संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| तृतीयो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - तृतीयो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत तृतीयो मयूखः Translation - भाषांतर अल्पाक्षरा विचित्रार्थ-ख्यातिरक्षरसंहतिः ।उषाकान्तेनानुगतः शूरः शौरिरयं पुनः ॥१॥शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते ।मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते ॥२॥अभिमानो विचारश्चेदूहितार्थनिषेधकृत् ।इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥३॥हेतुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् ।नेन्दुर्नार्कोऽयं और्वाग्निः सागरादुत्थितो दहन् ॥४॥प्रतिषेधः प्रसिद्धानां कारणानां अनादरः ।न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः ॥५॥निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् ।ईदृशैश्चरितै राजन्सत्यं दोषाकरो भवान् ॥६॥स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने ।चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह ॥७॥सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये ।युवां एवेह विख्यातौ त्वं बलैर्जलधिर्जलैः ॥८॥युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः ॥९॥कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा ।असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् ॥१०॥इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः ।स्वर्णभ्राजिष्णुभालत्व-प्रभृतीव महीभुजः ॥११॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।तृतीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥१२॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP