संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पतज्जलिचरितम् ।| पतज्जलिचरितम् । तृतीय: सर्ग: । पतज्जलिचरितम् । पतज्जलिचरितम् । प्रथम सर्ग: । पतज्जलिचरितम् । व्दितीय: सर्ग: । पतज्जलिचरितम् । तृतीय: सर्ग: । पतज्जलिचरितम् । चतुर्थ: सर्ग: । पतज्जलिचरितम् । तृतीय: सर्ग: । श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ. Tags : patanjalisanskritपतंजलिसंस्कृत तृतीय: सर्ग: । Translation - भाषांतर अथ वीक्ष्य स शैलकन्यया सहितं चन्द्रकलाधरं पुर: ।रभसादुदतिष्ठादासनात्प्रणमन्नजलिना पतज्जलि: ॥१॥तदुपागमहर्षविस्मयौ स्तिमितं यद्यपि तं वितेनतु: ।स तथापि चकार द्ण्डवत्प्रणिपातं भुवि भक्तियन्त्रित: ॥२॥प्रणिपत्य समुत्थितस्तदव मुदितो मूर्ध्रि कृताज्जलिर्मुनि: ।तरुणेन्दुवतंसमादरात्तमुपश्लोकयितुं प्रचक्रमे ॥३॥श्रुतयोऽपि न शक्रुवन्ति ते स्तुतये किं पुनरीश मादृश: ।भणितिर्गृणती भवद्रुणान्परिशुध्येदिति किं तु मे मति: ॥४॥जगदीश यदेकमव्दयं तव सच्चित्सुखलक्षणं वपु: ।विधिविष्णुहरा इति त्रिधा बिभिदे तन्निजयैव मायया ॥५॥तव देव गिरा यथार्थया ननु कर्माणि नरा वितन्वते ।सुखबोधमयं सुमेधस: परमं ब्रह्म वदन्ति केवलम् ॥६॥अतिसुन्दरमस्तु मे सदा हृदये त्वव्दपुरिन्दुभूषणम् ।नियतं खलु यस्य दर्शनात्स्मरणीयो रमणो रतेरभूत् ॥७॥जडमेव रथाड्गमेकमप्यपरं व्दादशधा विभज्यते ।कुरथेन ततस्त्वया कथं विजितं वैरिपुरत्रयं विभौ ॥८॥भवदाश्रयणेन मार्गणा अपि लक्ष्मीपतयो भवन्ति यत् ।विपरीतमभूदिदं यतोऽजनि लक्ष्मीपतिरेव मार्गण: ॥९॥अपि सेव्यमनेकशाखया भजतामप्यधिकं फलप्रदम् ।परमेश भवन्तमीदृशं जगत: स्थाणुरिति ब्रुवन्त्यहो ॥१०॥विनिहत्य रणेऽन्धकं कलाधरचूओडामणिरप्यहो भवान् ।न खलु त्रपते ततो यत: परिपूर्णं त्वयि नास्ति पौरुषम् ॥११॥किमिहद्भुतमस्ति यज्जटातटिनीं कामपि तावकी पपौ ।जलधिं चुलुकीचकार किं तव भक्तोऽपि न कुम्भसंभव: ॥१२॥तव पश्चमुखानि लोचनान्यपि तु त्रीणि तथाष्टमूर्तय: ।इति शैलसुतातिसुन्दरं किमिति त्वामवृणीत गेहिनम् ॥१३॥वसनं करिचर्म वाहनं वृषभ: कोऽपि विभूषणं फणी ।अशनं विषमासिका गिराविति चित्रं जगतां त्वमीशिषे ॥१४॥वहतो नृकरोटिमालिकामनुलिप्तस्य परेतभस्मना ।पितृकानननर्तकस्य ते प्रमथेशस्य गुणास्तु पावना: ॥१५॥अरुणेन पदाम्बुजेन ते मम चित्रं क्रियते मन: शुचि ।मृदुनाप्यमुना भुजान्तरं कठिनं न त्रुटितं यमस्य किम् ॥१६॥विजिताद्रजतेन निर्मितौ विषमेषोरिषुधी इवाहृतौ ।कलये हृदि काड्क्षितप्रदे तव जड्घे तरुणेन्दुशेखर ॥१७॥गजहस्तजिगीषयेव यौ धृततारक्षवचर्मकड्कटौ ।गिरिजाकरमर्दनोचितौ भवदूरु भव भावये हॄदि ॥१८॥तव मध्यमहं तनुं भजे नितरवमीर्ष्यति यत्र नाभये ।प्रलयोध्दतरुद्रलोचनद्रुतारुप्याद्रिनदीजलभ्रम: ॥१९॥भुजगाभरणं भुजान्तरं भसितोद्भूलितमीश ते भजे ।स्फटिकाद्रिशिलातलं यथा करिकीर्णाम्बुजनालकोमलम् ॥२०॥अरुणाड्गुलिपल्लवौ नखद्युतिसंभावितपुष्पडम्बरौ ।कलिमोचन कालकण्ठ ते कलयेऽहं करकल्पपादपौ ॥२१॥मुखचन्द्रसमीपवर्तिनीमरुणामीश घनावलीमिव ।तव नौमि जटापरम्परां सितविद्युन्निभगाड्गनिर्झराम् ॥२२॥अविवेकतमोनिवृत्तये विलसन्तं विषमास्त्रशासनम् ।मध्रुरस्मितचन्द्रिकोदयं वदनेन्दुं तव चिन्तये हृदि ॥२३॥इति तं पुलकोद्रमै: स्तनौ हृदि भक्त्या प्रमदाश्रुणा दृशो: ।वचसि स्तुतिमिश्च संगतं परितुष्यन्प्रभुरब्रवीदिदम् ॥२४॥तपसा तव शेष तोषितो वितरिष्यन्वरमागतोऽस्मि ते ।अचिरेण वृणीष्व तं यतो वपुरीदृक्तव वारितं सुखात् ॥२५॥चरितं निजमादित: स्मरन्नथ शेषेति विमन्त्रितो मुनि: ।पदवार्तिकभाष्यनिर्मितौ प्रथमं पाटवमभ्ययाचत ॥२६॥अथ तस्य जगत्रयप्रभोर्नटनालोकनयोग्यतां पुन: ।मुनिमर्थयमानमात्मन: स तथास्त्वित्यवदन्मुदा मृड: ॥२७॥अयि वत्स चिदम्बराभिधं नगरं त्वं व्रज काननाध्यना ।तव तत्र नटेयमीक्षितुं दययेत्यन्तरधादुदीर्य स: ॥२८॥इति तस्य गिरा चिदम्बरं नगरं प्रास्थित नाटयलिप्सया ।मुदित: स मुनिर्मुमुक्षया भवतप्तो निकटं गुरोरिव ॥२९॥अपरं प्रविशन्वनं वनादपरं चाश्रममाश्रमाव्दजन् ।ददृशे स पवित्रदर्शन: सुरसिन्धोरिव पाथसां भर: ॥३०॥पथि तं फलपुष्पसंचयै: परिपूज्येव मुनिं वनद्रुमा: ।पवनाकुलपल्लवच्छलात्सफलं जन्मन इत्यनर्तिषु: ॥३१॥बुधमृध्दरसा पदे पदे परिपाकच्युतपुष्पकोमला ।पदवी तमनन्दयत्कवे: पठितव्याकरणस्य वागिव ॥३२॥गिरिनिर्झरशीकरान्किरन्सममारण्यविहड्गकूजितै: ।मुषितद्रुमपुष्पसौरभौ मुद्रमाधत्त वनानिलो मुने: ॥३३॥कटिबध्दमृगादनत्वचं कपिलोन्नध्दजटाभरं मुनिम् ।तमवेक्ष्य तरक्षवो वने न पलायन्त न चाभिचक्रमु: ॥३४॥चटुलाक्षमुदश्चिताननं चलवालज्चलमीषदन्तरम् ।कुतुकेन कुरड्गशावकास्तमृषिं ज्ञातिमिवानुदुद्रुवु: ॥३५॥कपयस्तदवेक्षणे तरुन्व्यथयामासुरसाधुभि: पदै: ।पदशास्त्र इवानधीतिन: कवय: कर्णपथान्विपश्चिताम् ॥३६॥तमवेक्ष्य निनिन्दुरुचकैरपदे पक्कणकुक्कुरा: पथि ।सरसस्य कवे: क्रमं गिरामवकर्ण्याक्षमयेव दुर्धिय: ॥३७॥ददृशे किल तेन गच्छता गिरिनद्यां कलहंसमण्डली ।कियदप्यसृगुक्षिता तनौ गिरिशस्येव कपालमालिका ॥३८॥अचलोर्ध्वतलादवस्थितं निपतन्तं स ददर्श निर्झरम् ।रविरश्मिजिता कृतं ध्वजे विपिनेनेव दुकूलपल्लवम् ॥३९॥कठिनोपलघट्टनोत्थितान्पतितान्निर्झरपाथसां कणान् ।चलितानविशेषतोऽग्रहीचमराणामपि वालधीन्मुनि: ॥४०॥निबिडोपलगर्तनि: सरत्फणिफूत्कार भियापसर्पिण: ।हरिणा नयनै: समाकुलै: पदवीमुत्पलिनीं मुनेर्व्यधु: ॥४१॥ज्वलितारुणपल्लवानलश्चिरिबिल्वप्रसवैकलाजया ।अचलस्य करग्रहोत्सवो वनलक्ष्येति विनिश्चिकाय स: ॥४२॥मधुरध्वनयो मधुव्रता मदनिष्यन्दमलीमसे पथि ।अवदन्मुनये निरक्षरं व्दिपमासन्नसरोवगाहिनम् ॥४३॥तरुमूलविहारिणो दरीभुवि भल्लूकगणानजीगणत् ।मृडकण्ठरुचीन्वनश्रिय: कचभारानिव जड्गमान्मुनि: ॥४४॥मृगराजकराहतित्रुटत्करिकुम्भच्युतमौक्तिके पथि ।निबिडोडुकदम्बडम्बरे स मुनिश्चन्द्र इवाम्बरे ययौ ॥४५॥अतिलड्घ्य वनानि जग्मुषा ददृशे तेन चिदम्बरं पुरम् ।इह ताण्डवयिष्यतीश्वर: कृपयेति प्रथमं गणैर्वृत्तम् ॥४६॥पृथुलश्रवसो बृहन्मुखा गडुकण्ठा गिरिसन्निभोदरा: ।विकटोच्छ्रितजानव: स्मरं विहसन्तीव यदागता गणा: ॥४७॥तमसामिव देहिनो भरा यमुनाया इव पिण्डिता झरा: ।जलदा इव मूर्तसंचरा: प्रमथा यत्परितो विजहिरे ॥४८॥विहरन्ति तरक्षुभिर्मिथो निनदैर्यत्र निगृह्णते हरीन् ।मुखविक्रियया च तर्जयन्त्यगकन्यापरिचारिणीर्गणा: ॥४९॥कुसुमाहृतये गणैई: प्रभोर्नवमुन्मत्तवनं प्ररोप्यते ।अपि यत्र विमृश्य लूयते प्रसवामोदघना च केतकी ॥५०॥अनुलेपनसंग्रहं प्रभो: प्रमथा यत्र परे वितन्वते ।परितर्जितघोरफेरवं प्रतिपद्यैव परेतभूतलम् ॥५१॥मलयद्रुमकोटरान्तरादपि वल्मीकबिलोदरादहीन् ।चकृषु: किल यत्र भूषणं नवमीशाय गणा: प्रदित्सव: ॥५२॥मलयाद्रिपटीरवासितान्द्रुतिगर्तेषु समीरणार्भकान् ।प्रभुकड्कणकुक्षिपूरणं तनितुं यत्र गणा निरुन्धते ॥५३॥पुरदाहमनड्गपातनं गरलास्वादनमन्तकक्षतिम् ।गजदानवखण्डनं जगु: प्रमथा यत्र चरित्रमैश्वरम् ॥५४॥कलयन्ति विभूतिभस्त्रिकां कतिचिद्यत्र गृहीतसूचय: ।अपरैरपि नाम सीव्यते नवरुद्राक्षमणिप्रसज्जनात् ॥५५॥विलसद्भसितत्रिपुण्ड्रका धृतरुद्राक्षकिरीटमौलय: ।कति यत्र नयन्ति वासरान्शिवपश्चाक्षरमन्त्रजापिन: ॥५६॥शिवभक्तगणे प्रदक्षिणक्रमणं यत्परितो वितन्वति ।भसितैरपर: समुन्नतो वरणोऽकल्प्यत तत्तनुच्युतै: ॥५७॥घटनाय जटाहिमांशुना परिगृह्णन्त्युड्गुमण्डलीमिव ।शिवमर्चयितुं यदाश्रया व्दिजलोका धवलार्कमजरीम् ॥५८॥गिरिशार्चनबिल्वपल्लग्रहजै: पाणिषु कण्टकक्षतै: ।कमलप्रमुखाड्करेखिका वसतां यत्र बतोपमीयते ॥५९।निवसन्ति दिव: कति श्रिय: कति वाण्य: कति मुक्तय: कति ।इति वेद्मि न तत्र या: शिवो विनियुड्क्ते प्रतिभक्तपूरुषम् ॥६०॥मृडनाटयदिदृक्षुभिर्जनै: परितस्तन्नगरं परिष्कृतम् ।प्रविशन्ददृशे पतजलि: प्रथमं व्याघ्रपदा तपस्विना ॥६१॥स समाधिदृशा निशामयन्फणिनामेष पति: पतज्जलि: ।इति तस्य सभाजनार्थमानदर्घ्यं सह पाद्यवारिणा ॥६२॥उपचारमुपेत्य तत्कृतं स च माध्यंदिनसंभवं मुनिम् ।कुशलं फणिनामधीश्वर: परिपप्रच्छ तप: समाधिषु ॥६३॥तावेवं परिचललब्धगाढसख्या - वग्रण्यौ शिवपदपद्मभक्तिभाजाम् ।त्रैयक्षं नटनमहोत्सवं दिदृक्षू योगीन्द्रौ कनकसभामगाहिषाताम् ॥६४॥इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते तृतीय: सर्ग: । N/A References : N/A Last Updated : May 02, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP