संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| अष्टमो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - अष्टमो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत अष्टमो मयूखः Translation - भाषांतर यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः ।अन्यथा तु गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा ॥१॥व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥२॥अगूढं कलयेदर्थान्तरसंक्रमितादिकम् ।विस्मृतः किं अपांनाथ स त्वया कुम्भसंभवः ॥३॥अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् ।हा हा! मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः ॥४॥तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥५॥अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् ।कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥६॥संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव ।संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥७॥तुल्यप्राधान्यं इन्दुत्वं इव वाच्येन साम्यभृत् ।कान्ते त्वदाननरुचा ग्लानिं एति सरोरुहम् ॥८॥असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥९॥काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।इत्यष्टधा गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः ॥१०॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥११॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP