संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पतज्जलिचरितम् ।| पतज्जलिचरितम् । प्रथम सर्ग: । पतज्जलिचरितम् । पतज्जलिचरितम् । प्रथम सर्ग: । पतज्जलिचरितम् । व्दितीय: सर्ग: । पतज्जलिचरितम् । तृतीय: सर्ग: । पतज्जलिचरितम् । चतुर्थ: सर्ग: । पतज्जलिचरितम् । प्रथम सर्ग: । श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ. Tags : patanjalisanskritपतंजलिसंस्कृत पतज्जलिचरितम् । प्रथम सर्ग: । Translation - भाषांतर रुन्धन्समन्ताव्दलयं धरण्या दधाति य: स्वच्छदुकूललीलाम् ॥१॥तरड्गिणी वारुणराजधानीधेनुस्तनप्रस्रुतदुग्धजन्मा ।बहिष्प्रसर्पद्भुजगाधिराजभड्गीमिवाड्गीकुरुते यदग्रे ॥२॥अन्ये गुणा: सन्ति तथापि मन्ये माधुर्यमन्यादृशमेव यस्य ।यतो मधुव्देषकृदेव जातो निषेवमाण: पुरुषो यदम्भ: ॥३॥घना यत: प्रावृषिका गृहीत्वा पयांसि शड्खोदरपाण्डुराणि ।दरीगृहान्तर्गतभूतसड्घा: कैलासशैला इव संचरन्ति ॥४॥मन्थभ्रमन्दरवेगकीर्णान्व्योमाड्गणे वारिकणान्यदीयान् ।विद्याधरीविभ्रममौक्तिकाभानद्यापि पश्यन्त्युडुकैतवेन ॥५॥यमुद्रतैरावतदानधारानि: ष्यन्दनीलीभवदेकदेशम् ।तटस्थमास्वादितकालकूटं भर्गं समं प्राग्ददृशु: सुरेन्द्रा: ॥६॥उदेष्यता पूर्वमुडुप्रियेण विशिष्य यस्मिन्गमिते विवृध्दिम् ।मन्थाद्रिश्रृड्गे वसता शिवेन क्षीराभिषेक: क्षणमन्वभावि ॥७॥यस्यानुलिप्त: क्षणमुद्रतश्रीकराब्जकिज्जल्करजोभिरुर्मि: ।कुलाद्रिकन्याकुचकुड्कुमाड्कं विड्म्बयामास भुजं पुरारे: ॥८॥मन्थानशैलभ्रमिवातनुन्नै: प्रादुर्भवत्कल्पतरुप्रसूनै: ।सुगन्धिभिश्चारुसुधारसानामुदित्वराणामुपचस्करे य: ॥९॥यो मन्दरेण क्षुभितोऽपि गाढं पुंसा पुरोभागमुपेयुषेव ।सतां कवीनामिव शब्दबन्धोरसंबुधानां रुचिरं व्यतानीत् ॥१०॥आत्तेन यस्मादमृतद्रवेण जीवन्ति देवा इति नात्र चित्रम् ।विषं निपीयापि यत: समुत्थं व्यजेष्ट किं नान्तकमष्टमूर्ति: ॥११॥मरुद्रणैर्यन्मथनावसाने तटार्पिता वासुकिमन्थरज्जु: ।दिगन्तसान्द्रीकृतदुग्धगन्धं तरड्गवाताड्कुरमाचचाम ॥१२॥निर्मथ्य यं साधु यथास्वदेशं निर्लिपलोकैर्दिवि नीयमान: ।यतो यतो याति स मन्दराद्रिस्ततस्ततोऽभूयत दुग्धवृष्टया ॥१३॥पयांसि यस्य प्रथमं पविष्टान्यादाय मन्थाचलकन्दरेषु ।पुष्णन्ति यत्नेन विनैव भूता भूतेशभूषाभुजगानजस्रम् ॥१४॥सारज्ञ एक: स सरोरुहाक्षो जज्ञे सुधाजृम्भितसौरभेय: ।यदन्तराले जलन्तुशून्ये कदापि मीन: कमठ: कदापि ॥१५॥तस्यान्तरे श्रान्त इवागमान्तकान्तारसंचारवशादशेत ।फणीन्द्रशय्यां पवमानतूलैरापूरणीयामधिरुह्य शौरि: ॥१६॥कदाचिदासादितयोगनिद्रमभूतपूर्वेण वपुर्गरिम्णा ।अधोक्षजं वोढुमदक्षिणोऽभूत्पर्यड्कभूत: फणिनामधीश: ॥१७॥निरुध्दमुक्तश्वसितस्तदानीमभीक्ष्णमच्छूनकृशं फणीन्द्र: ।मतड्गजक्लिष्टमृणालकल्पमनेकधा वृत्तमधत्त भोगम् ॥१८॥संभ्रान्तदृक्पश्चशतीचतुष्को जिह्वासहस्रव्दयलीढसृक्का ।शतैर्मुखानां दशभिर्विमुश्चन्फूत्कारमुग्रं ददृशे स शेष: ॥१९॥तं तादृशं वीक्ष्य पलायितेषु सनत्कुमारादिषु तापसेषु ।समीपमागत्य बली गरुत्मान्पर्याकुल: किंचिदिदं बभाषे ॥२०॥न दृश्यते शेष भवान्पुरेव वदाधुना किं तव वैमनस्वम् ।प्रज्ञां बलं धैर्यमुदारतां च पश्यामि नान्यस्य तवेव लोके ॥२१॥निबध्य चण्डेन समीरणेन स्पर्धां पुर दुर्धरभोगभीम: ।चकर्थ तं मेरुगुहान्तरे त्वं चच्चत्फणामण्डलरुध्दवेगम् ॥२२॥विशालमूर्वीवलयं तरखी सशैलकान्तारनदीसमुद्रम् ।त्वमुत्तमाड्गस्य समुन्नतस्य महत्तमोष्णीषदशामनैषी: ॥२३॥गत्वैव धातुर्भुवनं युगान्ते कृतस्तुति: प्राज्जलिभिर्मुनीन्द्रै: ।विसृष्टफूत्कारविषानलस्त्वं विश्चत्रयं घक्ष्यसि दुर्निरीक्ष्य: ॥२४॥जगत्रयं यो जठरे बिभर्ति विश्वानि भूतानि च यस्य पाद: ।भोगेन बिभ्रत्पुरुषं तमाद्यं भवान्न वेद्य: परमेष्ठिनोऽपि ॥२५॥संजल्पितै: किं समरे गृहीत्वा कारागृहं यो रुरुधे महेन्द्रम् ।तस्यापि लड्केशसुतस्य हन्ता स लक्ष्मणस्ते किल मूर्तिभेद: ॥२६॥इत्थं गरुत्मन्तमुदीरयन्तं स दुर्वहश्रीशशरीरखिन्न: ।कथंचिदालम्ब्य धृतिं फणीन्द्रो गिरा शनैर्गद्रदया जगाद ॥२७॥मुरव्दिषो मूर्तिरियं पुरेव मयाद्य धर्तुं महती न शक्या ।परीक्षितुं मां गरिमा धृत: किमनेन सत्वं मम वा गृहीतम् ॥२८॥इति ब्रुवन्नेव स पन्नगेन्द्र: शरीरभारेण हरेश्चचाल ।खगेश्वरो मन्दरगौरवाभ्यां तदा भुजाभ्यां द्रुतमाललम्बे ॥२९॥किमेतदित्युज्झितकेलिपद्मा पयोधिकन्यापि तदा भयेन ।नवाम्बुजाभेन नवाम्बुजाभं निष्पीडयामास करं करेण ॥३०॥तत: स्फुरत्पद्यदलाभिरामं प्रमोदबाष्पाउलपक्ष्ममालम् ।उद्राढरोमाश्चितमूर्तिरक्ष्णोरुन्मीलयामास युगं मुरारि: ॥३१॥लघूभवन्तीमथ तस्य मूर्ति लक्ष्मीपतेर्वोढुमहि: शशाक ।जहर्ष च श्रीर्धृतकेलिपद्मा यथास्थितं विष्णुरथश्च तस्थौ ॥३२॥प्रणम्य भवत्या परम पुमासं पिप्रच्छिषुस्तत्तनुभारहेतुम् ।विव्दत्प्रियान्व्याकरणानुशिष्टान्प्रायुड्ग शब्दान्पवनाशनेन्द्र: ॥३३॥यदि प्रसादो मयि यद्यहं च श्रोतुं जगन्नाथ भवामि योग्य: ।वदात्र हेतुं यदशिश्रियस्त्वमभूतपूर्वं वपुषो गुरुत्वम् ॥३४॥इत्युक्तमीशेन भुजंगमानां श्रुत्वा मुकुन्द: स्मितकन्दलेन ।मुक्तवफलालंकॄतविद्रुमाभं बिम्बाधरं बिभ्रदवोचदेवम् ॥३५॥श्रृणु त्वमाश्चर्यमिदं फणीन्द्र शुश्रूषरुध्दाटय दृशां सहस्रे ।साम्यं बिभर्ति स्मरतो यदन्त: कायेन मे कुडलित: कदम्ब: ॥३६॥निरुध्दनिश्वासमवाप्य योगं स्थिरीकृते धारणया च चित्ते ।अदृश्यत द्रागपनीतमायानैपथ्यमीशस्य परस्य नृत्तम् ॥३७॥अस्मत्करासड्गरणन्मृदड्गं चतुर्मुखास्फालितचारुतालम् ।बिडौजसोदश्चितवेणुनादं वाणीकरक्काणितवल्लकीकम् ॥३८॥कपर्दलोलाभ्रन्दीतरड्ग घर्माम्बुसिक्तालिकभस्मपुण्ड्रम् ।भुजान्तरोद्भूतग्भुजड्गहारं कटीविराजत्करिचर्मकक्ष्यम् ॥३९॥अमर्त्यलोकैरनिमेषभावमासादितं शश्वदभिष्टुवद्भि: ।अवेक्ष्यमाणाद्भुतसंनिवेशशिज्जानमज्जीरपदारविन्दम् ॥४०॥अनल्पकल्पद्रुमपुष्पवर्षे चिदम्बरे हेमासभान्तराले ।कलीसमक्षं कलितप्रमोदै: प्रशस्यमानं मुनिभि: पुराणै: ॥४१॥आनन्दनृतं नटनायकस्य क्षेमं ददव्दृष्टवते जनाय ।यावन्मयादर्शि फणीन्द्र तावत्त्वया वपुर्गौरवमन्वभावि ॥४२॥इति ब्रुवाणं रमणं रमाया नूनं तदुक्तिश्रवहर्षनुन्न: ।गलत्प्रमोदाश्रुकणापदेशादानर्च मुक्तामणिभि: फणीन्द्र: ॥४३॥रोमाश्चिते तस्य शरीरमच्चे क्षणं विनिन्ये नलिनेक्षणोऽपि ।कुरड्गदष्टाग्रकुशप्ररोहे करीव तीरे कमलाकरस्य ॥४४॥श्रीश त्वदुक्तिश्रवणेन नीते चक्षु: सहस्रे मम चारितार्थ्यम् ।तथापि पश्येयमवश्यमैशं नृत्त प्रसीदेत स तं ययाचे ॥४५॥स याचमानाय सरोरिउहाक्षस्तस्मै पुनर्विस्मयमादधान: ।कथामथो माक्षिकमाक्षिपन्त्या भुजड्गराजाय गिरा जगाद् ॥४६॥पणीति कश्चिन्मुनिरस्ति पूर्वं स पाणिनं नाम कुमारमाप ।स्वतुल्यनाम्रा तनयेन सोऽपि दाक्षीमुदूढा दृढमभ्यनन्दत् ॥४७॥स पाणिनो दक्षभुवा पुरन्ध्र्या रिपु: पुराणामुमयेव रेमे ।काले मुनि: स्कन्द इव प्रसूतो हर्षं तयो: पाणिनिरप्यकार्षीत् ॥४८॥तपोभिराराधयत: कठोरैस्तस्य प्रसन्नस्तरुणेन्दुचूड: ।अघोषयद्दण्डविघट्टनेन चण्डं करस्थं डमरुं पुरस्तात् ॥४९॥शब्दावलेर्व्याकरणं चिकिर्षोस्तदा मुने: पाणिनिसंभवस्य ।मृडस्य चण्डा डमरुप्रणादा: शास्त्रादिसूत्राणि चतुर्दशासन् ॥५०॥इतीश्वरानुग्रहतो निबध्रन्सूत्राणि स व्याकृत शब्दजालम् ।सुष्ठु प्रयोगं कथयन्ति यस्य स्वर्लोकसोपानपरंपरेति ॥५१॥कात्यायन: कर्कशया प्रसाद्य तपस्यया चन्द्रकलावतंसम् ।तस्याथ सूत्रेषु पदार्थबोधप्रवर्तकं वार्तिकव्माबबन्ध ॥५२॥प्रयुक्तया व्याकरणस्य सूत्रै: सवार्तिकै: साधुतया पदानाम् ।अदुग्ध गौर्लौकिकवैदिकात्मा चिराय दुग्धं त्रिदिवं जनानाम् ॥५३॥श्रुत्वा निजस्योपरि वार्तिकानि सूत्रप्रबन्धस्य स सूत्रकार: ।कात्यायनेन ग्रथितान्यकुप्यकालो हि धीरेऽपि करोति मोहम् ॥५४॥प्रकम्पितोष्ठ परिवर्तिताक्षं पादक्रमन्यश्चितभूमिभागम् ।तमाश्रमं पाणिनिराजगाम कत्यायनस्तिष्ठति यत्र योगी ॥५५॥तमापतन्तं कुपितं मुनीन्द्रो दृष्ट्रापि सज्जीकृतपाद्यपात्र: ।कात्यायन: प्रत्युदगान्न यावत्तं पाणिनिस्तवदृषिं शशाप ॥५६॥यस्मादविज्ञाय मम प्रभावं वृषध्वजानुग्रहभाजनस्य ।सूत्रेष्वनुक्तोक्तदुरुक्तचिन्तावृथोद्यमं वार्तिकमातनिष्ठा: ॥५७॥तस्मात्पतेदेव तनुस्तवेयमित्युध्दतं पाणिनिशापवाक्यम् ।आकर्ण्य तूर्णं स विवृध्दमन्यु: कात्यायनोऽपि प्रति तं शशाप ॥५८॥भवानजानन्भगवत्प्रसादविवर्तभूतान्यपि वार्तिकानि ।मह्यं यत: शापमदान्मदेन ततो विशीर्येत तवापि मूर्धा ॥५९॥इति त्रयोदश्यभिधानवत्यां तिथौ मिथ: शापविसृष्टदेहौ ।उभौ मुनीन्द्रौ स्वकृतैस्तपोभि: पत्यु: पशूनां पदमाश्रयेताम् ॥६०॥आचार्ययोरद्भुतबोधभाजोरालोचयन्त: परलोकयात्राम् ।तदादि वैयाकरणा महान्तस्तस्यां तिथौ न प्रसजन्ति शास्त्रम् ॥६१॥ततो विवव्रे बुधमण्डलाय सवार्तिकं पाणिनिसूत्रबन्धम् ।स व्याघ्रभूति: सह पाणिनीय: श्वोभूतिना वाक्यकृदाश्रवेण ॥६२॥भोगीन्द्र तेषां भुवि वार्तिकानामशेषविव्दज्जनदुर्ग्रहाणाम् ।भाष्यं महत्कुर्विति भक्तरक्षी नियोक्ष्यते त्वां किल नीलकण्ठ: ॥६३॥तदा नियोगात्तरुणेन्दुमौलेर्धरातले त्वं विहितावतार: ।चिदम्बरक्षेत्रग: पवित्रं नेत्रोत्सवं द्रक्ष्यसि नृत्तमैशम् ॥६४॥इति मुरमथनोक्त्या मोदमान: फणीन्द्र - स्त्रिपुरहरनियोगं दीर्घकालादवाप्य ।तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौले - रवतरितुमवन्यामंशतश्चाशशंसे ॥६५॥इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते प्रथम: सर्ग: । N/A References : N/A Last Updated : May 02, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP