संस्कृत सूची|संस्कृत साहित्य|चन्द्रालोकः| षष्ठो मयूखः चन्द्रालोकः प्रथमो मयूखः द्वितीयो मयूखः तृतीयो मयूखः चतुर्थो मयूखः पञ्चमो मयूखः षष्ठो मयूखः सप्तमो मयूखः अष्टमो मयूखः नवमो मयूखः दशमो मयूखः चन्द्रालोकः - षष्ठो मयूखः जयदेवेन रचितः अलङ्कारग्रन्थः । अलङ्कारशास्त्रग्रन्थेषु "चन्द्रालोक"वत् सरलं सुन्दरं सह्रुदयचित्ताकर्षकं च ग्रन्थरत्नं नान्यत् दृश्यते इति नातिशयोक्तिः । Tags : chandralokjayadevsanskritचंद्रलोकजयदेवसंस्कृत षष्ठो मयूखः Translation - भाषांतर आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा ।कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि ॥१॥गलद्वेद्यान्तरोद्भेदो हृदयेष्वजडात्मनाम् ।मिलन्मलयजालेप इवाह्लादं विकासयन् ॥२॥काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः ।आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः ॥३॥रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः ।आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर्युतः ॥४॥अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् ।सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः ॥५॥हासस्थायी रसो हास्यो विभावद्यैर्यथाक्रमम् ।वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः ॥६॥अभीष्टविप्रयोगाश्रु-पातग्लान्यादिभिः क्रमात् ।विभावाद्यैर्युतः शोक-स्थायी स्यात्करुणो रसः ॥७॥क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः ।मात्सर्यहस्तनिष्पेष-संमोहाद्यैर्यथाक्रमम् ॥८॥उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः ।वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः ॥९॥व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् ।भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः ॥१०॥स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् ।अनिष्टेक्षणनिष्ठीव-मोहाद्या यत्र संमताः ॥११॥अद्भुतो विस्मयस्थायी मायादिकविभावभूः ।रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः ॥१२॥निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः ।क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः ॥१३॥रतिर्देवादिविषया सन्ति च व्यभिचारिणः ।वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥१४॥निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥१५॥व्रीडा चपलता हर्ष आवेगो जडता तथा ।गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥१६॥सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थं अथोग्रता ।मतिर्व्याधिस्तथोन्मादस्तथा मरणं एव च ॥१७॥त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ॥१८॥सर्वसाधारणप्रेम-प्रश्रयादिस्वरूपया ।अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥१९॥भावस्य शान्तिरुदयः सन्धिः शबलता तथा ।काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे ॥२०॥आतुर्यं आसप्तमं च यथेष्टैरष्टमादिभिः ।समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च ॥२१॥पाञ्चालिकी च लाटीया गौडीया च यथारसम् ।वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः ॥२२॥मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः ।लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ ॥२३॥रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते ।कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता ॥२४॥सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा ।रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः ॥२५॥लकारोऽन्यैरसंयुक्तो लघवो घभधा रसौ ।ललितायां तथा शेषा भद्रायां इति वृत्तयः ॥२६॥अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् ।तर्ककर्कशपूर्णोक्ति-प्राप्तोत्कटधियां वृथा ॥२७॥वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् ।ललना रभसं धत्ते घनाटोपे महीयसि ॥२८॥महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः ॥२९॥ N/A References : N/A Last Updated : November 13, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP