन्ताम् ॥
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु॥

(ॐ हंस हंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् ॥)

ॐ शान्तिः शान्तिः शान्तिः
===
शान्तिमन्त्राः
शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः ।
अहानि शं भवन्तु नश्शँ रात्रिः प्रतिधीयताम् ।
शमुषानो व्युच्छतु शमादित्य उदेतु नः ।
शिवा नश्शंतमा भवसुमृडीका सरस्वति ।

माते व्योम सन्दृशि ।
इडायैवास्त्वसि वास्तु मद्वास्तुमन्तो भूयास्म मा वास्तो श्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।

प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठाया श्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मा - न्द्वेष्टि यं च वयं द्विष्मः ।
आवातवाहि भेषजं विवातवाहि यद्रपः । त्वँ हि विश्वभेषजो देवानां दूत ईयसे ।द्वाविमौ वातौ वात आसिन्धॊरा परावतः ॥

दक्षं मे अन्य आवातु परान्योवातु यद्रपः ।
यददोवातते गृहेऽमृतस्य निधिर् हितः ।
ततो नो देहि जीवसे ततो नो धॆहि भेषजम् ।
ततो न मह आवह वात आवातु भेषजम् ।

शंभूर्मयोभूर्नोहृदेप्रण आयूँषि तारिषत् ।
इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः ।
सह यन्मे अस्ति तेन ।
भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्मप्रपद्य ऊँ प्रपद्ये ।

अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि ।

प्राणापानौ मृत्योर्मापातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥

द्युभिरक्‍तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
तन्नो मित्रो वरुणोमामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः ।
कयानश्चित्र आभुव दूती सदावृधस्सखा ।

कया शचिष्ठया वृता ।
कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ।
अभीषुणस्सखीनामविता जरितॄणाम् ।

शतं भवास्यूतिभिः ।
वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
उपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्‍ध्यस्मा न्निधयेव बद्धान् ।

शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
शंयोरभिस्रवन्तु नः॥

ईशानावार्याणां क्षयन्तीश्चर्‍षणीनाम् ।
अपो याचामि भेषजम् ।
सुमित्रान आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ।
यो वः शिवतमो रसस्तस्य भाजयते ह नः ।
उशतीरिव मातरः ।
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ ।
आपो जनयथा चनः ।

पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुचँ शमयतु ।
अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु ।

द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु ।

पृथिवी शान्तिरन्तरिक्षँ शान्ति द्यौ श्शान्तिर्दिशश्शान्तिरवान्तरदिशा

श्शान्तिरग्निश्शान्ति र्वायुश्शान्तिरादित्यश्शान्ति श्चन्द्रमाश्शान्ति र्नक्षत्राणि शान्तिरापश्शान्तिरोषधयश्शान्ति र्वनस्पतयश्शान्ति र्गौश्शान्ति रजा शान्तिरश्वश्शान्तिः पुरुषश्शान्ति र्ब्रह्म शान्तिर्ब्राह्मण श्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ।

तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः ॥

एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्त-मनूत्तिष्ठन्तु मामाँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि

मा मा हासिषुः

उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ।
तच्चक्षुर्देवहितं पुरस्तच्छुक्रमुच्चरत् ।

पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्‍च सूर्यं दृशे ।

य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥

ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमनेन महदन्तरिक्षं दिवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोऽधिविस्रसत् ।

मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि
 सर्वमायुरयाणि ।

आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्धमानः ।
यदास्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ।
ब्रह्म प्रावादिष्म तन्नो मा हासीत्॥

ॐ शान्तिः शान्तिः शान्तिः

सं त्वा सिंचामि यजुषा प्रजामायुर्धनं च ॥

ॐ शान्तिः शान्तिः शान्तिः


N/A

References : N/A
Last Updated : January 01, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP