संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|पतज्जलिचरितम् ।| पतज्जलिचरितम् । व्दितीय: सर्ग: । पतज्जलिचरितम् । पतज्जलिचरितम् । प्रथम सर्ग: । पतज्जलिचरितम् । व्दितीय: सर्ग: । पतज्जलिचरितम् । तृतीय: सर्ग: । पतज्जलिचरितम् । चतुर्थ: सर्ग: । पतज्जलिचरितम् । व्दितीय: सर्ग: । श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ. Tags : patanjalisanskritपतंजलिसंस्कृत व्दितीय: सर्ग: । Translation - भाषांतर भूतलेऽथ जननोचितमार्षं वंशमीक्षितुमविक्षददृश्य: ।जन्तुविस्मृतपरस्परवैरं तापसाश्रमवान्तमन्त: ॥१॥यत्र काननचरो गजराजो वीतकर्दममृणालविशड्की ।जृम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥२॥अम्बरान्तरगते रविबिम्बे यत्र चानुदिनमातपभीतान् ।पन्नगान्वनमयूरयुवान: पालयन्ति गरुता विततेन ॥३॥यत्र चत्वरमपास्य तटान्ते चर्वितुं गवि तृणानि गतायाम् ।व्दीपिनी रसनया परिलिह्य स्तन्यमर्पयति वत्सतरस्य ॥४॥यत्र मुक्तकुहरं हिमभीतं रक्षितुं निजमुखेन गृहीत्वा ।मूषिकार्भकमरण्यबिडाली मूलकोटरमगम्य निनाय ॥५॥कृष्णसारवदनार्पितदर्भं कीरदत्तयवकल्पितहव्यम् ।हस्तिपुष्करसमाहृतनीरं हृष्यति स्म तदवेक्ष्य वनं स: ॥६॥तत्र कापि ददृशे मुनिकन्या गोणिकेति गुणसिन्धुरनेन ।या हि यापयति पुत्रनिमित्तं दारुणेन तपसा दिवसानि ॥७॥जन्म तापसकुले परिशुध्दे शीलमीशगृहिणीस्पृहणीयम् ।तां च वीक्ष्य तपसा ग्लपिताड्गीं मातरं स मनसा निरनैर्षीत् ॥८॥दातुमर्ध्यमहिमद्युतयेऽम्भ: पूतमज्जलिपुटे विनिधाय ।सा निमील्य नयने भगवन्तं भास्करं हृदि तदा परिदध्यौ ॥९॥प्राज्ञमर्पय सुतं मम भास्वन्नन्तरित्थमभिसन्धिजुषोऽस्या: ।पन्नगाधिपतिरर्कनियुक्त: प्राविशज्जनितुमज्जलिगर्भम् ॥१०॥संभृतार्घ्यजलमज्जलिमुच्चै: सा सहस्रकिरणं प्रति देवम् ।यावदुत्क्षिपति तावदमुष्मात्तापसाकृतिरहि: स पपात ॥११॥पादयोगपरिपावितभूमिं सा सुवर्णगिरिदृष्टपटुत्वम् ।दक्षिणं कलयितुं कमलेशं तं ददर्श नवमर्कमिवाग्रे ॥१२॥मेधया विमलया चिरमन्तर्व्याप्य निष्पतितयेव बहिश्च ।शारदेन्दुमहस: सहचर्यापाण्डरं भसितकुण्ठनयाड्गे ॥१३॥धावितो मनसि सत्त्वगुणेन व्दौ गुणावपि रजस्तमसीयौ ।तौ जटाभरमृगाजिनदम्भाद्दर्शयन्तमिव चोर्ध्वमधश्च ॥१४॥पान नं ९चित्तसड्गिहरशेखरचन्द्रस्थित्यपेक्षकमिवोडुकदम्बम् ।दक्षिणेन विमलं श्रवणेन सफाटिकाक्षवलयं कलयतम् ॥१५॥वल्कबिम्बमुदित्स्मितमीषव्दारिजं विकचमित्युपयान्तीम् ।चश्चरीकपटलीमिव कण्ठे शंकराक्षमणिधाम दधानम् ॥१६॥पुत्र एष मम पुण्यविपाकात्प्रादुरास किल पावकतेजा: ।इत्युपेत्य मुदिता सह्सा सा मूर्धि तं मुनिकुमारमजिघ्रत् ॥१७॥प्रस्रुतस्तनमुदश्चितबाष्पं विस्मृतव्रतपोविधिखेदम् ।पुत्रलाभसुखनाम्रि समुद्रे मज्जतीं स जननी प्रणनाम ॥१८॥तं तदाभिवदितुं प्रणतं प्राड्गाम तस्य जननी विततान ।यत्पतन्नभवदज्जलितोऽसौ तत्पतज्जलिरिति प्रथमानम् ॥१९॥श्रावितश्च स तदाभिवदन्त्य नाम तत्प्रथममेव जनन्या ।चिन्तितस्त्वदुपकण्ठमुपेयामित्युदीर्य तपसे चलितश्च ॥२०॥दर्शितद्रुमलताफलपुष्पे दक्षिणोदघितटेऽथ निवेश्य ।चन्द्रचूडकरुणाघटनार्हे दारुणे तपसि चारु स तस्थौ ॥२१॥आत्मनोऽपि भरणे धरणी मां प्रागियं नियुयुजे यदशक्ता ॥न व्यवस्थेत तदसाविति तस्यां स न्यधत्त चरणाड्गुलिमेकाम् ॥२२॥अर्कमण्डलगत: सहस मे शंकरोऽभिममतर्ययितेति ।सोऽवगम्य तदिवाथ जिघृक्षु: स्वं भुजव्दयमुदक्षिपदूर्ध्वम् ॥२३॥नायमीक्षितचरो नयनैर्मे मूर्ध्रि भूभृत इति प्रहिताक्ष: ।चापलादिव स चण्डमरीचिं संददर्श न ततो विरराम ॥२४॥तिष्ठता तपसि भक्षयितव्यं कन्दमूलफलपर्णमपास्य ।पूर्वजन्मकृतवासनया किं पूतमभ्यवजहार स वासम् ॥२५॥आगतां शुचमनीक्षितभास्वान्नित्यशीतलरसातलवासात् ।हातुमूष्मदिवसेषु स हर्षादध्युवास शिखिपश्चकमध्ये ॥२६॥शार्ड्गधन्वशयनव्त्वदशायां ताडितस्य तरलब्धितरड्गै: ।तस्य किं क्षतमभूददवासे शीतले शिशिरकालदिनेषु ॥२७॥प्राग्बिलेशयतया दुरवापान्यासनानि यदनेन जितानि ।अद्भुताय तदसून्नुरुघे यन्नात्र चित्रमनिलाशितयास्य ॥२८॥चक्षमे वपुषि कर्तुमनूनन्यासमड्कुरितकर्णकराड्गि: ।सांप्रतं किल स तापसरुपो मातृकाक्षरगणस्य फणीन्द्र: ॥२९॥रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्ग: ।अर्यमातप इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥३०॥प्राणरोधमतनिष्ट यदायं सा पुन: प्रथमेव ततोऽपि ।कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥३१॥पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण ।प्रागभूवमसहस्रमुख: किं नेति तत्स इव सोऽपि चकार ॥३२॥चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन ।निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन ॥३३॥गोणिकासुततप: कृतशड्का गोत्रभित्प्रभृतयस्त्रिदिवेशा: ।तत्तपो दलयतेति तदानीं प्रैरिरन्नमरवारनताड्गी: ॥३४॥अड्गभाज इव कल्पकवल्यो जड्गमा इव मनोजपताका: ।विभ्रमैरथ विटान्भ्रमयन्त्य: सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥३५॥स्रस्तनीविनहनं च्युतचेलव्यश्चितस्तनमृजूकृतमध्यम् ।पाणिना विटपमानमयन्ती पल्लवानहृत काचन तासु ॥३६॥एकया विकचमम्पकक्लृसं गद्दुकं कचभरे विनिधातुम् ।दोर्युगं नखपदोज्ज्वलमूलं नोद्भॄतं न विरतं च नताड्ग्या ॥३७॥कल्पितं बकुलदाम कराभ्यापर्ययाम्यहमिहेति हसन्ती ।आहृतांशुकमदर्शयदेका हेमकुम्भसदृशं कुचभारम् ॥३८॥वीक्ष्य कानकशुके कुचयुग्मं द्रागनुद्रवति दाडिमबुध्द्या ।स्रंसमानजघनांशुकमीषदृश्यनाभिबिलमद्रवदन्या ॥३९॥अन्यया तरुतले तरलाक्ष्या वारितोऽपि वलयस्वनितेन ।आपतन्मधुकरोऽधरबिम्बं पातकी परिचुचुम्ब चिराय ॥४०॥स्वेदबिन्दुकमनीयकपोला श्वासकम्पितघनस्तनकुम्भा ।भूतले निहितजानुयुगान्या कन्दुकं प्रतिजघान कराभ्याम् ॥४१॥मा विकर्ष मम वेणिलतामित्याहत: करजुषा कमलेन ।किं व्यथेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु बर्ही ॥४२॥संपदर्श्य नवमौक्तिकहारं संमुखे नवमृणाललतेति ।केलिचंक्रममिवोपदिशन्ती कापि दूरमहरत्कलहंसम् ॥४३॥संनिधौ किमपि चारु नदन्तं मामयं बत विडम्बयतीति ।कड्कणकणितपाणिकपोतं कापि केलिकमलेन जघान ॥४४॥चारु वाममधिरोप्य कराब्जं दक्षिणेन परिमृष्टपतत्राम् ।मज्जुलानि रणितानि तदानीं शारिकां कमलपाठयदेका ॥४५॥प्रौढयौवनमदोध्दतलीलं पश्चबाणपिककेलिविलासम् ।इत्थमन्तिकचरं सुरनारीचक्रमेत्य तमियेष विकर्तुम् ॥४६॥लोकहेमवलयेन विराजन्मुद्रिकेण धृतिभि: सह यूनाम् ।पाणिपल्लवयुगेन मृदड्गस्ताडितोऽजनि कयापि तरुण्या ॥४७॥कश्चुकस्थगितवल्गदुरोजं कन्दलत्कणितकड्कणहस्तम् ।तन्वती तरलतां तरुणानां तालयोर्व्दयमघट्टयदन्या ॥४८॥कण्ठजृम्भितकलस्वनभड्ग्या कामिनां भ्रमिसृजा हृदयेषु ।अड्गुलीभिरिव पल्लवयन्त्या वल्लकीमपरया समगायि ॥४९॥पकबिम्बफलरोचिषि धन्यं वेणुमेकमधरे विनिवेश्य ।कापि वादनमिषेण मृगाणां कर्णकमधरे मधूनि ववर्ष ॥५०॥स्पन्दमानकबरीभरमाल्यं मन्दहासमधुराधरबिम्बम् ।धर्मवारिकणमौक्तिकपड्कि क्लिन्नपत्रमकरड्ककपोलम् ॥५१॥भावसूचनविलोलकराग्रं संहतस्तनलुठन्मणिहारम् ।चारुनूपुरझलज्झलिताड्घ्रिन्यासमेणनयनानटदेका ॥५२॥केशमाल्यमकरन्दतुषारो वीटिकारसलवड्गसुगन्धी ।सुभ्रुवां कुचतटाहतिमन्दस्तं तदाभजदृषिं वनवात: ॥५३॥इत्यमर्त्यवनिताललितेन क्षोदितोऽपि न चचाल स योगी ।वाति चण्डपवनो वसुमत्यां तावता चलति किं गिरिरीषत् ॥५४॥काचिदेत्य तदनु प्रमदानामालिलिड्ग तमुरोजयुगेन ।कानने कलभकुम्भनिकाषादस्य किंचिदधिकं न ततोऽभूत् ॥५५॥आदधे वपुषि तस्य ततोऽन्या वक्रपाटलमुखानि नखानि ।खेलतामुपरि तव्दिहगानामातनोत्पदनखार्पणभड्गीम् ॥५६॥कापि वक्त्रकमलेन मृगाक्षी तत्कपोलमथ चारु चुचुम्ब ।न व्यकारि स ततोऽपि तपस्वी लेहनादिव कुरड्गशिशूनाम ॥५७॥तस्य तत्र मतिनिर्जितकामे यौवतस्य विफलोऽजनि यत्न: ।किं करोतु बलिना युधि नाथ पातिते परनृपेण भटौघ: ॥५८॥तादृशं भुवि कुशासनभाजं धारिताक्षवलयं करपद्मे ।नासिकाग्रनिहिताक्षमवेक्ष्य व्यस्मयन्त सुरविभ्रमवत्य: ॥५९॥विभ्रमैरपि निजैरविकार्यं तं विरागमिव मूर्तमवेक्ष्य ।शापदानचकिता हरिणाक्ष्यस्तस्य किंचिदपचक्रमुरग्रात् ॥६०॥हृष्यत: शतमखस्य नियोगात्सिध्दचारणगणेन तदानीम् ।पातिताजनि मुनेरुपरिष्टात्पारिजातकुसुमोत्करवृष्टि: ॥६१॥तावदम्बुदकदम्बगभीरा दध्वनुस्त्रिदिवदुन्दुभयश्च ।या विमोहयितुमागतवत्यस्ताभिरेव ननृते च वधूभि: ॥६२॥तस्यातिदुष्करमवेक्ष्य तप: प्रसन्नो दातुं वर्म तदुचितं दययाथ तस्मै ।कैलासगौरमधिरुह्य वृषं महान्त - मर्धेन्दुमौलिरुमया सममाविरासीत् ॥६३॥इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते व्दितीय: सर्ग: । N/A References : N/A Last Updated : May 02, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP